________________
पृ० ६. पं० २०. ]
टिप्पणानि ।
६९
णस्याऽव्याप्तिदोषः, श्रुतरूपतायाश्च श्रुतानुसारिष्वेव साभिलापज्ञानविशेषेषु भावात् न श्रुतज्ञानलक्षणस्याऽतिव्याप्तिकृतो दोषः । अपरं चाङ्गाऽनङ्गप्रविष्टादिश्रुतभेदेषु मतिपूर्वमेव श्रुतमिति वक्ष्यमाणवचनात् प्रथमं शब्दाद्यवग्रहणकालेऽवग्रहादयः समुपजायन्ते, एते चाऽश्रुतानुसारित्वात् मतिज्ञानम्, यस्तु तेष्वङ्गाऽनङ्ग प्रविष्टश्रुतभेदेषु श्रुतानुसारी ज्ञानविशेष: स श्रुतज्ञानम् । ततश्चाङ्गाऽनङ्गप्रविष्टादिश्रुतभेदानां सामस्त्येन मतिज्ञानत्वाभावात्, ईहादिषु च : मतिभेदेषु श्रुतानुसारित्वाभावेन श्रुतज्ञानत्वासम्भवाद् नोभयलक्षणसङ्कीर्णतादोषोऽप्युपपद्यत इति सर्वं सुस्थम् । न चेह मतिश्रुतयोः परमाणु-करिणोरिवाऽऽत्यन्तिको भेदः समन्वेषणीयः, यतः प्रागिहैवोक्तम् - विशिष्टः कश्चिद् मतिविशेष एव श्रुतम्, पुरस्तादपि च वक्ष्यते - वल्कसदृशं मतिज्ञानं तज्जनितदवरिकारूपं श्रुतज्ञानम्, न च वल्कशुम्बयोः परमाणुकुञ्जरवदात्यन्तिको भेदः, किन्तु कारणकार्यभावकृत एव स चेहापि विद्यते, मतेः कारणत्वेन, श्रुतस्य तु कार्यत्वेनाऽभिधास्यमानत्वात् । न च कारणकार्ययोरैकान्तिको भेदः, कनककुण्डलादिषु, मृत्पिण्डकुण्डादिषु च तथाऽदर्शनात् । तस्मादवग्रहापेक्षयाऽनभिलापत्वात्, ईहाद्यपेक्षया तु साभिलापत्वात् साभिलापाऽनभिलापं मतिज्ञानम् अश्रुतानुसारि च सङ्केतकालप्रवृत्तस्य श्रुतग्रन्थसम्बन्धिनो वा शब्दस्य व्यवहारकालेऽननुसरणात् । श्रुतज्ञानं तु साभिलापमेव, श्रुतानुसार्येव च सङ्केतकालप्रवृत्तस्य श्रुतमन्थसम्बन्धिनो वा शब्दरूपस्य श्रुतस्य is व्यवहारकालेऽवश्यमनुसरणादिति स्थितम् ॥” विशेषा० टी० गा० १०० ।
पृ० ६. पं० २०. 'अत एव धारणात्वेन' - "मतिपुव्वं सुत्तं" इति वचनादागमे मतिः पूर्वं यस्य तद् मतिपूर्वं श्रुतमुक्तम्, न पुनर्मतिः श्रुतपूर्विका इति अनयोरयं विशेषः । यदि ह्येकत्वं मतिश्रुतयोर्भवेत् तदैवंभूतो नियमेन पूर्वपश्चाद्भावो घटतत्स्वरूपयोरिव न स्यात् । अस्ति चायम् । ततो भेद इति भावः । किमिति मतिपूर्वमेव श्रुतमुक्तम् इत्याह- यस्मात् " कारणात् श्रुतस्य मतिः पूर्वं प्रथममेवोत्पद्यते । कुतः ? इत्याह- 'पूरणेत्यादि' पृधातुः पालनपूरणयोरर्थयोः पठ्यते, तस्य च पिपर्ति इति पूर्वम् इति निपात्यते । ततश्च श्रुतस्य पूरणात् पालनाच्च मतिर्यस्मात् पूर्वमेव युज्यते तस्मात् मतिपूर्वमेव श्रुतमुक्तम् । पूर्वशब्दश्चायमिह कारणपर्यायो द्रष्टव्यः, कार्यात् पूर्वमेव कारणस्य भावात् "सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिः” [ न्यायबि० १.१ ] इत्यादौ तथा दर्शनाच्च । ततश्च मतिपूर्वं श्रुतमिति कोऽर्थः ? | 24 श्रुतज्ञानं कार्यं मतिस्तु तत्कारणम् ।” विशेषा० टी० गा० १०५ ।
“श्रुतज्ञानस्यैते पूरणादयोऽर्था विशिष्टाभ्यूहधारणादीनन्तरेण कर्तुं न शक्यन्ते अभ्यूहादयश्च मतिज्ञानमेव इति सर्वथा श्रुतस्य मतिरेव कारणं, श्रुतं तु कार्यम् ।” विशेषा० टी०
गा० १०६ ।
"परस्तु मतेरपि श्रुतपूर्वतापादनेना विशेषमुद्भावयन्नाह – परस्मात् शब्दं श्रुत्वा तद्विषया या मतिरुत्पद्यते सा श्रुतपूर्वा श्रुतकारणैव । तथा च सति 'न मई सुयपुन्नियत्ति' यदुक्तं प्राक् तदयुक्तं प्राप्नोति ।
अनोत्तरमाह – परस्माच्छब्दमाकर्ण्य या मतिरुत्पद्यते सा शब्दस्य द्रव्यश्रुतमात्रत्वात् द्रव्यश्श्रुतप्रभवा, न भावश्श्रुतकारणा । एतत् तु न केनापि वार्यते । किन्तु एतदेव वयं ब्रूमो
Jain Education International
10
For Private & Personal Use Only
www.jainelibrary.org