________________
[प्रथमः सर्गः]
महोपाध्यायश्रीमेघविजयविरचितं नृपादयोऽप्युत्सवकर्म चक्रिरे सदाभिमानकधना हि मानिनः ॥७॥ क्रमेण जन्मस्य महे निवर्तिते स वासुदेवाह्वयमादधे शिशुः। विधृत्य चिच्छक्तिमसौ तमोऽवधेविलवयलङ्कां निकषा हनिष्यति ॥७१ ॥ स लाल्यमानोऽश्चितपञ्चधात्रिणा तथा क्रमेणावयवानपूपुषत् । अशिश्रियद् विश्वकलाश्रियो यथा प्रतीयते सम्प्रति सोऽप्यसः परैः ॥७२॥ 5 तदेव देवाग्रिमजन्मजन्मसत्-वपुर्विशेषश्च गिरां श्रियां च सः।। रवेः प्रभेव प्रकृतिः सुनिश्चला पुमांसमभ्येति भवान्तरेष्वपि ॥ ७३ ॥ बभूव भूवल्लभचेतसां प्रियः स्मरखरूपोऽपि स धर्मधर्मधी। सदर्थभाक् चन्द्ररुचिर्यशोभरैरसंशयं सम्प्रति तेजसा रविः ॥ ७४॥ कुमारमद्रेस्तनयेव सादरं तमङ्कमारोप्य जनन्यथोत्सुका। . निरीक्षमाणावयवान् म सद्वयो-वितीर्णवीर्यातिशयी(यान् ?) हसत्यसौ ॥७॥ प्रकाममालिङ्गय निचुम्ब्य मूर्ध्यवक् विवाहकर्म क्रियते तवाङ्गभूः। प्रमोदनीयाः सुहृदोऽनया दिशा व्यापादनीया हि सतामसाधवः ॥ ७६ ।। तनय ! नय विनोदशर्म नस्त्वं वितनु सनर्म सदोरेंसो रसाः । रुचिरुचिरचलेक्षणाकुचाग्रध्रुवपरिरम्भनिपीडनक्षमत्वम् ॥ ७७॥
खीयैस्तद्वचनाऽग्रहेऽपि सहसा वीवाहसत्याकृतेः प्रारब्धेऽतिमहोत्सवे प्रभवति श्रेयस्करे कर्मणि ।
10
15
१-'धना हि मानिनः' मानिनः ज्ञानिनः । २'क्रमेण जन्मस्य' जन्मशब्दः अकारान्तः उणादौ ।
३ वासुदेवाह्वयमादधे शिशुः' "विलक्थलङ्कां निकषा' असौ वासुदेवः चिच्छक्ति विधृत्य अवधेर्विलति निस्सीमम् , तमः पापम् राहुं वा हनिष्यति । किंभूतां चिच्छक्तिम् ! अरङ्काम् उग्राम्दीप्ताम् निकषा पार्श्वे बालखेऽपि अस्मिन् भवे । यद्वा अलम्-अत्यथैम् , काञ्चिद् अनिर्वचनीयाम् । ४ 'लाल्यमानोऽश्चित-' अश्चितम् प्रशस्तम् । ५'पञ्चधात्रिणा' पञ्चानां धात्रीणां समाहारः पञ्चधात्रि-तेन।
६ 'सम्प्रति सोऽप्यसः' यथा सम्प्रति तत्क्षणमेव दृष्ट्वा नायं स इति लोकैायते इत्यनेन रमणीयता 'असः' इति । "क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः" इति वचनात् ।
७ 'देवाग्रिमजन्म-' सुरसत्कपूर्वभवबद्धम् । ८ 'कुमारमद्रेस्तनयेव' कुमारम् स्कन्दम् । ९-'नया दिशा' दिशा रीत्या ।। १० 'सदोरसो रसाः ' सदा उरसः-वक्षसः । ११ 'रुचिरुचिरचलेक्षणाकुचाग्र-' रुचिरुचिरचलेक्षणाकुचामधुवपरिरम्भनिपीडनक्षमत्वं वितनु कुरु, उरसः वक्षसः । यद्यपि | जनन्या इदं वचो न घटते, तेन जननीपदेन धात्री ग्राह्या।
Annnnnnnnnnnnwr
1 मा०प्र० स० श्लो०६७ चतुर्थपादः ।
2 मा०प्र० स० श्लो०६८ चतुर्थपादः । माघे "विलङ्घय लङ्काम्' इति पदविभागः । अत्र तु 'विलडि अलङ्काम्-अरकाम्'अथवा 'अलम् काम्' इति पदच्छेदः । अत्र र-लयोरैक्यं ज्ञेयम् ।
3 मा० प्र० स० श्लो० ६९ चतुर्थपादः ।
4 मा० प्र० स० लो० ७२ चतुर्थपादः । अत्र माघस्य ७२ लोकगतम् 'प्रकृतिः सुनिश्चला' इति तृतीयचरणमपि ।
दे०२
5 मा० प्र० स० श्लो. ७० चतुर्थपादः ।।
6 मा० प्र० स० श्लो. ७१ चतुर्थपादः । माघे तु '-वीर्यातिशयान्' इति पाठः।
7 मा० प्र० स० श्लो० ७३ चतुर्थपादः । माघे 'विपादनीया हि' इति पाठः।
8 मा० प्र० स० श्लो०.७४ चतुर्थपादः । माघे-'कुचाग्रद्रुत| परिरम्भ-' इति पाठः ।