________________
पृ० २. पं० ५.]
टिप्पणानि । चिन्मात्राश्रितत्वं विना तद्गोचरचरमवृत्त्यनिवर्त्यत्वापातात् , स्वकल्पितस्य स्वाश्रितत्वेन स्वाश्रयस्वायोगात् । नचाविद्यायामनुपपत्तिरलङ्कारः, अनुपपत्तिमानं नालङ्कारः, किन्तु सत्त्वादिप्रापकयुक्तावनुपपत्तिः, अन्यथा वादिवचसोऽनवकाशापत्तेः ।" अद्वैत० पृ० ५७७ ।
"वाचस्पतिमिब्रैस्तु जीवाश्रितैवाऽविद्या निगद्यते । ननु-जीवाश्रिताविद्या तत्प्रतिबिम्बितचैतन्यं वा तदवच्छिन्नचैतन्यं वा, तत्कल्पितभेदं वा जीवः, तथा चान्योन्याश्रय इति चेन्न, 5 किमयमन्योन्याश्रय उत्पत्तौ ज्ञप्तौ स्थितौ वा । नाद्यः, अनादित्वादुभयोः। न द्वितीयः, अज्ञानस्य चिद्भास्यत्वेऽपि चितेः स्वप्रकाशत्वेन तदभास्यत्वात् । न तृतीयः, स किं परस्पराश्रितत्वेन वा परस्परसापेक्षस्थितिकत्वेन वा स्यात् । तन्न, उभयस्याप्यसिद्धेः अज्ञानस्य चिदाश्रयत्वे चिदधीनस्थितिकत्वेपि चिति अविद्याश्रितत्वतदधीनस्थितिकत्वयोरभावात् । न चैवमन्योन्याधीनताक्षतिः । समानकालीनयोरपि अवच्छेद्यावच्छेदकभावमात्रेण तदुपपत्तेः घटतदवच्छिन्नाकाश- 10 योरिव प्रमाणप्रमेययोरिव च । तदुक्तम् -
"खेनैव कल्पिते देशे व्योम्नि यद्वत्घटादिकम् ।।
तथा जीवाश्रयाविद्यां मन्यन्ते ज्ञानकोविदाः ॥” इति । एतेन यद्युत्पत्तिज्ञप्तिमात्रप्रतिबन्धकत्वेनान्योन्यापेक्षताया अदोषत्वं तदा चैत्रमैत्रादेरन्योन्यारोहणाद्यापत्तिरिति निरस्तम् , परस्परमाश्रयाश्रयिभावस्थानङ्गीकारात् । न चेश्वरजीव- 15 योरीश्वरजीवकल्पितत्वे आत्माश्रयः जीवेशकल्पितत्वे चान्योन्याश्रयः, न च शुद्धा चित् कल्पिका तस्या अज्ञानाभावादिति वाच्यम् ; जीवाश्रिताया अविद्याया एव जीवेशकल्पकत्वेनैतद्विकल्पानवकाशात् तस्माज्जीवाश्रयत्वेऽप्यदोषः।” अद्वैत० पृ० ५८५ ।
सर्वज्ञात्ममुनिसमर्थितोऽज्ञानस्य ब्रह्माश्रयत्वपक्षः तदीयगुरुसुरेश्वराचार्यप्रणीतायां नैष्कयंसिद्धौ स्फुटं दृश्यते__"ऐकात्म्याप्रतिपत्तिर्या स्वात्मानुभवसंश्रया ।
साविद्या संसृतेर्बीजं तन्नाशो मुक्तिरात्मनः ॥" नैष्क० १.७ । "एकोऽद्वितीयः आत्मा एकात्मा तस्य भावः ऐकात्म्यं तद्विषयाऽप्रतिपत्तिरैकात्म्याप्रतिपत्तिरित्यविद्याविषयो दर्शितः, सांप्रतमाश्रयोपि स एवेत्याह-स्वात्मेति । स्वश्चासौ आत्मा चेति स्वात्मा । स्वशब्देन आरोपितात्मभावान् अहंकारादीन् व्यावर्तयति । स्वात्मा चासा- 25 वनुभवश्चेति स्वात्मानुभवः स एव आश्रयो यस्याः सा तथोक्ता ।” नैष्क० टी० १.७ . "तच्चाज्ञानं स्वात्ममात्रनिमित्तं न संभवतीति कस्यचित् कस्मिंश्चिद्विषये भवतीत्यभ्युपगन्तव्यम् । इह च पदार्थद्वयं निर्धारितम् - आत्मा अनात्मा च । तत्रानात्मनस्तावत् नाज्ञानेनाभिसंबन्धः । तस्य हि स्वरूपमेवाऽज्ञानं । न हि स्वतोऽज्ञानस्याऽज्ञानं घटते । संभवदपि अज्ञानस्वभावेऽज्ञानं कमतिशयं जनयेत् । न च तत्र ज्ञानप्राप्तिरस्ति येन तत्प्रतिषेधात्मकम- 30 ज्ञानं स्यात् । अनात्मनश्चाज्ञानप्रसूतत्वात् । न हि पूर्वसिद्धं सत् ततो लब्धात्मलाभस्य सेत्स्यत आश्रयस्याश्रयि संभवति । तदनपेक्षस्य च तस्य निस्वभावत्वात् । एतेभ्य एव हेतुभ्यो नाऽनात्मविषयमज्ञानं संभवतीति प्राह्यम् । एवं तावन्नाऽनात्मनोऽज्ञानित्वं नापि तद्विषयमज्ञानम् । पारिशेष्यादात्मन एवास्त्वज्ञानं तस्याज्ञोऽस्मीत्यनुभवदर्शनात् । “सोहं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org