________________
ज्ञानबिन्दुप्रकरणस्य [पृ० ६. पं० १५"इन्द्रियाणि च स्पर्शनादीनि मनश्च इन्द्रिय-मनांसि तानि निमित्तं यस्य तदिन्द्रियमनोनिमित्तम् । इन्द्रिय-मनोद्वारेण यद्विज्ञानं जायत इत्यर्थः । तत् किम् ?, इत्याह - तद् भावश्रुतं श्रुतज्ञानमित्यर्थः । इन्द्रियमनोनिमित्तं च मतिज्ञानमपि भवति अतस्तब्यवच्छेदार्थमाह -
श्रुतानुसारेण इति । श्रूयत इति श्रुतम् - द्रव्यश्रुतरूपं शब्द इत्यर्थः । स च सङ्केतविषयपरो। पदेशरूपः श्रुतग्रन्थात्मकचेह गृह्यते । तदनुसारेणैव यदुत्पद्यते तत् श्रुतज्ञानम्, नान्यत् । इदमुक्तं भवति-सङ्केतकालप्रवृत्तं श्रुतग्रन्थसम्बन्धिनं वा घटादिशब्दमनुसृत्य वाच्यवाचकभावेन संयोज्य 'घदो घटः' इत्याद्यन्त ल्पाकारमन्तःशब्दोल्लेखान्वितमिन्द्रियादिनिमित्तं यज्ज्ञानमुदेति तकृतज्ञानमिति । तच्च कथं भूतम् ? इत्याह - निजकार्थोक्तिसमर्थमिति । निजकः स्वस्मिम् प्रतिभासमानो योऽसौ घटादिरर्थः तस्योक्तिः-परस्मै प्रतिपादनम् , तत्र समर्थ क्षम॥ निजकार्थोक्तिसमर्थम् । अयमिह भावार्थः । शब्दोल्लेखसहितं विज्ञानमुत्पन्नं स्वप्रतिभासमानार्थप्रतिपादकं शब्दं जनयति । तेन च परः प्रत्याय्यते इत्येवं निजकार्थोक्तिसमर्थमिदं भवति अभिलाप्यवस्तुविषयमिति यावत् । स्वरूपविशेषणं चैतत् , शब्दानुसारेणोत्पन्नज्ञानस्य निजकार्थोक्तिसामर्थ्याव्यभिचारात् । 'मई सेसंति' शेषम् - इन्द्रियमनोनिमित्तमश्रुतानुसारेण यदवग्रहाविज्ञानं तत् मतिज्ञानमित्यर्थः ।" विशेषा० टी० १०० । ॥ पृ० ६. पं० १५. 'तेन न' - "अत्राह कश्चित् - ननु यदि शब्दोल्लेखसहितं श्रुतज्ञानमिष्यते शेषं तु मतिज्ञानं तदा वक्ष्यमाणस्वरूपोऽवग्रह एव मतिज्ञानं स्यात् न पुनरीहापायादयः, तेषां शब्दोल्लेखसहितत्वात् , मतिज्ञानभेदत्वेन चैते प्रसिद्धाः, तत् कथं श्रुतज्ञानलक्षणस्य नातिव्याप्तिदोषः, कथं च न मतिज्ञानस्याव्याप्तिप्रसंगः ? । अपरं च - अङ्गानङ्गप्रविष्टादिषु "अक्खर सन्नी सम्मं साईअं खलु सपज्जवसियं च” इत्यादिषु च श्रुतभेदेषु मति20 ज्ञानभेदस्वरूपाणामवग्रहेहादीनां सद्भावात् सर्वस्यापि तस्य मतिज्ञानत्वप्रसङ्गात्, मतिज्ञानभेदानां चेहापायादीनां सामिलापत्वेन श्रुतज्ञानत्वप्राप्तेरुभयलक्षणसङ्कीर्णता दोषश्च स्यात् ।
अत्रोच्यते- यत् तावदुक्तम् – अवग्रह एव मतिज्ञानं स्यात् न त्वीहादयः, तेषां शब्दोल्लेखसहित्वात् । तदयुक्तम् । यतो यद्यपीहादयः साभिलापाः, तथापि न तेषां श्रुतरूपता,
श्रुतानुसारिण एव साभिलापज्ञानस्य श्रुतत्वात् । अथावग्रहादयः श्रुतनिश्रिता एव सिद्धान्ते 26 प्रोक्ताः, युक्तितोऽपि चेहादिषु शब्दाभिलापः सङ्केतकालाद्याकर्णितशब्दानुसरणमन्तरेण न संगच्छते अतः कथं न तेषां श्रुतानुसारित्वम् ? । तद्युक्तम् । पूर्व श्रुतपरिकर्मितमतेरेवैते समुपजायन्त इति श्रुतनिश्रिता उच्यन्ते न पुनर्व्यवहारकाले श्रुतानुसारित्वमेतेष्वस्ति । यदपि युक्तितोपि चेत्याद्युक्तम् तदपि न समीचीनम् । सङ्केतकालाद्याकर्णितशब्दपरिकर्मितबुद्धीनां व्यवहारकाले तदनुसरणमन्तरेणापि विकल्पपरंपरापूर्वकविविधवचनप्रवृत्तिदर्शनात् । न हि 30 पूर्वप्रवृत्तसङ्केताः अधीतश्रुतग्रन्थाश्च व्यवहारकाले प्रतिविकल्पन्ते एतच्छब्दवाच्यत्वेनैतत्पूर्व मयाऽवगतमित्येवंरूपं सङ्केतम्, तथाऽमुकस्मिन् ग्रन्थे एतदित्थमभिहितमित्येवं श्रुतग्रन्थं चानुसरन्तो दृश्यन्ते, अभ्यासपाटववशात् तदनुसरणमन्तरेणाऽप्यनवरतं विकल्पभाषण. प्रवृत्तेः । यत्र तु श्रुतानुसारित्वं तत्र श्रुतरूपताऽस्माभिरपि न निषिध्यते । तस्मात् श्रुतानुसारित्वाभावेन श्रुतत्वाभावादीहाऽपायधारणानां सामस्त्येन मतिज्ञानत्वात् न मतिज्ञानलक्ष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org