________________
[द्वितीयः सर्गः]
महोपाध्यायश्रीमेघविजयविरचितं प्रामोति पुरुषो नूनं दृष्टान्तोऽत्र महार्णवः ॥ ३१ ॥ मूलं धर्मतरोर्ब्रह्म कूलं भवपयोनिधेः।। येन लुब्धेन नालम्बि न वर्द्धयति तस्य ता ॥ ३२॥ श्यामासक्तरुचिः कामोल्लासाद् राजापि च क्षयी। सुवृत्तशीलो निर्दोषस्तत्रोदाहरणं रविः ॥ ३३ ॥ बालस्याऽबालगी सारैरेवं बुद्धा प्रसूरपि । पार्थक्येन मृदि न्यस्तमुदकं नावतिष्ठते ॥ ३४॥ उच्चैःकुलगिरी स्वस्था सिंहीव स्यामहं न किम् । यज्जन्यस्त्वं प्रशस्यश्रीः सैंहिकेयोऽसुरद्विषाम् ॥ ३५ ॥ चक्रे प्राचीव मित्रेण त्वयाऽहं पुत्र ! निस्तमा । पुत्रौ क्रोडष्णिहौ स्यातां सहजप्राकृतावपि ॥ ३६॥ प्रतीक्ष्यः पृथुकोऽपि स्यात् पुण्यधी न्यथा महान् । पुण्यनैपुण्यमय॑त्वे लक्ष्यं लक्षणमेतयोः ॥ ३७॥ धन्यस्त्वं योऽजयद् बाल्ये महामोहमहीश्वरम् । कृष्णायितः स तन्मूलं महद् वैरतरोः स्त्रियः ॥ ३८॥ धन्यस्त्वं वासुदेवोऽसि महामोहमहीश्वरम् । जित्वा त्यजन् मूलमेता महद् वैरतरोः स्त्रियः ॥ ३९ ॥
[पाठान्तरम् ] तत् प्रव्रज मया साई त्वहते मां से बाधते। प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव" ॥ ४०॥ एवं मातृगिरः शृण्वन् स्थिरसूः स्थिरमूहिवान् । धर्मे त्वरा हितं स्थैर्यमलमश्रेयसे यतः" ॥४१॥
१ 'ता' ता लक्ष्मीः । "ता सा श्रीः कमला" इति कोषः ।
२ 'श्यामासक्त-' "श्यामा स्त्री मुख्य (मुग्ध ? ) यौवना" इति अनेकार्थध्वनिमजरिः [लो. ९६ श्लोकाधि०] श्यामा रात्रिः।
३ 'सुवृत्तशीलो' वृत्तम् आचरितम् , शीलम् खभावः । 'निर्दोषः' दोषा रात्रिः। ४'-तिष्ठते' अवपूर्वस्थाधातोः आत्मनेपदम् । ५ 'उच्चैःकुल-' वंशपर्वते ।
६ -द्विषाम्' असुरद्विषाम् देवानां प्रशस्यश्रीः । ७ 'प्रतीक्ष्यः' पूज्यः । ८'पृथुकः' बालः। ९'-महीश्वरम्' नृपम् । १. 'वासुदेवो-' वासुदेवनाम यथार्थ नागवशीकरणात् तस्य, स्त्रियस्त्यक्ताः।
११ 'स' महामोहः ।
1 मा. वि. स. श्लो० ३१ चतुर्थपादः ।
2 मा० द्वि० स० श्लो० ३२ चतुर्थपादः । माघे 'ता' स्थाने ताम्' इति भिनं पदम् । माघे 'ताम्' इति द्वितीयान्तम् , अत्र तु 'ता' इति प्रथमान्तम् ।
3 मा० द्वि० स० श्लो० ३३ चतुर्थपादः । 4 मा० द्वि० स० श्लो० ३४ चतुर्थपादः ।
5 मा० द्वि० स० श्लो. ३५ चतुर्थपादः । माघे '-ऽसुरद्रुहाम्' इति भिन्नता।
6 मा० द्वि० स० श्लो. ३६ चतुर्थपादः । 7 मा० द्वि० स० श्लो. ३. चतुर्थपादः । 8 मा.द्वि. स. श्लो. ३८ चतुर्थपादः । 9 मा० द्वि० स० श्लो. ३८ चतुर्थपादः। 10 मा० द्वि० स० श्लो. ३९ तृतीय-चतुर्थपादौ अत्रापि तावेव । 11 मा० द्वि० स० श्लो० ४० चतुर्थपादः ।