________________
10
देवानन्दमहाकाव्यम् ।
[तृतीयः सर्गः] गुरोर्निशम्यागमनं कुमारैः संवर्द्धिताः खस्वपुरे पुरेशाः' १०३ ॥ आपूर्यमाणोत्तमतूर्यनादैः स्खलत्खलीनं हरिभिर्विलोलैः।। संयोज्य सैन्यं च मुदाऽभिजग्मुः संदेशतोऽस्मादथ देशमुख्याः ॥१०४ ॥ देशान्नरेशाः प्रमदाभिवेशात् तथा रथाश्वेभभरेण चेलुः। परस्परोत्पीडितजानुभागाः नागाद् यथा तत्र तिलोऽपि भूमिम् ॥१०५ ॥ स्मरध्वजानां ध्वनिभिर्वजानां चलाञ्चलैर्जातभियां हरीणाम् । धारोद्धरत्वात् सरलाध्वगत्या दुःखेन निश्चक्रमुरश्ववाराः ॥ १०६॥ निरन्तरालेऽपि विमुच्यमाने मार्गे नृपाद्यैः पुरतश्चलद्भिः। पदं दधानो गुरुरीर्ययैव प्रतिस्थलं तीर्थमधत्त देशम् ॥ १०७ ॥ श्रद्धावतासावनुगम्यमानो दूरं पथि प्राणभृतां गणेन । ग्रामादनुग्रामविहाररीत्या सीरोहिकां प्राप मुनिप्रजापः ॥१०८॥ विवन्दिषाऽभ्युद्गतसङ्कलोकः समं निषेव्यैरभिरूपरूपैः। तेजोमहद्भिस्तमसीवं दीपैः प्रावेशि तस्यां वैशिनां वनीपैः ॥ १०९॥ तेजोऽग्रिमैास्तवभाविपौरैर्निमीयमाणेषु महेषु तत्र। कियाननेहाः सकृपैर्गणीन्द्रद्विपैरसंबाधमयाम्बभूवें ॥११०॥ शनैरनीयन्त रयात् पतन्तो देवांहिपद्मे वणिजः प्रणन्तुम् । निजैर्निशायां विविधैरुपायैः प्रबोध्य धामाधिकधर्मलुब्धाः ॥१११ ॥ क्रमादमुष्या मुनिमुख्ययाने रथाः क्षितिं हस्तिनखादखेदैः। नीता विना यत्नमपीभ्यरथ्यैस्तथैकवालाकलनादलुब्धैः ।। ११२ ॥ प्रत्युद्ययौ श्रीजयमल्लराजः स्पर्धानुधावद्वलसङ्घराजः। सयत्नसूताऽऽयतरश्मिभुग्नग्रीवाश्वभाखद्रथभूषिताध्वा" ॥ ११३ ॥ वश्याऽस्य सोमालकरेश्वचालाऽचलानुरागादिव कृष्यमाणा। समं समुद्यद्भिरनोऽनुबन्धाद् ग्रीवाग्रसंसक्तयुगैस्तुरङ्गैः ॥ ११४ ॥ बलोर्मिभिस्तत्क्षणहीयमानवनेषु नेषुभ्रंमरा निवासम् ।
15
१'-तमसीव' सीरोहीनगरस्य पर्वतवनवेष्टितत्वेन तमसः उपमा।
२'वशिनामधीशैः' इति वा पाठः
३ 'तेजोऽग्रिमै-' तेजः तेजःपालनामा मन्त्री, अग्रिमः मुख्यः येषां तैः । वास्तवः तात्त्विकः भावोऽस्ति एषाम् ।
४-'जयमल-जयमल्लनामा मन्त्री तस्य राजा अथवा तस्य अधिकतेजस्वात् स एव राजा ।
५ 'अनो'-अनस् शकटम् ।
६-'तत्क्षणहीयमान'-तस्मिन् क्षणे उत्सवे, हीयमानेषु गम्यमानेषु ।
1 मा० स० तृ० श्लो० ६६ प्रथमः पादः प्रथमतया । 'तमसेव' इति पाठः । माघटीकाकृता 'तमसि' इत्यपि पाठो निरदेशि 2 मा० स० तृ० श्लो०६६ द्वितीयः पादः द्वितीयतया।। परन्तु 'तमसा' इत्येव पाठः साधीयान् इति समर्थितम् । 3 मा० स० तृ. श्लो० ६६ तृतीयः पादः तृतीयतया ।
8 मा० स० तृ.श्लो० ६७ चतुर्थः पादः चतुर्थतया । 4 मा० स० तृ० श्लो० ६६ चतुर्थः पादः चतुर्थतया।
9 मा० स० तृ० श्लो० ६८ प्रथमः पादः प्रथमतया । 5 मा० स० तृ० श्लो० ६७ प्रथमः पादः प्रथमतया ।
10 मा० स० तृ० श्लो० ६८ द्वितीयः पादः द्वितीयतया । 6 मा० स० तृ० श्लो० ६७ द्वितीयः पादः द्वितीयतया। 11 मा० स० तृ० श्लो० ६८ तृतीयः पादः तृतीयतया । 7 मा० स० तृ० श्लो० ६७ तृतीयः पादः तृतीयतया । माघे । 12 मा० स० तृ. श्लो० ६८ चतुर्थः पादः चतुर्थतया।