________________
प्रभावकचरिते
15
अतिविपुलतया शिलीमुखानां तितउरिवाजनि तस्य विग्रहश्च । अपतदथ स वंद्यरक्त उामहितनरैरभवत् ततः परासुः ॥ ९४ ॥ अवरज इह 'मोहतो ह्यमुश्चन् सविधममुष्य कृपामर्त्यवाक्यात् । त्वरिततरपदप्रचारवृत्त्याऽगमदवनीपतिसूरपालपार्श्वम् ॥ ९५ ॥ शरणमिह ययौ च तस्य धीमान् तदनुपदं रिपवः परः सहस्राः । अवनिपतिमवाप्य चैनमूचुः प्रवितर नः प्रतिपन्थिनं समेतम् ।। ९६ ॥ अवददथ स को बलेन नेता मम भुजपञ्जरवर्तिनं किलैनम् । अनयिनमपि नार्पयाम्यमुं तत् किमुत कलाकलितं नयैकनिष्ठम् ॥ ९७ ॥ सुगतमतभटास्तथाऽभ्यधुस्तं परतरदेशनरस्य हेतवे त्वम् । धनकनकसमृद्धराज्यराष्ट्रं गमयसि हास्मदधीशकोपनात् किम् ॥ ९८ ॥ अवददिह स चोत्तरं गरीयःपुरुषगणैर्मम यद्तं व्यधायि ।। मरणमथ च जीवितं हि भूयात् नहि शरणागतरक्षणं त्यजामि ।। ९९ ॥ इतरदिह दधामि चैकमेष प्रकटमतिर्विदित प्रमाणशास्त्रः । तत इममभिभूय वादरीत्योचितमिह धत्त पराजये जये वा ॥ १० ॥ अथ वचनविचक्षणः स तेषामधिपतिराह वचस्त्विदं प्रियं नः । परमिह वदनं न दृश्यमस्य क्रमयुगलं सुगतस्य मूर्ध्नि योऽदात् ॥ १०१ ॥ तदनु च यदि शक्तिरस्ति तस्यान्तरिततरः प्रतिसीरयाशु हेतून् । यदि जयति स यातु कौशलात् तन्नियतमसौ विजितस्तु वध्य एव ॥ १०२ ॥ अथ घटमुखवादिनी रहःस्था वदति तथागतशासनाधिदेवी । स्वयमिह हरिभद्रसूरिशिष्यः पुनरनयोर्न बभूव दृष्टिमेलः ॥ १०३ ।। 'व्यमृशदथ स च च्छलैकनिष्ठाः सुगतमते प्रभवन्ति सूरयोऽपि । अवितथमिह नो घटेत चैतत् त्रुटति वचो न ममापि यत्पुरस्तात् ॥ १०४ ।। अथ बहदिनवादतो विषण्णः स परमहंसकृती विषादमाधात' । विभवति गुरुसंकटे विचिंत्या निजगणशासनदेवता किलाम्बा ।। १०५ ॥ स्मृतिवशत इयं तदा 'समायाजिनमतरक्षणनित्यलब्धलक्षा। वदति च शृणु वत्स ! मुक्तिमस्मादुरितभराद् गुरुसत्त्वमूलभूमे ! ॥ १०६ ॥ सुगतमतसुरी समस्ति तारा वदति निरन्तरमत्रुटद्वचः सा । मनुज इह सुरैः समं विवादी क इव भवन्तमृते समृद्धसत्त्वम् ॥ १०७ ।। प्रतिवद च तमद्य दंभवादिब्रुवमसमानकृतप्रतिश्रवं त्वम् । अनुवदनपुरःसरं प्रजल्प्यं भवति कथं तहते हि वादमुद्रा ॥ १०८ ॥ "छलमिदमधुनैव तद्विना स्यात् प्रकटतरं "तदतो जयस्तवैव । अवददथ स मेऽत्र कोऽन्य एवं जननि ! विना भवतीं करोति सारां ॥ १०९ ॥
मा
25
30
__ 1A B मोहितो। 2 B C N खम् । 3 A नास्ति 'हि'। 4 BC विदितः। 5 B विमृशदु। 6 N स वत्सलैक। 7A मागत् ; B मादधान; C विषाद नध्यात् । 8 B विभयति । 9 N सभाया जिन। 10 N बल। 11 B N वदतो।