________________
९. हरिभद्रसूरिचरितम् । जिनशिरसि पदप्रदानपापाभ्युपगमरूपनिभेऽप्यमुक्तसत्त्वौ ॥ १७५ ॥ प्रतिकृतमिह तत्कृते दधानौ झटिति 'च तेन हतौ पलायमानौ । नयपथपथिको महामुनी यत्तत्प्रतिकृतिरस्ति तस्य दुष्कृतस्य ।। १७६ ॥ तत इति समुपेक्षितो मया यद्विलयमवाप निजैनसैव तस्मात् । विदधति ननु येऽस्य पक्षमुच्चैर्ननु मम तेऽपि सदा ह्युपेक्षणीयाः ॥ १७७ ।। इति शुचमपहाय यूयमेते निजनिजभूमिषु गच्छताद्य धीराः । दुरितभरमहं हि वो हरिष्ये निजसन्तानसमेषु को हि मन्युः ॥ १७८ ॥ इति वचनमुदीर्य सा तिरोधात् निजनिजदेशगणं ययुश्च तेऽथ । अपरतरपुरेषु बौद्धवृद्धा उपशममापुरितिश्रुतप्रवृत्त्या ॥ १७९ ।। इह किल कथयन्ति केचिदित्थं गुरुतरमन्त्रजप प्रभावतोऽत्र ।।
सुगतमतबुधान् विकृष्य तप्ते ननु हरिभद्रविभुर्जुहाव तैले ।। १८० ॥ ६६. अथ जिनभटसूरिरत्र कोपाद्भुतमिह शिष्यजने निजे निशम्य ।
उपशमनविधौ प्रवृत्तिमाधादिह हरिभद्रमुनीश्वरस्य तस्य ॥ १८१ ॥ मृदुवचनविधिं च शिक्षयित्वा यतियुगलं प्रजिघाय तत्करे च। क्रुध उपशमनाय तस्य गाथात्रयमिह समरदिनेशवृत्तवीजम् ॥ १८२ ॥ प्रययतुरथ तेऽपि ( तौ हि ) तस्य राज्ञो नगरमिदं मिलितौ च तस्य सूरेः । वच इह कथयांबभूवतुस्तद् गुरुभिरमुं प्रति यन्निदिष्टमिष्टम् ॥ १८३ ॥ प्रतिघगुरुतरोर्भवान् फलोदाहरणमिमा अवधारयस्व गाथाः । इति किल वदतोस्तयोः स भक्त्या गुरुलिखिताः समवाचयत् ततस्ताः ॥ १८४ ॥
तथा हिगुणसेण-अग्गिसम्मा सीहाणंदा य तह पिआपुत्ता । सिहि जालिणि माइ-सुआ धण-धणसिरिमो य पइ-भजा ॥ १८५ ॥ जय-विजया य सहोअर धरणो लच्छी अ तह पई भजा। सेण-विसेणा पित्तिय उत्ता जम्मम्मि सत्तमए ॥ १८६॥ गुणचन्द-वाणमन्तर समराइच्च-गिरिसेण पाणो अ। एगस्स तओ मोक्खोऽणन्तो अन्नस्स संसारो ॥ १८७॥ इति चतुरमतिय॑मृक्षदेवं हृदि हरिभद्रविभुस्तदेतदीदृक् । अपि वनमुनिपारणस्य भङ्गे भवनवकेऽप्यनुवर्तते स्म वैरम् ।। १८८ ॥ पुनरिह मयका तु कोपदावानलबहलार्चिरुदस्तचेतनेन । दशवलमतसङ्गिनः प्रपञ्च विरचयता" विनिबर्हिताश्च भूम्नः" ॥ १८९ ॥ अतिविरतचिरप्ररूढमिथ्याग्रहसमयैरिव विप्रलब्धचेताः । अपि जिनमतबोधमाकलय्यासुकृतवशेन तमःप्रवेशमाधाम् ॥ १९० ॥
IN झटितिरनेन । 2 A B N प्रकृतिकृति; C प्रकृतिरस्ति। 3 B N यस्य। 4 A ते च। 5 N 'तरपरेषु । 6C बौद्धा । 7 N जय°। 8 A अपि च मुनि। 9 N मयकानुकोप। 10 A N विरच यता। 11 A C भूना; B भूनाः ।
प्र. १०