________________
९. हरिभद्रसूरिचरितम् । सुगतगुरुमथ प्रणम्य तत्रावददिति भूमिपतिः स सूरपालः। स्फुरिततनुमिवेह भारतीं त्वामिति किल विज्ञपयत्यनल्पभक्तिः ॥ १४३॥ इह मम पुरमाजगाम चैको बुध इह बुद्धमताभिजातिरूपः' । भवति च भुवनत्रयप्रसिद्धे प्रतपति किं नु स एष वादिशब्दः॥ १४४ ॥ इदमिह महते त्रपाभराय प्रभवति तत् क्रियते तथा 'यथा सः । निधनमविजयः स्वयं स यायात कुरुतेऽन्योऽपि यथा न कश्चिदित्थम् ॥ १४५ ॥ दशबलमतनायकः स सानप्रतिघवशो वदति स्म तं प्रमोदात् । इह जगति समस्तदेशनानाविबुधगणस्तमहं तिरश्चकार ॥ १४६ ॥ जिनसमयविशारदोऽपि कश्चिन्नवपठितो भविताऽत्र वावदूकः । वचनमदमहं ततो विनेष्ये गहनविकल्पसमूहकल्पनाभिः ॥ १४७॥ स्वयमिह निधने 'कृतप्रतिज्ञः स किमु भविष्यति तद्वद त्वमेव । पटुवच इति जल्पति स्म दूतः प्रभुपुरतो मम गीः प्रवर्त्तते किम् ॥ १४८॥ तव पदकमलप्रसादतो वा किमिव न मे शुभमद्भुतं भविष्यत् । मतिरिति तु मम प्रकाशते ऽसौ परमिह "सुप्रभुणा विचार्य कार्यम् ॥ १४९ ॥ लिखत' वच इदं पणे जितो यः स विशतु तप्तवरिष्ठतैलकुण्डे । इति भवतु स्ववीप्सया प्रशंसामिह विदधेऽस्य गुरुर्विचारहृष्टः ॥ १५० ॥ विपुलमतिरथ प्रगल्भदूतः पुनरपि वाचमुवाच दाय॑हेतोः । प्रभुचरणयुगं तथापि धाष्टर्यात् पुनरपि विज्ञपयामि किश्चिदत्र ॥ १५१ ।। शृणुत वसुमती रत्नगर्भा' भवति कदाचन कोऽपि तत्र विद्वान् । अतिशयितमतिर्यतो जिनानां ननु भवतामवमानना हि माऽभूत् ।। १५२ ॥ असदिह परिकल्पनं ममैतद् गगनतले कुसुमोद्गमेन तुल्यम् । जयिषु" किल भवत्सु यत्सनाथा" वयमिह तत्तु दृढं विचारणीयम् ।। १५३ ।। गुरुरवददसौ भयं किमेतद् भवति तथा भ्रम एव कश्च" फल्गुः । अपि मयि चिरसेवितेऽपि यद्वः स्फुरति परेण विजेयताभिशङ्का ।। १५४ ॥ क इव मम पुरः स कोऽपि विद्वाननधिगतस्वपरप्रमाणभूमिः । मदगदमवमोचये न चेत्तं तदहमहो न निजं वहामि नाम ॥ १५५ ॥ स्वनृपतिपुरतः प्रशाधि वाचं मम विनियंत्रितवादिपौरुषस्य । वयमिह परवादिलाभतुष्टा अनुपदमेव समागमाम ते यत् ।। १५६ ।। वचनमिति निशम्य तस्य दूतो मुदितमनाः पुरमाययौ निजं सः । इति सुविहितबौद्धविप्रलम्भानृपतिमवर्द्धयदत्र सूरपालम् ।। १५७ ।। त्रिचतुरदिवसान्तरेण सोऽपि प्रभुरिह बौद्धमतस्य तत्र चायात् । अतिपरिवृढसेव्यपादपद्मो व्यधित स पूर्वपणेन वादमुदाम् ॥ १५८ ॥
30
1A B °भियातिरूपः। 2 B किमिति; Cकिं स। 3A यथा तथा। 4 AC निधनकृत। 5A B प्रकाशतो। 6N तु प्रभु 17 A लिखित । 8 A °मतीह रत्न 19 हिरण्यगर्भा। 10 A जय । 11 A सनाथो। 12 B N कस्य ।