________________
९. हरिभद्रसूरिचरितम् । इति समुचितमुत्तरं विधायापरदिवसे विदधौ सुरीनिदेशम् । प्रतिवदितरि संश्रिते च मौनं स जवनिकांचलमूर्द्ध माततान ॥ ११० ॥ कलशमथ चकार पादपातैर्विशकलमाश्रितवैपरीत्यमेषः । अवददथ सदम्भवादमुद्राब्रुवमिह कृष्टिजनाधमा भवन्तः ॥ १११ ॥ वधकृतमतयोऽस्य ते ह्यमित्राः समभिहिता ननु तैन भूमिपेन । नयविजयमयः परा_(य॑ ? )वृत्तः किमु वधमर्हति साधुलब्धवर्णः ॥ ११२ ॥ अथ कुनयमपीममातनुध्वं यदि न सहेऽहमिदं निशम्यतां तत् । रणभुवि परिभूय मां ग्रहीता खलु य इमं स तु लात्वपातुकश्रीः ॥ ११३ ॥ तदनु नयनसंज्ञयाऽथ विद्वान् ननु समकेति पलायनाय तेन । लघु लघु स पलायनं च चक्रे क इव न नश्यति मृत्युभीविहस्तः ॥ ११४ ॥ द्रुतचरणगतेबहिः प्रगच्छन् स च निर्णेजकमेकमालुलोके ।। तुरगिषु सविधागतेष्ववादीत् तमिह व्रज त्वमिहाययौ प्रपातः ॥ ११५ ॥ स्वमतिविभवतः प्रणाशितेऽस्मिन् वसनविशोधनमादधत् तथासौ । तरलतुरगिणा च जल्पितो यन्मनुजोऽनेन पथा जगाम नैकः ॥ ११६ ॥ रजक इह स तेन दर्शितोऽस्य त्वरिततरः स च शीघ्रमेव तेन । निजभटनिवहे समार्पि धृत्वा प्रतिववले च बलं तदीयवाक्यात् ॥ ११७ ॥ निजमतिबलतस्ततः प्रकाशं विभयमनाश्चलितोऽभिचित्रकूटम् । अभिसमगत तद्दिनैः' कियद्भिर्गुरुचरणाम्बुरुह समागमोत्कः ॥ ११८ ॥ इतर इति निजेशकार्यसिद्ध्या नृपतिममुं किल सांत्वयांबभूवुः । अणुतरविषये दृढं सहायं परिहरते हि क उग्रपौरुषोऽपि ॥ ११९ ॥ अथ निजगुरुसंगमामृतेन प्लुतकरणः शिरसा प्रणम्य पादौ । दृढतरपरिरब्ध एष तैश्च प्रविगलदश्रुजलो जगाद सद्यः ॥ १२०॥ गुरुजनवचसा स्मरामि तेषां परतरदेशगतौ हि यैर्निषिद्धौ । निशमयत विभो! प्रबन्धमेनं कुविनयशिष्यजनास्यतः प्रवृत्तम् ॥ १२१ ॥ इति चरितमसौ जगाद यावन्निजगुरुबन्धुपरासुतावसानम् ।
अथ निगदत एव हृद्विभेदः" समजनि जीवहरो बली हि मोहः ॥ १२२ ॥ ६५. विमृशति हरिभद्रसूरिरीदृक् किमु मम संकटमद्भुतं प्रवृत्तम् ।
निरुपचरित"वीतरागभक्तेरुदितमिदं निरपत्यतामनस्यम्* ॥ १२३ ॥ विमलतरकुलोद्भवौ विनीतौ यमनियमोद्यमसंगतौ प्रवीणौ ।
मतविजयप्रकाशपंडापरिमलशोभितविद्वदर्चितांही ॥ १२४ ॥ अपि परतरदेशसंस्थशास्त्राधिगमरसेन गतौ च विप्रकृष्टम् । मदसुकृतवशेन जीवितान्तं ययतुरुभावपि कर्म धिक् दुरन्तम् ! ॥ १२५ ॥
1A निवेशं । 2 BN °मूर्ध्नि । 3 AC समभिहता। 4 A °पातुकः श्रीः। 50 प्रतिबचले। 6 A प्रकाश्यं । 7N'समगमदिनैः। 8 N रुहां । 9 समागमः क्वः। 10 N विभेदं । 11 N निरुपम'; A निरुपचित°। * 'आमनस्य प्रगाढं दुःखं' इति C टिप्पणी।