________________
.
.
प्रभावकचरिते
15
नरकगमनदौहृदं हि जीव ! त्यज ननु' दौहृदमायतौ दुरन्तम् । निजमिह परिबोध्य जीवमित्थं प्रकटमुवाच तपोधनापतोऽसौ ॥ १९१ ।। इह 'गुरुजनवत्सलत्वबुद्धरनृणविधिः किमवाप्यते कथञ्चित् । नरकगतिसमीपगामिनं मां प्रति घटते भृशमुद्दिधीर्षया यः॥ १९२ ॥ विविध मथ विरोधमौझ्य सूरि शमभिपृच्छय च तं नृपं महेच्छः। निरगमदविलम्बितप्रयाणैः समगत शीघ्रमसौ गुरुक्रमाणाम् ॥ १९३ ॥ शिरसि च विनिधाय तान् नतास्योऽगददथ गद्गदगीभरः स तत्र । गुणविशदविनेयमोहतोऽहम् प्रभुचरणाम्बुजसेवया वियुक्तः ॥ १९४ ॥ श्रुतविहिततपः प्रदाय बाढं मम कलुषं परिशोधयध्वमाशु । अविनयसदने विनेयपाशे प्रगुणतरां मतिमातनुध्वमुच्चैः ॥ १९५ ॥ गुरुरिह परिरभ्य गाढमेनं कृतवृजिनार्हतपः प्रदाय चावक । कलुष-सुकृतयोर्विधौ समर्था ननु हरिभद्रसमाः क सन्ति शिष्याः ॥ १९६ ॥ खरतरतपसा विशोषयन्तं तनुमतनुः स विनेययोर्वियोगः । परिदहति भृशं मनस्तदीयं जलनिधिमौर्व इव प्रकाशकीलः ॥ १९७ ॥ अतिशयपरिदूनमेवमम्बा धृतिविधये सुतरामुवाच वाचम् । क इव स विरहस्तवार्दनेऽसौ गृहधननन्दनसङ्गवर्जितस्य ॥ १९८॥ जिनसमयविचित्रशास्त्रसेवानिपुण ! विशुद्धमते ! स्वकर्मपाकः । फलवितरणकृन्निजः परो वा तदिति विडम्बकमेव कोविदानाम् ॥ १९९ ।। गुरुपदवरिवस्ययाभिरामः सफलय शुद्धतपस्यया स्वजन्म । शरदि घन इव प्रलीनमेतद् भवति विकर्म यथा तनु त्वदीयम् ॥ २० ॥ अवगथ हरिभद्रसूरिरम्बे ! जडमतिमादृशशिष्यकावलम्बे ! । न किमपि मम चेतसो व्यथाकृद् विशदविधेयविनेयमृत्युमुख्यम् ।। २०१॥ दृढमिह निरपत्यता हि दुःखं गुरुकुलमप्यमलं मयि क्षतं किम् । इति गदति जगाद तत्र देवी शृणु वचनं मम सूनृतं त्वमेकम् ॥ २०२ ॥ नहि तव कुलवृद्धिपुण्यमास्ते ननु त(भ)व शास्त्रसमूहसन्ततिस्त्वम् । इति गदितवती तिरोदधे सा श्रमणपतिः स च शोकमुत्ससर्ज ॥ २०३॥ मनसि गुरुविरोधवर्द्धिगाथात्रितयमिदं गुरुभिर्गुरुप्रसादात् । प्रहितमभिसमीक्ष्य सैष पूर्व स च समरार्कचरित्रमाततान ॥ २०४॥ पुनरिह च शतोनमुनधीमान् प्रकरणसार्द्धसहस्रमेष चक्रे । जिनसमयवरोपदेशरम्यं ध्रुवमिति सन्ततिमेष तां च मेने ॥ २०५ ॥
अतिशयहृदयाभिरामशिष्यद्वयविरहोमिभरेण तप्तदेहः।
निजकृतिमिह संव्यधात् समस्तां विरह पदे न युतां सतां स मुख्यः ।। २०६ ।। 1 N जीवस्य तु मम । 2 N जनगुरु° । 3 N त्रिविध । 4 C विशोधयन्तं । 5 A ननु; C नतु । 6 A वृथा ।
30