________________
पृ०७. पं० १२.]
.टिप्पणानि ।
७१
___"अश्रुतनिश्रितं चतुर्विधं प्रज्ञप्तं, तद्यथा- उत्पत्तिरेव न शास्त्राभ्यासकर्मपरिशीलनादिकं प्रयोजनं-कारणं यस्याः सा औत्पत्तिकी । ननु सर्वस्या बुद्धेः कारणं क्षयोपशमः तत्कथमुच्यते- उत्पत्तिरेव प्रयोजनमस्या इति ? । उच्यते-क्षयोपशमः सर्वबुद्धिसाधारणः ततो नासौ भेदेन प्रतिपत्तिनिबन्धनं भवति, अथ च बुद्ध्यन्तराद्भेदेन प्रतिपत्त्यर्थं व्यपदेशान्तरं कर्तुमारब्धम् , तत्र व्यपदेशान्तरनिमित्तमत्र न किमपि विनयादिकं विद्यते केवलमेवमेव तथो- 5 त्पत्तिरिति सैव साक्षानिर्दिष्टा । तथा विनयो- गुरुशुश्रूषा स प्रयोजनमस्या इति वैनयिकी । तथा, अनाचार्यकं कर्म, साचार्यकं शिल्पम् , अथवा कादाचित्कं शिल्पम् , सर्वकालिकं कर्मकर्मणो जाता कर्मजा ॥ तथा परिसमन्तानमनं परिणामः सुदीर्घकालपूर्वापरपालोचनजन्य आत्मनो धर्मविशेषः स प्रयोजनमस्याः सा पारिणामिकी ।" नन्दी० म० पृ० १४४ ।. . - "आसां बुद्धीनां विशेषार्थः कथानकादवसेयः” - नन्दी० म० पृ० १४५।
" पृ० ७. पं० ४. 'पुचि' - व्याख्या - "व्यवहारकालात् पूर्व यथोक्तरूपेण श्रुतेन परिकर्मिता आहितसंस्कारा मतिर्यस्य स तथा तस्य साध्वादेर्यत् साम्प्रतं व्यवहारकाले श्रुतातीतं श्रुतनिरपेक्षं ज्ञानमुपजायते तत् श्रुतनिश्रितमवग्रहादिकं सिद्धान्ते प्रतिपादितम् । इतरत् पुनः अश्रुतनिश्रितम् तच्च औत्पत्तिक्यादिमतिचतुष्कं द्रष्टव्यम्" -- विशेषा। टी० गा० १६९। ..... __ पृ०७.५० ९. 'लब्धियोगपद्येऽपि'-"द्विविधे मतिश्रुते तदावरणक्षयोपशमरूपलब्धितः, 1 उपयोगतश्च । तत्रेह लब्धितो ये मतिश्रुते ते एव समकालं भवतः । यस्त्वनयोरुपयोगः स युगपद् न भवत्येव, किन्तु केवलज्ञान-दर्शनयोरिव तथास्वाभाव्यात् क्रमेणैव प्रवर्तते । अत्र तर्हि लब्धिमङ्गीकृत्य मतिपूर्वता श्रुतस्योक्ता भविष्यतीति चेत् । नैवम् । इह तु श्रुतोपयोग एव मतिप्रभवोऽङ्गीक्रियते, न लब्धिरिति भावः । श्रुतोपयोगो हि विशिष्टमन्तर्जल्पाकारं श्रुतानुसारिज्ञानमभिधीयते, तच्च अवग्रहेहादीनन्तरेण आकस्मिकं न भवति, अवग्रहादयश्च ० मतिरेव इति तत्पूर्वता श्रुतस्य न विरुध्यते ।" विशेषा० टी० गा० १०८ । ___ पृ० ७. पं० १२. 'धारणादिरहितानाम्' - "इह तावदेकेन्द्रियाणामाहारादिसंज्ञा विद्यते तथा सूत्रे अनेकशोऽभिधानात् । संज्ञा च अभिलाष उच्यते यत उक्तम् आवश्यकटीकायाम् -आहारसंज्ञा आहाराभिलाषः क्षुद्वेदनीयप्रभवः खल्वात्मपरिणामविशेषः इति । अभिलाषश्च 'ममैवंरूपं वस्तु पुष्टिकारि तद्यदीदमवाप्यते ततः समीचीनं भवति' एवं शब्दार्थो- 23 ल्लेखानुविद्धः स्वपुष्टिनिमित्तभूतप्रतिनियतवस्तुप्राप्त्यध्यवसायः, स च श्रुतमेव तस्य शब्दार्थपर्यालोचनात्मकत्वात् । शब्दार्थपर्यालोचनात्मकत्वं च 'ममैवंरूपं वस्तु पुष्टिकारि तद्यदीदमवाप्यते' इत्येवमादीनां शब्दानामन्तर्जल्पाकाररूपाणामपि विवक्षितार्थवाचकतया प्रवर्त्तमानत्वात् । श्रुतस्य चैवलक्षणत्वात् ।......शब्दार्थपर्यालोचनं च नाम वाच्यवाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टस्य अर्थस्य प्रतिपत्तिः, केवलमेकेन्द्रियाणामव्यक्तमेव ।” नन्दी० म० . पृ० १४०।
"यद्यपि एकेन्द्रियाणां कारणवैकल्याद् द्रव्यश्रुतं नास्ति, तथापि स्वापाद्यवस्थायां साध्वादेरिवाशब्दकारणं अशब्दकार्य च श्रुतावरणक्षयोपशममात्ररूपं भावश्रुतं केवलिदृष्टममीषां, मन्तव्यम् । न हि स्वापाद्यवस्थायां साध्वादिः शब्दं न शृणोति न विकल्पयति इत्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org