________________
३१
10
[तृतीयः सर्गः]
___महोपाध्यायश्रीमेघविजयविरचितं तस्याः सितच्छत्रितदेवसूरेरेतावतैवानुमिता विभूषा । अधाद् यदस्या विजयादिसिंहः श्रियं त्रिलोकीतिलकः स एव ॥ ९२ ॥ तामीक्षमाणः सपुरं पुरस्ताद् महैस्तदा सान्द्रतमां समज्याम् । शुभे मुहूर्ते गुरुणाऽभिषिक्तोऽनूचानचन्द्रः स रुचिं चिचाय ॥ ९३ ॥ तामीक्षमाणः सपुरं पुरस्तात् पौरैर्निपीतां स्वगुरूपनीताम् । स्फीतां श्रियं सूरिरमंस्त शस्तं फलेग्रहित्वं गुरुभक्तिवल्लेः ॥९४॥ स्वयं स्वयम्भूरमणस्य पूर्व प्रापत् प्रतोलीमतुलप्रतापः। प्रभोः स्खशिष्यप्रभयाऽनुयातः स्वकान्तकीर्तेरिव वर्त्मदर्शी ॥ ९५ ॥ अभ्यर्चिता सभ्यजनैमणीभिर्द्वयी बभासे गुरुशिष्ययोः सा। वज्रप्रभोद्भासिसुरायुधश्रीर्जितो ययेन्द्रः प्रणयन्नुपेन्द्रम् ॥ ९६ ॥ श्रीसिंहसरेर्गुरुदत्तगच्छाधिपत्यधू रधुरीणमूर्तेः। आज्ञा समाज्ञा सममाविरासीद् या देवसेनेव परैरलङ्घया ॥९७ ॥ प्रजा इवाङ्गादरविन्दनाभेः सुधामुधाकारिवचःप्रपञ्चाः। श्रीसिंहसरेर्वदनान्निरीयुलॊकम्र्पूणाः सत्त्वघृणातृणान्दाः ॥९८॥ प्रजास्ततोऽथ प्रसृताः कृतेऽर्थे शम्भोर्जटाजूटतटादिवाऽऽपः। जयेतिवाचो जगतीं पुनानाः नानाव्ययैस्तोषमयैर्धनानाम् ॥ ९९ ॥ पुरेऽत्र कांश्चिद्दिवसान् व्यतीत्य प्रभोर्विहर्तुं वनमाश्रितस्य । मुखादिवाथ श्रुतयो विधातुर्नन्तुं नगर्या निरगुर्जनौघाः ॥१०॥ प्रस्थानमाकर्ण्य महीमहेशे नतेः कृते सत्वरगत्वरेऽस्य । सेना रसेनाऽऽकुलिता इवान्तःपुरान्निरीयुर्मधुजिवजिन्यः ॥१०१॥ 20 मरुस्थलं प्राप्नुमना धनाढ्यैरन्वीयमानः स नृपैस्तथागात् । संमेनिरे येन जनाः किमेताः पुरान्निरीयुमधुजि«जिन्यः" ॥ १०२॥
श्लिष्यद्भिरन्योऽन्यमुखाग्रसङ्गसरङ्गचित्रार्पणदीप्तभालैः। १ 'सपुरम्' नगर्या समम् । देहेन समम् ।
४ 'प्रसृताः' प्रजा मण्डपाद् निःसृताः ।
५ 'जये-'जय जय इति वाक् यास ताः। २-मणीभि-' पञ्चप्रकाररत्नैः-खर्ण-रूप्य-विद्रुम-मुक्का
६ 'मधुजिदू-ध्वजिन्यः' मधुजित् कृष्णः तेन चिहिताः ध्वजताम्राणि पञ्चरत्नानि ।
वती:-ध्वजे कृष्णरूपमिति । ३-लोकम्पृणाः' लोकसंतर्पकाः । 'लोकम्पृण' इति [३।२। . ७ 'मधुजिद्-ध्वजिन्यः' धर्मोद्धरणकारिखाद् वैष्णव्यः सेनाः ११३] निपातः।
किमेताः पुराद् निरीयुः।
-15
wrov
1 मा० स० तृ• श्लो० ६३ चतुर्थः पादः चतुर्थतया ।
2 मा. स.तृ.श्लो०६४ प्रथमः पादः प्रथमतया । माघे | 'स पुरम्' इति विभागः
3 पूर्ववत् 4 मा० स० तृ० श्लो०६४ द्वितीयः पादः द्वितीयतया 5 मा० स० तृ० श्लो०६४ तृतीयः पादः तृतीयतया । 6 मा० स० तृ• श्लो०६४ चतुर्थः पादः चतुर्थतया । ।
7 मा० स० तृ० श्लो० ६५ प्रथमः पादः प्रथमतया । 8 मा० स० तृ० श्लों. ६५ द्वितीयः पादः द्वितीयतया । 9 मा० स० तृ० श्लो० ६५ तृतीय पादः तृतीयतया । 10 मा० स० तृ० श्लो० ६५ चतुर्थः पादः चतुर्थतया । माघे तु 'मुरजिद्धजिन्यः'। 11 पूर्ववत्