________________
देवानन्दमहाकाव्यम् ।
[द्वितीयः सर्गः] आमुष्मिककृते सूनो ! नैहिकीं त्यज सम्पदम् । नरो हि नरकः शीलं कृतानुव्याधमुद्वमन् ॥ २० ॥ प्रदोषोऽङ्कस्थसूर्यत्यक कुक्षिस्थेन्दुनिबद्धधीः। ग्रहैर्जाहस्यते नूनमुदंशुदशनांशुभिः ॥ २१ ॥ इति प्रसूवचोवातैर्मन्दराँगः स नाचलत् । चक्रेऽवकं तपः कृत्य-क्रिया केवलमुत्तरम् ॥ २२ ॥ आमुष्मिकसुखस्यांशोऽऽप्यहिक्या नातिशय्यते । सम्पदा पूर्णयेद्धोऽग्निः त्विषा नात्येति पूषणम् ॥ २३ ॥ धर्मः पद्म इवोबुद्धः शुद्धहंसाभिनन्दनः। सेव्यो भव्यैर्जनन्यैवं प्रवाचः कृतिनां गिरः ॥ २४ ॥ धर्माद' रसादिवं स्वल्पादपि कल्याणसाधनम् । इति सूत्रस्य सदाण्यो भाष्यभूता भवन्तु में ॥ २५ ॥ श्रेयसः श्रेयसः श्रेणी गिरेरिव सरिद् भवेत् । पापादापद्भवो ज्ञातुमिति दुर्मेधसोऽप्यलम् ॥ २६ ॥ अनुपार्जितपुण्यस्य जन्मान्तर्गडुजन्मिनः। निमित्तादर्पराद्धेषोर्धानुष्कस्येव वल्गितम् ॥ २७॥ मुक्त्यङ्गनानुरागाय विहाय व्रतपश्चकम् । असमः शमिनामन्यो नास्ति मन्त्रो महीभृताम् ॥ २८॥ तत्राप्यार्य व्रतं तुर्य पावनं दुरुपावनम् । जगज्जैत्रस्मरादिभ्यः परेभ्यो भेदशङ्कया ॥ २९॥ ब्रह्मोष्णरश्मेर्वालार्चिश्चक्रवर्तिप्रवृत्तयः। तत्पूर्णतेजः स्तोतुं कैर्वाचस्पत्यं प्रतन्यते?" ॥ ३०॥ निस्तोषं योषिदाश्लेषाद् मन्थनां द्रविणक्षयम् ।
15
20
१'आमुष्मिककृते' आमुष्मिकः परभवः ।
२ 'कृतानुव्याधमुद्वमन्' कृतः अनुव्याधः संपर्को यस्य तत्विहितस्वीकारम् । अनुव्याधो वा पश्चात्तापः ।
३ 'इति प्रसू-' प्रसूः माता।
४-'मन्दरागः स नाचलत्' मन्दो रागो यस्य । पक्षे मन्दरो यः-अगः पर्वतः मेरुः ।
५ 'पूर्णयेद्धोऽग्निः' इद्धो दीप्तः ।
६ 'रसादिव' रसात् पारदात् । ७ 'कल्याणसाधनम्' कल्याणं मोक्षः खण च । ८ 'श्रेयसः' पुण्यात् । 'श्रेयसः' मङ्गलस्य । ९ 'अपराद्धेषोः' च्युतशरस्य । १. 'महीभृताम्' क्षमाभृताम् । ११ 'दुरुपावनम्' दुःखेन समीपे रक्षणीयम् । १२ 'योषिदाश्लेषात्' समुद्रास्त्रियो नद्यः तासां नित्यसंगात् ।
1 मा. द्वि० स० श्लो. २० चतुर्थपादः ।
2 मा० द्वि० स० श्लो० २१ चतुर्थपादः । माघे '-मुदग्रदशनांशुभिः' इति पाठः।
3 मा० द्वि० स० श्लो. २२ चतुर्थपादः।।
4 मा० द्वि० स० श्लो० २३ चतुर्थपादः । अत्र माघे च समानार्थ समग्रमुत्तरार्धम् ।
5 मा० द्वि० स० श्लो० २५ चतुर्थपादः ।
6 मा० द्वि. स. श्लो. २४ चतुर्थपादः । 7 मा. द्वि० स० श्लो० २६ चतुर्थपादः । 8 मा० द्वि० स० श्लो० २७ समग्रमुत्तरार्धम् । 9 मा० द्वि० स० श्लो० २८ चतुर्थपादः । 10 मा० द्वि० स० श्लो. २९ चतुर्थपादः ।
11 मा. द्वि० स० श्लो. ३० चतुर्थपादः। माघे तु 'प्रतायते' इति भिन्नम् ।