________________
९. हरिभद्रसूरिचरितम् । तदनु च खटिनीकृतोपवीतौ जिनपतिबिम्बहृदि प्रकाशसत्त्वौ । शिरसि च चरणौ निधाय यातौ प्रयततमैरुपलक्षितौ च बौद्धैः ।। ७८ ॥ प्रतिघवशकडारकेकरा!रतिकुशलैरवलोकितौ च तैस्तौ ।। गुरुरवददहो पुनः परीक्षामपरतरां सुगतद्विषोविधास्ये ॥ ७९ ॥ . स्थिरतरमनसस्तदाध्वमद्य प्रतिविधये हि न चादरो विधेयः । सुरशिरसि च पादपातमुख्यं न हि समधीनिधयोऽपि संविदध्यः ॥ ८॥ अथ च कृतमिहोपवीतमेतत् प्रतिकृतमत्र कृते दृढत्वचिह्नम् । दृढमतिरपरोऽपि कश्चिदीदृग् नहि विदधाति यथा विकर्मभीतः ।। ८१ ।। परनगरसमागताश्च विद्यार्थिन इह नैव मया कदर्थनीयाः। भवति च कुयशोभरस्तदत्र प्रतिकरणं कुपरीक्षितं न कार्यम् ॥ ८२ ।। इति वचनममुष्य ते निशम्य स्थितिमभजन गुरुणा जना निरुद्धाः । शयनभुवि गृहोपरिस्थितानां प्रतिदिशि यामिक एक एव चक्रे ।। ८३ ।। जिनगुरुशरणं विधाय रात्राविह शयितौ परमेष्ठिनः स्मरन्तौ । समगत च तयोरनिच्छतोरप्यसुखभरे सुलभा तदा प्रमीला ॥ ८४ ॥ प्रतततम'घटावली तदोर्डावनितलतः स विमोचयांबभूव । खडखडखडिति स्वरेण शय्यां विजहुरमी विरसं तदा रटन्तः ।। ८५ ।। निजनिजकुलदेवताभिधास्तेऽभिदधुरिहाद्भुतसम्भ्रमेण तौ च । जगृहतुरथ जैननाम तेषां नरयुगलं मतमित्यभूच शब्दः ॥ ८६ ॥ अथ निधनभयेन साहसिक्याद् वरतरमौपयिकं तु लब्धवन्तौ । अनवरतमहातपत्रवृन्दात् तत उदबध्यत तयुगं स्वदेहे ॥ ८७ ॥ तनुरुहयुगवत् ततः पृथिव्यां मुमुचतुरंगमथोर्द्धभूमितस्तौ । मृदुशयनतलादिवोत्थितौ चाप्रहततनू कुशलावु'दग्रबुद्ध्या ।। ८८ ।। लघुतरचरणप्रचारवृत्त्या द्रुतमपचक्रमतुः पुरात् तदीयात् । मतिविभववशादबुद्धयानौ छलयति' कं* न मतिर्हि सुप्रयुक्ता ॥ ८९ ॥-त्रिभिर्विशेषकम् । हत हत परिभाषिणस्तयोस्तेऽनुपदमिमे प्रययुर्भटास्तदीयाः । अतिसविधमुपागतेषु हंसोऽवदिति तत्र कनिष्ठमात्मबन्धुम् ॥ ९० ॥ ब्रज झगिति गुरोः प्रणामपूर्व प्रकथय 'मामकदुष्कृतं हि मिथ्या । अभणितकरणान्ममापराधः कुविनयतो विहितः समर्षणीयः ॥ ९१ ॥ इह निवसति सूरपालनामा शरणसमागतवत्सलः क्षितीशः । नगरमिदमिहास्य चक्षुरीक्ष्यं निकटतरं ब्रज सन्निधौ ततोऽस्य ॥ ९२ ।। इति सपदि विसर्जितोऽपि तस्थौ क्षणमेकं स तु तैः सहस्रयोधी । गततनुममतस्त्वयुद्ध्यतैतैः हठहृतधन्वशरावलीभिहसः॥ ९३ ॥
1N प्रतनुतम। 2 BC कुशलादुदन । 3 N वलयति । 4 A किं। 5A दुष्कृतमामकं । 6 N युद्ध्यते तैः ।