________________
देवानन्दमहाकाव्यम् ।
[प्रथमः सर्गः] शुचिखभावैर्जगतीं तैमोहरैरलञ्चकारास्य वैधूरहस्करः ॥ ५९॥ खबन्धुकर्णोत्पलयुग्ममन्तिके निवेश्य तस्या वदनानुजीविना । निबद्धवेणीतम॑सः प्रसादनैन नर्मसाचिव्यमकारि नेन्दुना' ॥ ६०॥ मुखश्रियाऽस्यास्तुलितं विधुं विधिर्वभञ्ज पूर्ण न पुनर्व्यचूर्णयत् । अयं ततः पुष्करदन्तिनो यथा विषाणमद्यापि पुनः प्ररोहति ॥ ६१ ॥ विलासलीलाकलनाय तस्थिवानजस्रमस्याः सविधेऽप्सरोजनः। सखीमिषात् तद्विरहोष्मणाऽऽतुराः प्रकम्पनेनानुचकम्पिरे सुराः ॥ ६२॥ तयाऽऽस्यपाणिक्रममञ्जिमाक्रमैर्जितश्रि पद्मं महिकाश्रुनिर्भरम् । व्यनक्ति भ.रसुखैर्वलत्ऋधा तनूनपाद्धमवितानमाधिजैः ॥६॥ पयोधर-श्रोणिभरश्रियाऽनया निर्भत्सितं कुम्भयुगं रयेण नः। दिगन्तमाप्तैरिति सजलजया चिराय याथार्थ्यमलम्भि दिग्गजैः ॥ ६४॥
अजिह्मकृद् ब्रह्म तदङ्गसङ्गतं पुनात्यतुच्छोच्छ्रितवालमन्वयम् । किमद्भुतं यच्छ्रवणाईवेक्षणैः कुलैन भेजे फणिनां भुजङ्गता' ।। ६५॥ प्रवेणिवादाधरीकृतः स्मयो वचःप्रपञ्चैरमृतं तयोचितम् । भुवो भरातैन तथापि भोगिभिः कुलैर्न भेजे फणिनां भुजङ्गता ॥६६॥
[पाठान्तरम् ] श्रुतिद्वयीदर्शनतः स्फुरद्रुचि द्वयं शोर्नाटयतः स्मराश्रयम् । कलत्ररत्नस्य कलाः किलाखिलाः पुरेऽस्य वास्तव्यकुटुम्बितां ययुः ॥ ६७॥ उडूनि मुक्तास्रजि चित्रके गुरुर्विधुः खगः कुण्डलयोः कृतस्थिती। सुरा भजन्तः किमु कामिनीमणेः पुरेऽस्य वास्तव्यकुटुम्बितां ययुः ॥ ६८ ॥
[पाठान्तरम् ] अथाश्रयत् कोऽपि सुरः स्फुरत्प्रभो भवाय गर्भ शुभदोहदोद्भवः। तदाश्रयेऽस्याः शुचिपाण्डुरं भृशं वपुर्जलार्द्रापवनैर्न निर्ववौ" ॥ ६९॥
असूत सा पोषवलक्षपक्षजे त्रयोदशेऽहयङ्गजरत्नमद्भुतम् । १ 'तमोहरै-' तमः पापम् तिमिरं वा।
६-'श्रोणि-नितम्बः। २'-कारास्य वधूरहस्करः' अस्य व्यवहारिणः वधूः च पुनः ७ 'नः' अस्माकम् । भहस्करः शुचिखभावैर्जगतीं अलंचकार । उभयोर्निर्दोषलध्वनिः । ८ 'यच्छ्रवणाद्भवेक्षणैः' ध्रुवनेत्रकथनं तेषां कर्णे एव नेत्रत्वात् । 'च'कारोऽध्याहार्यः।
९ 'भुजङ्गता' वक्रता। ३ 'अनुजीविना'-भृत्येन।
१. 'दृशोर्नाटयतः' दृशोर्द्वयम् आकर्णान्तविश्रान्तम् । छायार्थे ४ "निबद्धवेणीतमसः' तमो राहुः ।
यः श्रुतेः शास्त्रस्य द्वयं पश्यति तस्य रुचिः स्फुरति । ५ पयोधर'-स्तनः।
११ 'पुरेऽस्य' पुरे शरीरे ।
maranamrammarwarane
1 मा० प्र० स० श्लो० ५८ चतुर्थपादः । 2 मा० प्र० स० श्लो० ५९ चतुर्थपादः । 3 मा० प्र० स० श्लो० ६. चतुर्थपादः । 4 मा० प्र० स० श्लो०६१ चतुर्थपादः । 5 मा० प्र० स० श्लो० ६२ चतुर्थपादः । 6 मा०प्र० स० श्लो० ६४ चतुर्थपादः ।
7 मा० प्र० स० श्लो० ६३ चतुर्थपादः । 8 मा० प्र० स० श्लो० ६३ चतुर्थपादः । 9 मा० प्र० स० श्लो० ६६ चतुर्थपादः । 10 मा० प्र० स० श्लो• ६६ चतुर्थपादः । 11 मा० प्र० स० श्लो० ६५ चतुर्थपादः ।