________________
ज्ञानबिन्दुप्रकरणस्य [पृ० २. पं० १४भगवो मत्रविदेवास्मि नात्मवित्" इति श्रुतेः । न चात्मनोऽज्ञानस्वरूपता तस्य चैतन्यमात्रखाभाव्यादतिशयश्च संभवति ज्ञानविपरिलोपो ज्ञानप्राप्तेश्च संभवस्तस्य ज्ञानकारित्वात् । न चाज्ञानकार्यत्वं कूटस्थात्मस्वाभाव्याद् , अज्ञानानपेक्षस्य चात्मनः स्वत एव स्वरूपसिद्धेर्युक्तमात्मन एवाज्ञत्वम् । किं विषयं पुनस्तदात्मनोऽज्ञानम् । आत्मविषयमिति ब्रूमः । नन्वात्मनोऽपि ज्ञानस्वरूपत्वादनन्यत्वाञ्च ज्ञानप्रकृतित्वादिभ्यश्च हेतुभ्यो नैवाज्ञानं घटते । घटत एव । कथम् । अज्ञानमात्रनिमित्तत्वात् तद्विभागस्य सात्मतेव रज्वाः । तस्मात्तदपनुत्तौ द्वैतानर्थाभावः । तदपनोदश्च वाक्यादेव तत्पदपदार्थाभिज्ञस्य ।' नैष्क० ३.१।
पृ० २. पं० २४. 'तत्रैव प्रपञ्चोत्पत्ति'-जगदुपादानत्वविषये मतद्वयं वाचस्पतिमिश्राभ्युपगतत्वेन व्यावर्ण्यमानं भिन्नभिन्नग्रन्थेषु दृश्यते - सिद्धान्तबिन्दौ जीवस्य प्रपञ्चोपा॥ दानत्वं वाचस्पतिमिश्रमतत्वेन व्यावर्णितम् । सिद्धान्तलेशे तु ईश्वरस्य प्रपञ्चोपादानत्वं वाचस्पतिमिश्रेष्ठत्वेन निरूपितम् ।
अज्ञानस्य जीवाश्रयत्वविषयं वाचस्पतिमिश्राभ्युपगमं निरस्यता ग्रन्थकारेण क्रमप्राप्तायां कोटौ वाचस्पतिमिश्रपक्षे जीवे प्रपञ्चोत्पत्तिप्रसङ्गरूपं दूषणं दत्तम् । इदं च ग्रन्थकारदत्तं
दूषणं वाचस्पतिमिश्राभ्युपगतत्वेन सिद्धान्तलेशवर्णितं प्रपञ्चस्य ईश्वरोपादानत्वपक्षमवलम्ब्यैव 15 संगच्छते । न तु सिद्धान्तबिन्दुवर्णितं प्रपश्चस्य जीवोपादानत्वपक्षमवलम्ब्य । सिद्धान्तबिन्दुवर्णितपक्षाश्रयेण हि वाचस्पतिमतावलम्बिना जीवे प्रपश्चोत्पत्तेरिष्ठत्वेनानिष्टापादनरूपस्य ग्रन्थकारदत्तप्रसङ्गस्य अशक्यावकाशत्वात् । सिद्धान्तबिन्दुसिद्धान्तलेशयोः प्रस्तुतोपयोगिनौ पाठौ इत्थम् -
"अज्ञानविषयीकृतं चैतन्यमीश्वरः । अज्ञानाश्रयीभूतं च जीव इति वाचस्पतिमिश्राः । 20 अस्मिंश्च पक्षे अज्ञाननानात्वात् जीवनानात्वम् । प्रतिजीवञ्च प्रपञ्चभेदः । जीवस्यैव स्वाज्ञानोपहिततया जगदुपादानत्वात् । प्रत्यभिज्ञा चापि सादृश्यात् । ईश्वरस्य च सप्रपञ्चजीवाविद्याधिष्ठानत्वेन कारणत्वोपचारादिति । अयमेव चावच्छेदवादः।" सिद्धान्त० २२७-२३२ ।
"वाचस्पतिमिश्रास्तु-जीवाश्रितमायाविषयीकृतं ब्रह्म स्वत एव जाड्याश्रयप्रपश्चाकारेण विवर्तमानतयोपादानमिति मायासहकारिमात्रम् न कार्यानुगतं द्वारकारणमित्याहुः।” सिद्धान्तलेश १.२६ पृ० ७७ । __ "तस्मात्सिद्धं जीवाश्रितमायाविषयीकृतं ब्रह्म प्रपञ्चाकारेण विवर्तमानतया उपादानमिति । उक्तं चारम्भणाधिकरणभाष्ये - मूलकारणमेव आन्यात् कार्यात् तेन तेन कार्याकारेण नटवत् सर्वव्यवहारास्पदत्वं प्रतिपद्यते इति । ___ आन्त्यात् कार्यादिति अन्त्यकार्यपर्यन्तमित्यर्थः । नटो हि द्रष्ट्रभिरविज्ञातनिजरूप एव ७ तत्तदभिनेयासत्यरूपतां प्रतिपद्यते, एवं जीवैरविज्ञाततत्त्वं सद् ब्रह्मासत्यवियदादिप्रपञ्चाकारतां तहारा व्यवहारविषयतां च प्रतिपद्यते इति भाष्यार्थः । अत्र नटदृष्टान्तोक्त्या वाचस्पतिमतं भाष्याभिमतं निश्चीयते । तदुक्तं कल्पतरौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org