________________
ज्ञानबिन्दुप्रकरणस्य
[पृ० २. पं०५इति चेन्न । यज्ञदत्तोऽयम् अन्तःकरणलयहेत्वदृष्टवान् सुषुप्तौ लीयमानान्तःकरणत्वादित्यनुमातरि देवदत्ते स्थितेनानेन ज्ञानेनानुमितिकरणभूते सुषुप्तयज्ञदत्तान्तःकरणे स्थितस्याज्ञानस्थानिवृत्तः । ज्ञातृसंबन्धिन्यन्तःकरणे स्थितस्य निवृत्तिरस्त्येवेति चेद्, न । अज्ञानस्यान्तःकरणगतत्वे मानाभावात् । विमतं करणगतं भ्रान्तिनिमित्तदोषत्वात् काचादिकवदिति चेत् 5 तर्हि चक्षुरादिषु तत्प्रसज्येत । सादित्वात् तेषामनाद्यज्ञानाश्रयत्वानुपपत्तिरिति चेत , अन्त:
करणेऽपि तुल्यम् अतो नान्तःकरणाश्रयमज्ञानं किं त्वात्माश्रयम् । तदुक्तमाक्षेपपूर्वकं विश्वरूपाचार्यैः
"नन्वविद्या स्वयं ज्योतिरात्मानं ढौकते कथम् । कूटस्थमद्वितीयं च सहस्रांशुं यथा तमः ॥ प्रसिद्धत्वादविद्यायाः साऽपह्नोतुं न शक्यते ।
अनात्मनो न सा युक्ता विना त्वात्मा तया न हि ॥" इति । तस्याश्वाविद्याया जीवब्रह्मविभागहेतुत्वं पुराणे अभिहितम् ।
"विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥" इति ।"
विव० प्र० पृ० ४८.४९ मधुसूदनसरस्वती तु अद्वैतसिद्धौ उक्तं पक्षद्वयमपि सविस्तरं समर्थयते । तद्यथा"अविद्याया आश्रयस्तु शुद्धं ब्रह्मैव । तदुक्तम् -
"आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला।
पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः॥" इति । ___ दर्पणस्य मुखमात्रसंबन्धेपि प्रतिमुखे मालिन्यवत् प्रतिबिम्बे जीवे संसारः, न बिम्बे ब्रह्मणि, उपाधेः प्रतिबिम्बपक्षपातित्वात् । ननु कथं चैतन्यमज्ञानाश्रयः तस्य प्रकाशस्वरूपत्वात् तयोश्च तमःप्रकाशवद्विरुद्धस्वभावत्वादिति चेन्न, अज्ञानविरोधि ज्ञानं हि न चैतन्यमात्रम् , किन्तु वृत्तिप्रतिबिम्बितम् तच्च नाविद्याश्रयः यच्चाविद्याश्रयः तच्च नाज्ञानविरोधि । न च तर्हि शुद्धचितोऽज्ञानविरोधित्वाभावे घटादिवदप्रकाशत्वापत्तिः वृत्त्यव25 च्छेदेन तस्या एवाज्ञानविरोधित्वात् खतस्तुणतूलादिभासकस्य सौरालोकस्य सूर्यकान्तावच्छेदेन स्वभास्यतृणतूलादिदाहकत्ववत् स्वतोऽविद्यातत्कार्यभासकस्य चैतन्यस्य वृत्त्यवच्छेदेन तदाहकत्वात् ।
ननु अहमज्ञ इति धर्मिग्राहकेण साक्षिणा अहङ्काराश्रितत्वेनाज्ञानस्य ग्रहणात् बाधः, न च स्थौल्याश्रयदेहैक्याध्यासादहं स्थूल इतिवदज्ञानाश्रयचिदैक्याध्यासात् दग्धृत्वायसोरेकाग्नि० संबन्धादयो दहतीतिवदज्ञानाहङ्कारयोरेकचिदैक्याध्यासाद्वा अहमज्ञ इति धीर्धान्तेति वाच्यम् , चितोऽज्ञानाश्रयत्वासिद्ध्या अन्योन्याश्रयादिति चेन्न, अहङ्कारस्याविद्याधीनत्वेन तदनाश्रयतया चित एवाज्ञानाश्रयत्वे सिद्धे अहमज्ञ इति प्रतीतेरैक्याध्यासनिबन्धनत्वेनाबाधकत्वात् । न च अविद्याश्रयत्वादेवाहङ्कारोऽकल्पितोऽस्तु, कल्पित एव वा तदाश्रयत्वमस्तु अविद्यायामनुपपत्तेरलकारत्वादिति वाच्यम् । अहमर्थस्य ज्ञाननिवर्त्यत्वेन दृश्यत्वेनाकल्पितत्वायोगात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org