________________
९. हरिभद्रसूरिचरितम् । बलजवलयदर्शनोर्ध्वदृष्टिः कथमपि तीर्थपतिं ददर्श सोऽथ । अवददविदितोत्तमार्थतत्त्वो भुवनगुरावपि सोपहासवाक्यम् ॥ १६॥
तथाहिवपुरेव 'तवाचष्टे 'स्पष्टमिष्टान्नभोजनम् ।
न हि कोटरसंस्थेऽनौ तरुर्भवति शाबलः ॥१७॥ गजमिह पररध्यया प्रबुध्य व्यवहितमत्र बटुव्रजैर्धमद्भिः। निजमथ निलयं ययौ पुरोधास्तृणमिव सर्वमपीह मन्यमानः ॥ १८ ॥ परतरदिवसे च* राजसौधादवसितमंत्रविधेयकार्यजातः । प्रति निजनिलयं प्रयानिशीथे स्वरमशृणोन्मधुरं स्त्रियो जरत्याः॥ १९ ॥ प्रकटतरमतिः स्थिरप्रतिज्ञो ध्वनिरहितावसरेऽवधारयन् सः । व्यमृशदथ नचाधिगच्छति स्म श्रुतविषमार्थकदर्थितः स गाथाम् ॥ २०॥
___ सा चेयम्चक्किदुगं हरिपणगं पणगं चक्कीण केसवो चक्की। केसव चक्की केसव दुचक्की केसी य चक्की य ॥ २१॥ अवददिति यदम्ब ! चाकचिक्यं बहुतरमत्र विधापितं भवत्या । इह समुचितमुत्तरं ददौ सा शृणु ननु पुत्रक ! गोमयार्द्रलिप्तम् ।। २२॥ इति विहितसदुत्तरेण सम्यक् स च वदति स्म चमत्कृतिं दधानः । निजपठितविचारणं विधेहि त्वमिह सवित्रि! न वेद्यहं त्वदर्थम् ॥ २३ ॥ अवदथ च सा यथा गुरोर्नोऽनुमतिरधीतिविधौ जिनागमानाम् । न विवृतिकरणे विचारमिच्छुर्यदि हि तदा प्रभुसंनिधौ प्रयाहि ॥ २४ ॥ वचनमिति निशम्य सोऽपि दध्यौ परिहृतदर्पभरः पुरोहितेशः । अपि गुरुपुरुषैर्दुरापमध्ये परिकलना न समस्ति वाड्मयेऽस्मिन् ॥ २५ ॥ जिनमतगृहिगेहचन्द्रशालां यदियमुपैति ततो हि जैनसाध्वी । जिनपतिमुनयो गुरुत्वमस्या विदधति तन्मम तेऽपि वन्दनीयाः॥ २६॥ सकलपरिहृतिर्ममागतेयं दुरतिगमा वचनस्य यत् प्रतिष्ठा ।
व्यमृशदथ स गेहमागतः स्खं तदनु विनिद्रतया निशां च निन्ये ॥ २७ ॥ ६३. अथ दिवसमुखे तदेकचित्तोऽगमदिह वेश्मनि तीर्थनायकस्य । हृदयवसतिवीतरागबिम्बं बहिरपि वीक्ष्य मुदा स्तुतिं प्रतेने ॥ २८ ॥
तथाहिवपुरेव तवाचष्टे भगवन् ! वीतरागताम् ।
न हि कोटरसंस्थेऽग्नौ तरुर्भवति शाबलः ॥ २९॥ __ 1A तथाचष्टे। 2 N स्पष्टं । 3 A B बहुव्र' N पटुव्र;। 4 N ऽथ । 5 A विचारणां। 6 A वेद्यह; C वेग्रिहं । 7 C तमर्थ; N खदर्थ । 8 A नास्ति 'न'। 9 N °संस्थितामौ ।