________________
९. हरिभद्रसूरिचरितम् । ६७. प्रकरणनिकरस्य विस्तरार्थ हृदयविबाधक चिन्तयाभिचान्तः ।
अणुतरजिनवासनं स कार्पासिक इति नामकमैक्षताथ भव्यम् ।। २०७ ।। शुभशकुनवशात् स्वकीयशास्त्रप्रसरणकारणमेष तं व्यमृक्षत् । तत इह विरलं च भारतादिश्रवणसतृष्णमुवाच हृद्यविद्यः ।। २०८ ॥
तथा हिएयं लोइयकव्वं गद्धहलिंडं व' बाहिरे मटुं ।। अन्तो फोडिजंतं तुसवुसभुसमीसियं सव्वं ॥ २०९॥ अवददथ वणिग् विवेचयस्व प्रकट मिदं स ततो जगाद सूरिः । 'अनृतभरभृतेष्वहो जनानामितिहासेषु यथा-तथा प्रतीतिः (?)॥ २१० ॥ इति विशकलनाय मूढतायाः कितवकथानकपश्चकं तदुक्तम् । विषधरवति' मंत्रवत् कुमिथ्याग्रहविषविस्तरसंहृतिप्रवीणम् ॥ २११ ॥ श्रवणत इह तस्य जैनधर्मे प्रकटमतिर्बुबुधे ततो जगाद । वितरणमुख एष जैनधर्मो द्रविणमृते स विधीयते कथं नु ॥ २१२ ।। गुरुरथ समुवाच धर्मकृत्याद् द्रविणभरो भविता तव प्रभूतः । अवददथ स चेदिदं तदाऽहं सपरिजनः प्रभुगीविधायकः स्याम् ॥ २१३ ।। वदति गुरुरथ त्वमेकचित्तः शृणु बहिरद्यदिनात् तृतीयघस्रे । परविषयवणिज्यकारकौघः स्फुटमिह वस्तुनिधानमेष्यतीति ॥ २१४ ॥ तदुप तव गतस्य "वस्तुजातं तदथ समोद्धतितः समर्घमाप्यम् । गुरुतरममुतो धनं च भावि व्यवहरणात् सुकृतोदयेन भूना ॥ २१५ ॥ विहितमिह मया हि शास्त्रवृन्दं ननु भवता भुवि पुस्तकेषु लेख्यम् । तदनु यतिजनस्य ढौकनीयं प्रसरति सर्वजने यथा तदुच्चैः ॥ २१६ ॥ सुकृति"जनशिरोमणिस्ततो"sसाविति वचनं विदधे गुरोरलङ्घयम् । तदनु च तदिदं भवार्णवस्य प्रतरणहेतुतरीसमं प्रवृत्तम् ॥ २१७ ॥ अथ च चतुरशीतिमेकपीठे जिनसदनानि महालयानि तत्र । अपरजनमपि प्रबोध्य सूरिः सुमतिरचीकरदुच्चतोरणानि ॥ २१८ ॥ चिरलिखितविशीर्णवर्णभग्नप्रविवरपत्रसमूहपुस्तकस्थम् । कुशलमतिरिहोद्दधार जैनोपनिषदिकं स महानिशीथशास्त्रम् ॥ २१९ ।। श्रुतपरिचयतो निजायुरन्तं सुपरिकलय्य गुरुक्रमागतोऽसौ । गणविषयनिराश"तोत्थचेतःकदनविरागविशेषसंभृताङ्गः ॥ २२० । अनशनमनघं विधाय निर्यामकवरविस्मृतहार्दभूरिबाधः । त्रिदशवन इव स्थितः समाधौ त्रिदिवमसौ समवापदायुरन्ते ॥ २२१ ॥
1C विस्तरार्थे । 2 C विबोधक। 3 BN च । 4 N सिद्धं । 5 A अमृतभर। 9 BN विषधर इति । 7 N मंन्नवत्तु । 8 N °कारकोऽथ । 6 CB वस्त्र । 10 C वस्त्र। 11 AC सुकृत । 12.Cस्तथाऽसौ। 18 C निराशितोत्थ ।