________________
६४
प्रभावकचरिते .
15
दिवसगणमनर्थकं स पूर्व स्वकमभिमानकदर्थ्यमानमूर्तिः । अमनुत स ततश्च मण्डपस्थं जिनभटसूरिमुनीश्वरं ददर्श ॥ ३०॥ हरिमिव विबुधेशवृन्दवन्द्यं शमनिधिसाधुविधीयमानसेवम् । तमिह गुरुमुदीक्ष्य तोषपोषात् समजनि जनितकुवासनावसानः ॥ ३१ ॥ हृतहृदय इव क्षणं स तस्थौ तदनु गुरुय॑मृशत्' स एव विप्रः । य इह तु' विदितः स्वशास्त्रमन्त्रप्रकटमतिर्नुपपूजितो यशस्वी ॥ ३२॥ मदकलगजरुद्धराजवर्मभ्रमवशतो जिनमन्दिरान्तरस्थम् । जिनपतिमपि वीक्ष्य सोपहासं वचनमुवाच मदावगीतचित्तः॥३३॥-युग्मम् । *इह पुनरधुना ययावकस्माज्जिनपतिबिम्बमथादरात् स वीक्ष्य । अतिशयितरचित्तरङ्गसङ्गी स्तवनमुवाच पुराणमन्यथैव ॥ ३४॥ भवतु ननु विलोक्यमेतदने तदनु जगाद मुनीश्वरो द्विजेशम् । निरुपमधिषणानिधे! शुभं ते?, कथय किमागमने निमित्तमत्र ॥ ३५॥ न्यगददथ पुरोहितो विनीतं किमनुपमप्रतिभोऽहमस्मि पूज्याः । जिनमतजरतीवचो मयैकं श्रुतमपि नो विवरीतुमत्र शक्यम् ।। ३६ ॥ अपरसमयवित्तशास्त्रराशिं व्यमृशमहं तु न चक्रिकेशवानाम् । क्रमममुमुदितं तया प्रबुध्ये तदिह निवेदयत प्रसद्य मेऽर्थम् ॥ ३७ ॥ अथ गुरुरपि जल्पति स्म साधो! जिनसमयस्य विचारणव्यवस्थाम् । शृणु सुकृतमते प्रगृह्य दीक्षां तद्नुगता च विधीयते तपस्या ॥ ३८ ॥ विहितविनयकर्मणा च लभ्यो मिलदचलातलमौलिनानुयोगः । इति तदवगमोऽन्यथा तु न स्याद् यदुचितमाचर मा त्वरां विधास्त्वम् ॥ ३९॥ अथ स किल समस्तसङ्गहानि सकलपरिग्रहसाक्षिकं विधाय । गुरुपुरत उपाददे चरित्रं परिहृतमन्दिरवेष इष्टलोचः ॥ ४० ॥ गुरुरवददथागमप्रवीणा 'यमि-यतिनीजनमौलिशेखरश्रीः। मम गुरुभगिनी महत्तरेयं जयति च विश्रुतजाकिनीति नाम्नी ॥ ४१॥ अभणदथ पुरोहितोऽनयाहं भवभवशास्त्रविशारदोऽपि मूर्खः । अतिसुकृतवशेन धर्ममात्रा निजकुलदेवतयेव बोधितोऽस्मि ॥ ४२ ॥ अयमवगतसाधुधर्मसारः सकलमहाव्रतधूधुरंधरश्रीः । गुरुमगददथ प्रवर्तमानागमगणसारविचारपारदृश्वा ॥ ४३ ॥ अधिकरणिकशास्त्रसुप्रसन्नानुगतिविलोल इयद्दिनानि जज्ञे । त्वदपरिचयमूर्छितो मुनीश ! प्रचिकटिषुर्निजमासुतीबलत्वम् ॥ ४४ ॥ धृतधृतिरधुना* शुभानुभावात् श्रुतभरसागरमध्यलीनचित्तः । अनधिगतविमुक्तपद्मवासाप्रियविरहप्रभृतिव्यथस्त्वभूवम् ॥ १५॥
1 A विमृशत् । 2 N नु; C नास्ति । * नास्त्येतत् पद्यं .C आदर्श । 3 A यम। 4 A रमुना ।