________________
प्रभावकचरिते
विबुधपतिरचिन्तयत् तथा चासौ कथमहमस्य कृते स्मरामि ताराम् । अथ च किमनया स्मृताऽपि याऽसौ जितमदरिव्रजघातिनी न सद्यः ॥ १५९ ॥ इति स च परिचिन्त्य वादसंसद्युपहरिभद्रविशारदं समेत्य । अवददिदमनित्यमेव सर्वं सदिति वचः परिसंस्कृतं यदेतत ॥ १६० ॥ इह भवति च पक्ष एव हेतुर्जलधरवन्ननु सन्ति चात्र भावाः । निगदित इति मूलपक्षजाते, वदति ततः प्रतिवाद्यनूद्य सम्यक् ॥ १६१ ॥ यदि सकलमिदं विनश्वरं तत् स्मरणविचारणचारिमा कथं स्यात् । तदिदमिह पुरावलोकितं यत् कथमियमित्यनुसंहतिर्घटेत ॥ १६२ ॥ वदति स मतिसन्ततिः स्म तुल्या भवति सदैव सनातना मते नः । बलमिदमनुसंहतेश्च तस्या व्यवहरणं च तथैव वर्त्तते नः ।। १६३ ।। अनुवदति मुदा स्म जैनविद्वानिह मतिसन्ततिरप्रणाशिनी चेत् । सदिति सुविदितैव तत् ध्रुवत्वानुमतिरिदं तव चात्मवाविरुद्धम् ।। १६४॥ न विबुधकमनीयमेतदुच्चैः स्वसमयमूढमतिर्भवान् यदिच्छुः । ननु सकलविनश्वरत्वसन्धां परिहर तच्चिरकालतो विलग्नाम् ॥ १६५ ॥ इति वचननिरुत्तरीकृतोऽसौ सुगतमतप्रभुराचचार मौनम् । जित इति विदिते 'जनैर्निपेते द्रुततरमेष सुतप्ततैलकुण्डे ।। १६६ ।। अथ कलकल उद्बभूव तेषां दशबलविद्वदरीतिमृत्युभावात् । इति भवदपमानभारभुना भयतरला अनशन्नमी निरीशाः ॥ १६७ ॥ अथ विशदविशारदस्तदीयो वदनमतिः किल तद्वदेक एकः । समगत च' तथैव पञ्चषास्ते निधनमवापुरनेन निर्जिताश्च ॥ १६८॥ दशबलमत'शासनाधिदेवी खरवचनैरुपलम्भिताऽथ सा तैः । प्रतिघवशविसर्पिदर्पभङ्गै रणकदिनेषु सुरस्मृतेहि कालः ॥ १६९ ॥ ननु शृणु कटपूतनेऽत्र यस्त्वामविरतमर्चयिता सुधी नरेन्द्रः। कुमरणविधिना मृतोऽधुना तन्ननु भवती क गतासि हन्त तारे!॥ १७ ॥ मलयजघनसारकुङ्कुमादि-प्रकृतिविलेपनधूपसारभोगैः । सुरभिकुसुमदामभिश्च सम्यग् ननु तव दृषद इव व्यधायि पूजा ॥ १७१ ॥ दृढतरपरिपूजिता भवाग् विधुरतरावसरेऽपि सन्निधानम् । यदि न वितनुते ततः स्वदेहे स किमु नहि क्रियते सुवस्तुभोगः॥ १७२ ॥ सविधतरभुवि स्थिता च तारा सुकरुणमानसवासना ह्यमीषु । अनुचितमपि जल्पतो निशम्याप्रतिघमना मृदुवागिदं जगाद ॥ १७३ ॥ अतिशयशुचि(च?)माप्य यद्वराका असदृशमप्यनुवादिनो भवन्तः । कुवचनमपि' नो मयाऽत्र गण्यं मम वच एकमिदं निशम्यतां च ॥ १७४ ॥ अतिपरतरदेशतः समेतौ परसमयाधिगमाय सङ्गतौ च ।
1 BN जिनैः। 2 N°गतवत्तथैव। 3 N °मति। 4 A अननु शृणु; B अनुशृणु; C तनुश्णु। 5 N मुधा। 6 C गतास्ति । 7 A °मधि ।