________________
3
आह - ननु सुप्तयतिलक्षणदृष्टान्तेपि तावद् भावश्रुतं नावगच्छामः, तथाहि श्रुतोपयोगपरिणत आत्मा शृणोतीति श्रुतम्, श्रूयते तदिति वा श्रुतमित्यनयोर्मध्ये कया व्युत्पत्त्या सुप्तसाधोः श्रुतमभ्युपगम्यते ? । तत्राद्यः पक्षो न युक्तः, सुप्तस्य श्रुतोपयोगाऽसम्भवात् । द्वितीयोऽपि न सङ्गतः, तत्र शब्दस्य वाच्यत्वात्, तस्यापि च स्वपतोऽसम्भवादिति । सत्यम्, किन्तु शृणोत्यनेन, अस्माद्, अस्मिन् वेति व्युत्पत्तिरिहाश्रीयते, एवं च श्रुतज्ञानावरण1. क्षयोपशमो वाच्यः संपद्यते, स च सुप्तयतेः, एकेन्द्रियाणां चास्तीति न किंचित् परिहीयते ।”
विशेषा० टी० गा० १०१ ।
16
ज्ञानविन्दुप्रकरण
[ पृ० ७. पं० १२
तावन्मात्रेण तस्य श्रुतज्ञानाभावो व्यवस्थाप्यते किन्तु स्वापाद्यवस्थोत्तरकालं व्यक्ती भवद् भावश्रुतं दृष्ट्वा पयसि सर्पिरिव प्रागपि तस्य तदाऽऽसीदिति व्यवहियते, एवमेकेन्द्रियाणामपि सामग्रीवैकल्याद् यद्यपि द्रव्यश्रुताभाव:, तथापि आवरणक्षयोपशमरूपं भावश्रुतमवसेयम् । परमयोगिभिर्दृष्टत्वात्, वहयादिष्वाहार-भयपरिग्रहमैथुनसंज्ञादेस्तल्लिङ्गस्य दर्शनाचेति ।
७२
20
"यस्य सुप्तसाधर्भाषा-श्रोत्रलब्धिरस्ति तस्योत्थितस्य परप्रतिपादन परोदीरितशब्दश्रवणादिलक्षणं भावश्रुतकार्यं दृश्यते, तद्दर्शनाच्च सुप्तावस्थायामपि तस्य लब्धिरूपतया तदाssसीदिति अनुमीयते यस्य त्वेकेन्द्रियस्य भाषा - श्रोत्रलब्धिरहितत्वेन कदाचिदपि श्रुतकार्यं नोपलभ्यते, तस्य कथं तदस्तीति प्रतीयते ?
अत्रोत्तरमाह – एकेन्द्रियाणां तावच्छ्रोत्रादिद्रव्येन्द्रियाऽभावेऽपि भावेन्द्रियज्ञानं किंचिद् दृश्यत एव, वनस्पत्यादिषु स्पष्टतल्लिङ्गोपलम्भात्, तथाहि - कलकण्ठोद्गीर्णमधुरपञ्चमोद्गार - श्रवणात् सद्यः कुसुम-पल्लवादिप्रसवो विरहकवृक्षादिषु श्रवणेन्द्रियज्ञानस्य व्यक्तं लिङ्गमवलोक्यते । तिलकादितरुषु पुनः कमनीय कामिनीकमलदलदीर्घशरदिन्दुध वललोचनकटाक्षविक्षेपात् कुसुमाद्याविर्भावश्च चक्षुरिद्रियज्ञानस्य, चम्पकाद्यंहिपेषु तु विविधसुगन्धिगन्धवस्तुनिकरम्बोन्मिश्रविमलशीतलसलिलसेकात् तत्प्रकटनं घ्राणेन्द्रियज्ञानस्य, बकुलादिभूरुहेषु तु रम्भातिशायिप्रवररूपवर तरुणभामिनीमुखप्रदत्त स्वच्छ सुखादुसुरभिवारुणीगण्डुषास्वादनात् तदाविष्करणं रसनेन्द्रियज्ञानस्य, कुरबकादिविटपिष्वशोकादिद्रुमेषु च घनपीनोन्नत कठि - नकुचकुम्भविभ्रमापभ्राजितकुम्भीनकुम्भरणन्मणिवलय क्वणत्कङ्कणाभरणभूषितभव्यभामिनी25 भुजलताऽवगूहनसुखात् निष्पिष्टपद्मरागचूर्णशोणतल तत्पादकमलपाणिप्रहाराच झगिति प्रसूनपल्लवादिप्रभवः स्पर्शनेन्द्रियज्ञानस्य स्पष्टं लिङ्गमभिवीक्ष्यते । ततश्च यथैतेषु द्रव्ये - न्द्रियासरत्वेऽप्येतद् भावेन्द्रियजन्यं ज्ञानं सकलजनप्रसिद्धमस्ति, तथा द्रव्यश्रुताभावे भावश्रुतमपि भविष्यति । दृश्यते हि जलाद्याहारोपजीवनाद् वनस्पत्यादीनामाहारसंज्ञा, सङ्कोचनवल्यादीनां तु हस्तस्पर्शादिमीत्याऽवयवसंकोचनादिभ्यो भयसंज्ञा, विरहकतिलकचम्पक केशराऽशोकादीनां तु मैथुनसंज्ञा दर्शितैव, बिल्वपलाशादीनां तु निधानीकृतद्रविणोपरिपादमोचनादिभ्यः परिग्रहसंज्ञा । न चैता: संज्ञा भावश्रुतमन्तरेणोपपद्यन्ते । तस्माद् भावेन्द्रियपञ्चकावरणक्षयोपशमाद् भावेन्द्रियपञ्चकज्ञानवद् भावश्रुतावरणक्षयोपशमसद्भाबाद् द्रव्यश्रुताभावेऽपि यच्च यावच्च भावश्रुतमस्त्येवैकेन्द्रियाणाम्, इत्यलं विस्तरेण । तर्हि 'जं विष्णाणं सुयाणुसारेणं' इति श्रुतज्ञानलक्षणं व्यभिचारि प्राप्नोति श्रुतानुसारित्वमन्तरेणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org