________________
[द्वितीयः सर्गः]
महोपाध्यायश्रीमेघविजयविरचितं भुक्त्वा ततश्चिरं भोगं स्मेरद्दग्भिः स्मराकरम् । क्रियाः क्रिया जरन्नुचैरिज्यायै तपसः सुत! ॥९॥ श्रुत्वेत्यूचे स तद्वाचं मदनदुमसारणीम् । तात ! किं नैव दुःखाय वय॑न्तावामयः सं च'? ॥१०॥ आयुर्वायुरिवाऽस्थेयश्चिकुराः सम्पदङ्कुराः। शस्त्रीव स्त्रीभवः काममतो दुःखाकरोति माम् ॥११॥ भवन्तोऽप्यनुमन्यन्तां ग्रहीष्ये सौख्यदं व्रतम् । कः सामग्र्यामवाप्तायां सन्दिग्धे कार्यवस्तुनि ? ॥१२॥ किं पुनर्वार्तिकैर्भाष्यैः सूत्रवत् सर्वतो मुखम् । तत्त्वमेव वदन्त्याः प्रकृत्या मितभाषिणः ॥१३॥ ततोऽश्रुसेकाजाड्यार्तेनेव किश्चिद् विवक्षया।.. अकम्पि मातुरोष्ठेन बिम्बचुम्बनचञ्चना ॥ १४ ॥ वत्स ! व्रतवचः शून्यवाद्युपन्यासवन्मम । प्रतिभाति नयैतां तद् गिरमुत्तरपक्षताम् ॥ १५ ॥ भर्तुर्वियोगे भामिन्या दिक सूनुर्मातुरातुरे। करोति यः लुषाऽऽलोकपरिपूतपुटे दृशौ ॥१६॥ आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीम् । करु त्वं भरिसौरभ्यां वनमालां मुखानिलैः॥१७॥ आक्रीडेः क्रीडया स्त्रीभिरङ्गभूरङ्गभूतरोः। प्रसवानीव धेह्यङ्गसङ्गिनीः खेदविर्घषः ॥ १८॥ .. त्वद्विवाहोऽस्तु दायाद ! जन्मतद्दारकर्मभिः।
सानुबन्धां सजं द्वारे विदधचूतपल्लवीम्" ॥ १९ ॥ 'तपसः सुत ।' तपसः व्रतस्य, इज्यायै यज्ञाय, क्रियाः ६ 'आक्रीडेः क्रीडया' आकीड उद्यानम् । क्रियाः सुत हे।।
७-'रजभूरजभूतरोः' हे अजभूः। अगभूतरोः स्मरतरोः । २-'वामयः स च' स भोगः ।
८-'विपुषः' बिन्दवः। ३-'स्थेयश्चिकुराः' चिकुराः चपलाः ।
९ 'दायाद !' "दायादौ पुत्र-बान्धवौ” इति । [है. अने. ४ "बिम्बचुम्बनचक्षुना' बिम्बतुल्येन । चुम्बनं प्रीत्या, सा | सं० कां• ३ श्लो० ३२५] प्रीतिः सुहृद्भावे इति लक्षणया तुल्यत्वमित्यर्थः।
.१.-'तपल्लवीम्' आम्रपल्लवमालाम् । माथुरदेशीयभाषया __५ 'नुषाऽऽलोक-' वध्वा दर्शनेन ।
चूतपल्लवी।
__1 मा. द्वि० स० श्लो० १ चतुर्थपादः । माघे तु 'सुतः' इति मेदः।
2 मा० द्वि० स० श्लो० १० चतुर्थपादः ।
3 मा० द्वि. स.लो. ११ चतुर्थंपादः । माघे-'मदो दुःखाकरोति' इति पार्थक्यम् । -4 मा. वि. स. श्लो० १२ चतुर्थपादः । 5 मा. द्वि० स० श्लो. १३ चतुर्थपादः ।
6 मा० द्वि० स० श्लो. १४ चतुर्थपादः । माघे तु-'चुचुना' इति पाठः ।
7 मा. द्वि० स० श्लो० १५ चतुर्थपादः । 8 मा.द्वि. स. श्लो. १६ चतुर्थपादः । 9 मा० द्वि० स० श्लो. १७ चतुर्थपादः । 10 मा. द्वि० स० श्लो. १८ चतुर्थपादः ।
11 मा० द्वि० स० श्लो. १९ चतुर्थपादः । माघे तु-'चौतपछवीम्' इति भिन्नः पाठः ।।