________________
६६
प्रभावकचरिते
पठनविधिकृते विहारमाला विपुलतराऽस्ति च तत्र' दानशाला । सुगतमुनिपतिश्च तत्र शिष्याननवरतं किल पाठयेद् यथेच्छम् ॥ ६२ ।। अतिसुखकृतभुक्तितः पठन्तौ सुविषमसौगतशास्रजातमत्र । परबुधजनदुर्गमार्थतत्त्वं कुशलतया सुखतोऽधिजग्मतुस्तौ ॥ ६३ ॥ जिनपतिमतसंस्थिताभिसंधि' प्रति विहितानि च यानि दूषणानि । निहतमतितया यतेनिरीक्षातिशयवशेन निजागमप्रमाणैः ॥ ६४ ॥ दृढमिह परिहृत्य तानि' हेतून् विशदतरान जिनतर्ककौशलेन । सुगतमत'निषेधदाययुक्तान् समलिखतामपरेषु पत्रकेषु ॥ ६५ ॥-युग्मम् । इति रहसि च यावदाददाते गुरुपवमानविलोडितं हि तावत् । अपगतममुतः परैश्च लब्धं गुरुपुरतः समनायि पत्रयुग्मम् ॥ ६६ ॥ अवलोकयतोऽस्य हेतुदाढ्यं प्रति निजतर्कमुदग्रदूषणेषु । जिनपतिमत भूषणेषु पक्षेष्वजयमभून्मनसि भ्रमो महीयान् ॥ ६७ ॥ अभणदथ स विस्मयातिरेकात् पिपठिपुरर्हदुपासकोऽस्ति कश्चित् । अपर इह मदीयदूषितं कः पुनरपि भूषयितुं समर्थबुद्धिः ॥ ६८ ॥ स्फुरति च क उपाय ईदृशस्याधिगमविधाविति चिन्तयन् स तस्थौ । क्वचिदमलधियामपि स्खलन्ति प्रतिपद ईदृशि कुत्रचिद् विधेये ॥ ६९ ॥ उदमिषदथ बुद्धिरस्य मिथ्याग्रहमकराकरपूर्णचन्द्ररोचिः। अवददथ निजान् जिनेशबिम्बं बलजपुरो निदधध्वमध्वनीह ॥ ७० ॥ तदनु शिरसि तस्य भो! निधाय क्रमणयुगं हि समागमो विधेयः । इदमिह न करिष्यति प्रमाणं मम पुरतोऽध्ययनं स मा विधत्ताम् ॥ ७१ ।। गुरुवचनमिदं तथैव बौद्धैः कृतमखिलैरपशृंखलैः खलैस्तैः। अथ मनसि महार्तिसंगतौ तौ विममृशतुः प्रकटं हि संकटं नः ॥ ७२ ॥ न विदधिव' यदिह क्रमौ सशूको प्रतिकृतिमूर्धनि लक्षितौ तदानीम् । नहि पुनरपि जीविते किलाशा विकरुणमानसपाठकादमुष्मात् ॥ ७३ ॥ बलिमिह पदयोः क्रियावहे सद्गुरुहरिभद्रमुनीश्वरस्य तस्य । अतिदुरितमनागतं विचार्थ वजनविधिं प्रतिषेधति स्म यः प्राक् ॥ ७४ ।। अविनयफलमावयोस्तदुग्रं समुदितमत्र विनिश्चितं तथैतत् । न चलति नियमेन दैवदृष्टं निजजनने सकलङ्कता मृतिर्वा ।। ७५ ॥ नरकफलमिदं न कुर्वहे श्रीजिनपतिमूर्द्धनि पादयोर्निवेशः। परिशटिततरौ वरं विभिन्नो निजचरणौ नतु जैनदेहलग्नौ ।। ७६ ॥ निधनमुपगतं यथा तथा वा तदिह च साहसमेव संप्रधार्यम् । इति दृढतर आवयोर्निबन्धः प्रतिकृतमत्र कृते विधेयमेव ।। ७७ ।।
30
A B तत्र तत्र। 2 A संधिप्रति। 3 N तान् हि। 4 Cमति'; N गत। 5A °पतिमथ । 6CN इदमपि । 7N विदधे च । 8A देवदिष्टं ।