________________
33
[तृतीयः सर्गः]
महोपाध्यायश्रीमेघविजयविरचितं चलद्गजास्यस्थलदानपानगोष्ठीषु निष्ठां दधतः पटिष्टाम् ॥ ११५ ॥ मत्तद्विपेन्द्राश्वशताङ्गवृन्दै रथ्या भुजाया वलयरिवास्याः। देशश्रियो वेषविशेषभूषां तदाऽभ्यपुष्यजयमल्लराजः ॥११६ ॥ लताभिराकीर्णसुमानि गृह्णत्युर्वीभृतो नामयति द्विधाऽस्मिन् । प्रायेण निष्कामति चक्रपाणी दिक्चक्रमाक्रान्तमभूत् क्रमेण ॥ ११७॥ 5 जातैजनाभिस्त्रिदशाङ्गनाभिर्जगत् समादातुमिवोद्यतेऽस्मिन् । प्रायेण निष्कामति चक्रपाणी भिया प्रियाः खे परिरेभिरे द्राक् ॥ ११८ ॥ धराभिसाराय रयाद्धयानां खुरक्षतैर्दीपितमन्मथैव ।। प्रायेण निष्कामति चक्रपाणी रेणुच्छलाच्छादयति स्म भानुम् ॥ ११९ ॥ सौभाग्यशोभां दधति क्षमायास्तस्मिन्नुदीतारुणचूर्णपुजैः।
____10 प्रायेण निष्कामति चक्रपाणी द्यौर्भानुचक्षुस्त्रपया न्यमीलत् ॥ १२० ॥ महान् महोऽभूत् स गुरुप्रवेशे प्रत्यालयोत्तम्भितकेतुसेतुः। गतागतैर्यत्र जनस्य तस्यां नेष्टं पुरो द्वारवतीत्वमासीत् ॥ १२१ ॥ पुरः स्फुरत्स्वर्णगिरिस्तदानीं जालंधराह्रानभृतः क्षमीन्दोः। क्षितीन्दुतन्त्रैर्युगपत्प्रवेशे नेष्टं पुरो द्वारवतीत्वमासीत् ॥ १२२ ॥ 15 पारेजलं नीरनिधेरपश्यन् दिशामधीशा जयमल्लराजः। सिद्धाङ्गनाभिन्नु गीयमानं भृशं यशः श्रीगुरुभक्तिगौरम् ॥ १२३ ॥ पारेजलं नीरनिधेरपश्यन् निजाभिषेके हरिवेश्मभूषाम् । सस्मार देवः समयं तमेव सादृश्यमाशास्य पुरः पुरोऽस्याः ॥ १२४ ॥ विभोर्निदेशान्नृपतिः स साक्षाद् मुरारिरानीलपलाशराशीन् । ___20 रसालजान् वन्दनकोत्सवैषी प्रसारयामास चतुष्पथेषु" ॥१२५ ॥
कर्पूरपूर्णैर्मृगनाभिचूर्णैः संवास्य पत्रै रचिता अपीह । १"द्विधा'-राजानः पर्वताश्च ।
४'द्वारवतीख'-द्वारं गोपुरम्-तद्वत्त्वम् , यद्वा द्वारिकार्स इष्टं न
आसीत् , काकुः अपि तु इष्टमेव-इयं द्वारिका-एवेति भावः । २ 'चक्रपाणी' चक्र कटकं पाणौ हस्ते यस्य मन्त्रित्वात् ।
५ 'द्वारवतील- एतनगरशोभया द्वारवतीलं दिदृक्षणां न चक्रपाणी वासुदेवे लुप्तोपमा । चक्र चक्रलक्षणं रेखारूपं पाणी
इष्टं प्रियम् । यस्य-एतेन भाग्यसूचा।
६ सिद्धा'-सिद्धा देव विशेषाः । ३ 'चक्रपाणी' चक्रपेषु चक्रवर्तिषु अणुर्लघुः ब्रह्मदत्तः तत्र- । 'हरिवेश्म- "स्तम्बभूर्विष्णुगेहम्" [है. अभि. कां. ४ लुप्तोपमा।
श्लो. ४५] इति स्तम्भतीर्थ-नाम ।
1 मा० स० तृ० श्लो० ६९ प्रथमः पादः प्रथमतया ।
2 मा० स० तृ. श्लो०६९ द्वितीयः पादः द्वितीयतया । माघे 'रध्याभुजायाः' इति ।
3 मा० स० तृ• श्लो० ६९ तृतीयः पादः तृतीयतया । 4 पूर्ववत् । 5 पूर्ववत् ।
6पूर्ववत् । 7 मा० तृ० स० श्लो० ६९ चतुर्थः पादः चतुर्थतया । 8 पूर्ववत् । 9 मा० तृ० स० श्लो. ७० प्रथमः पादः प्रथमतया । 10 पूर्ववत् । 11 मा• तृ० स० श्लो. ७० द्वितीयः पादः द्वितीयतया। माघे 'पलाशराशीः' इति ।