________________
पृ० ७. पं० १९.]
टिप्पणानि । प्येकेन्द्रियाणां भावश्रुताभ्युपगमादिति चेत्, नैवम् , अभिप्रायाऽपरिज्ञानात् , शब्दोल्लेखसहितं विशिष्टमेव भावश्रुतमाश्रित्य तल्लक्षणमुक्तम् , यत्त्वेकेन्द्रियाणामौधिकमविशिष्टभावश्रुतमात्रं तदावरणक्षयोपशमस्वरूपम् , तच्छृतानुसारित्वमन्तरेणापि यदि भवति, तथापि न कश्चिद् व्यभिचारः।" विशेषा० टी० गा० १०२-१०३,४७५-४७६ । पृ० ७. पं० १९. 'पदार्थ' - तुलना -
"सुत्तं पयं पयत्थो संभवओ विग्गहो वियारो य। दृसियसिद्धी नयमयविसेसओ नेयमणुसुत्तं ॥" विशेषा० गा० १००२ । "संहिता च पदं चैव पदार्थः पदविग्रहः।। चालना प्रत्यवस्थानं व्याख्या तत्रस्य षड्विधा ॥" विशेषा० टी० पृ० ४७० । "संहिया य पयं चेव पयत्थो पयविग्गहो ।
चालणा य पसिद्धी य छव्विहं विद्धि लक्षणं ॥३०२॥ तत्र संहितेति कोऽर्थः, इत्याह -
सन्निकरिसो परो होइ संहिया संहिया व जं अत्था ।
लोगुत्तर लोगम्मि य हवइ जहा धूमकेउ त्ति ॥ ३०३ ॥ यो द्वयोर्बहूनां वा पदानां 'परः' अस्खलितादिगुणोपेतो विविक्ताक्षरो झटिति मेधा- 15 विनामर्थप्रदायी सन्निकर्षः' संपर्कः स संहिता । अथवा यद् अर्थाः संहिता एषा संहिता। सा द्विविधा- लौकिकी लोकोत्तरा च । तत्र लौकिकी 'यथा धूमकेतुः' इति । यथा इति पदं धूम इति पदं केतुरिति पदम् ॥ ३०३ ॥
तिपयं जह ओवम्मे धूम अभिभवे केउ उस्सए अत्थो।
को सु त्ति अग्गि उत्ते किं लक्खणो दहणपयणाई ॥ ३०४ ॥ 'यथा धूमकेतुः' इति संहितासूत्रं त्रिपदम् । सम्प्रति पदार्थ उच्यते-यथेति औपम्ये । धूम इति अभिभवे, 'धूवि धूनने' इति वचनात् । केतुरिति उच्छ्रये । एष पदार्थः । धूमः केतुरस्य इति धूमकेतुरिति पदविग्रहः । कोऽसौ इति चेत् अग्निः । एवमुक्ते पुनराह-स किंलक्षणः ? । सूरिराह - दहन-पचनादि । दहन-पचन-प्रकाशनसमर्थोऽर्चिष्मान् ॥ ३०४ ॥ अत्र चालनां प्रत्यवस्थानं चाह -
जइ एव सुक्क-सोवीरगाई वि होति अग्गिमक्खेवो । न वि ते अग्गि पइन्ना कसिणग्गिगुणनिओ हेऊ ॥ ३०५ ॥ दिटुंतो घडगारो न वि जे उक्खेवणाइ तकारी ।
जम्हा जहुत्तहेऊसमनिओ निगमणं अग्गी ॥ ३०६ ॥ यदि नाम दहन-पचनादिस्तर्हि शुक्ल-सौवीरकादयोऽपि दहन्ति, करीषादयोऽपि पचन्ति, 30 खद्योतमणिप्रभृतयोऽपि प्रकाशयन्ति ततस्तेऽपि अग्निर्भवितुमर्हन्ति - एष 'आक्षेपः' चालना। अत्र प्रत्यवस्थानमाह - 'नैव शुक्लादयोऽग्निर्भवन्ति' इति प्रतिज्ञा 'कृत्स्नगुणसमन्वितत्वात्' इति हेतुः । 'दृष्टान्तो घटकारः' । यथा हि घटकर्ता मृत्पिण्डदण्डचक्रसूत्रोदकप्रयत्नहेतुकस्य
ज्ञा० १०
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org