________________
३५
देवानन्दमहाकाव्यम् ।
[तृतीयः सर्गः] द्रुमावलीरुत्कलिकासहस्रसौरभ्यलोभान्न जहुर्द्विरेफाः॥१२६ ॥ समुन्मिलत्सज्जनदुग्धसिन्धौ नितम्बिनीविद्रुमराजिभाजि । रेजुर्मरुच्चञ्चलघूपधूमाः प्रतिक्षणोत्कूलितशैवलाभाः ॥ १२७ ॥ लक्ष्मीभृतोऽम्भोधितटाधिवासान् प्राच्यानुदीच्यानथ दाक्षिणात्यान् । स्थलाचलेभ्यो वणिजोऽभ्युपेतान् स भोजयामास नियोगिराजः ॥ १२८ ॥ धनानि वर्षन् बहुधा सुधाभुग-द्रुमानसौ नीरदनीलभासः। मन्त्री विजिग्ये फलितांस्तदेते हियेव भूमिं प्रणमन्ति सद्यः ॥ १२९ ॥ निजे निवेश्यासनि सिंहसूरिं शिष्यं गुरौ वन्दनकं ददाने । लतावधूसम्प्रयुजोऽधिवेलं तस्थुर्जनाश्चित्रितभूरुहाभाः ॥ १३०॥ अथ प्रभुः स्थापितसिंहसूरीन् कांश्चित् तदैवार्पितवाचकाङ्कान् । आशास्य शिष्यानधिकश्रियस्तान् बहूकृतान् स्वानिव पश्यति स्म ॥१३१ ॥ आश्लिष्टभूमि रसितारमुच्चैर्मन्थाचलेनोन्मथितं पयोधिम् । तिरश्चकार ध्वनिधीरताभिस्तदा गुरुर्धर्मकथास्तथाख्यत् ॥ १३२ ॥ सुधासरः श्रीविबुधैर्निषेव्यं लोलद्भुजाकारबृहत्तरङ्गैः। गुरुस्वरूपं समवाप्य तापः प्रापद् विनाशं न जनस्य कस्य ? ॥ १३३ ॥ दिदृक्षया मनिवदान्यताया धावन्तमन्तर्धनिनं सुदूरात् । फेनायमानं पतिमापगाना-मवारयत् किं कृपणखभावः ॥ १३४ ॥ दाने ददानेऽर्थिनमर्थितार्थ-भरेण खिन्नं करकम्पनेन । निषेधयन्तं पथि फेनितास्य-मसावपस्मारिणमाशशङ्के ॥ १३५ ॥ पीत्वा जलानां निधिनाऽतिगाद्ध्याद लसद्गुणानां गुरुवाकसुधां ताम् । वृष्टं सुवर्ण जयमल्लराजा पार्श्वेऽभवत् स्वर्णगिरिस्तदङ्कः" ॥ १३६ ॥ पूज्यक्रमाम्भोरुहभक्तिभावाद् वृद्धिं गतेऽप्यात्मनि नैव मान्तीः । धियां निधिः प्राप्तमुदस्तदाऽऽविश्चके स्फुरद्रूप्यकभावनाभिः ॥ १३७॥
१ 'दुमान्-' द्वमाणां मेघतुल्यताख्यापनेन परोपकारित्वम् । पतयः संगृहीताः । अतीवधन्यत्वं च।
३ 'करकम्पनेन' पूर्व दत्तदाना याचका गृहं प्रति चलिताः २'लतावधू-' लतया कस्तूर्या संस्कृता वधूः लतावधूः-मध्यप- | पुनर्दानाय आहूताः 'अस्माकमतः परं धनेन अलम्' इति आशयेन दलोपः । लतावत् वधूभिः संयुक्ताः अधिवेलं मुहूर्तवेलामधिकृत्य करचालनेन निषेधं चक्रुः न पुनवाचा-धनेन मुखपूरणात् । जनानां सांकर्यात् दर्शनान्तरायो मा भूत् इति दिदृक्षया स्त्रीभिः । ४ 'लसद्गुणा-' लसद्गुणानां जलानां निधिना समुद्रेण ।
1 मा० तृ. स. श्लो. ७० तृतीयः पादः तृतीयतया । माघे 'घनावलीरुत्कलिका'-इति । वेङ्कटेश्वरमुद्रिते माघपाठे 'वनावलीरुत्कलिका-' इति।
2 मा. तृ. स. श्लो. ७. चतुर्थः पादः चतुर्थतया । 3 मा० तृ० स० श्लो० ७१ प्रथमः पादः प्रथमतया । 4 मा० तृ० स० श्लो० ७१ द्वितीयः पादः द्वितीयतया । 5 मा० तृ० स० श्लो० ७१ तृतीयः पादः तृतीयतया । । 6 मा० तृ० स० श्चो० ७१ चतुर्थः पादः चतुर्थतया ।
7 मा० त० स० श्लो० ७२ प्रथमः पादः प्रथमतया ।
8 मा० तृ० स० श्लो० ७२ द्वितीयः पादः द्वितीयतया । माघे 'लोलद्धजाकारबृहत्तरङ्गम्' इति । वेङ्कटेश्वरमुद्रिते माघपाठे 'लोलगुजाकारबृहत्तरङ्गम्' इति ।
9 मा० तृ० स० श्लो० ७२ तृतीयः पादः तृतीयतया । 10 मा० तृ० स० श्लो० ७२ चतुर्थः पादः चतुर्थतया। 11 मा• तृ० स० श्लो० ७३ प्रथमः पादः प्रथमतया । 12 मा० तृ० स० श्लो० ७३ द्वितीयः पादः द्वितीयतया।