________________
७४ ज्ञानबिन्दुप्रकरणस्य
[पृ० ७.पं० २०घटस्य कायेनाभिनिर्वर्तकः, अभिनिवृत्तस्य चोत्क्षेपणोद्वहनसमर्थः, यथाऽन्ये पुरुषाः, न च ये घटस्योत्क्षेपणादयः तत्कारी घटस्याभिनिर्वर्तकः । एवमत्रापि यो दहति पचति प्रकाशयति च यथा स्वगतेन लक्षणेनासाधारणः स एव यथोक्तहेतुसमन्वितः परिपूर्णोऽग्निर्न
शुक्लादय इति निगमनम् ॥ ३०५ ॥ ३०६ ॥ । सम्प्रति लोकोत्तरे संहितादीनि दर्शयति -
उत्तरिए जह दुमाई तदत्थहेऊ अविग्गहो चेव । को पुण दुमु ति वुत्तो भण्णइ पत्ताइउववेओ ॥ ३०७ ॥ तदभावे न दुमु त्ति य तदभावे वि स दुमु त्ति य पइन्ना ।
तग्गुणलद्धी हेऊ दिटुंतो होइ रहकारो ॥ ३०८ ॥ 10 सम्प्रति मतान्तरेणान्यथा व्याख्यालक्षणमाह -
सुत्तं पयं पयत्थो पयनिक्खेवो य निन्नयपसिद्धी ।
पंच विगप्पा एए दो सुत्ते तिनि अत्थम्मि ॥ ३०९ ॥ प्रथमतोऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, ततः 'पदं' पदच्छेदो विधेयः । तदनन्तरं पदार्थः कथनीयः । ततः 'पदनिक्षेपः' पदार्थनोदना । तदनन्तरं 'निर्णयप्रसिद्धिः' निर्णयवि15 धानम् । पदविग्रहः पदार्थेऽन्तर्भूतः । एवमेते पञ्च 'विकल्पाः' प्रकाराः व्याख्यायां भवन्ति । अत्र सूत्रं पदमिति द्वौ विकल्पौ सूत्रे प्रविष्टौ । 'त्रयः' पदार्थ-तदाक्षेप-निर्णयप्रसिद्ध्यात्मका अर्थ इति ॥ ३०९॥" - बृहत् । __ पृ० ७. पं० २०. 'उपदेशपदादौ' - उपदेशपद गा० ८५९-८८५ । षोडशक १.१० ।
"ऊहादिरहितमाद्यं तद्युक्तं मध्यमं भवेज्ज्ञानम् । चरमं हितकरणफलं विपर्ययो मोहतोऽन्य इति ॥ वाक्यार्थमात्रविषयं कोष्ठकगतबीजसन्निभं ज्ञानम् । श्रुतमयमिह विज्ञेयं मिथ्याभिनिवेशरहितमलम् ॥ यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुक्तिचिन्तयोपेतम् । उदक इव तैलबिन्दुर्विसर्पि चिन्तामयं तत् स्यात् ।। ऐदम्पर्यगतं यद्विध्यादौ यत्नवत्तथैवोच्चैः। एतत्तु भावनामयमशुद्धसद्रत्नदीप्तिसमम् ॥" षोडशक ११.६-९ । "मूअं केवलसुत्तं जीहा पुण होइ पायडा अत्थो।
सो पुण चउहा भणिओ हंदि पयत्थाइभेएण ॥ १५५॥ 'मूक' मूकपुरुषतुल्यं कस्यचिदर्थस्यावाचकम् , 'केवलसूत्रं व्याख्यानरहितसूत्रम् । अर्थः ७ पुनः प्रकटा जिह्वा, परावबोधहेतुत्वादिति । तद्भेदानाह । हंदीत्युपदर्शने । स पुनरर्थः पदार्थादिभेदेन चतुर्दा भणितः । तदुक्तम् -
“पयवक्कमहावकत्थमइदंपजं च एत्थ चत्तारि । सुअभावावगमम्मि हंदि पगारा विणिहिट्ठा ॥" [ उपदेशपद गा० ८५९ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org