________________
६२
प्रभावकचरिते ९. श्रीहरिभद्रसूरिचरितम्।
-on
६१. स जयति हरिभद्रसूरिरुद्यन्मतिमदतारकभेदबद्धलक्षः ।
शरभव इव शक्तिधिकृतारिर्गुरुबहुलोदयदङ्गसङ्गतश्रीः ॥ १॥ कुसुमविशिखमोहशत्रुपाथोनिधिनिधनाश्रयविश्रुतः प्रकामम् । स्थिरपरिचयगाढरूढमिथ्याग्रहजलबालकशैलवृद्धिविघ्नः' ॥ २ ॥ जिनभटमुनिराजराजराजत्कलशभवो हरिभद्रसूरिरुच्चैः'। वरचरितमुदीरयेऽस्य बाल्यादविगणयन्मतितानवं स्वकीयम् ॥ ३॥-युग्मम् । इह निखिलकुहूकृतोपकारादहिमरुचिः शशिना निमश्रितो नु । रुचिरतररुचिप्रकाशिताशः प्रभवति यत्र निशासु रत्नराशिः॥४॥ जगदुपकृतिकारिणोर्बहिष्कृद्रवि-शशिनोः शिथिलः समैक्षि मेरुः । शिरसि वसतिदस्तु शिश्रिये यस्त्रिदिविभिरस्ति स चित्रकूटशैलः॥ ५ ॥ बहुतरपुरुषोत्तमेशलीलाभवनमलं गुरुसात्विकाश्रयोऽतः । त्रिदिवमपि तृणाय मन्यते यनगरवरं तदिहास्ति चित्रकूटम् ॥ ६ ॥ हरिरपरवपुर्विधाय यं स्वं क्षितितलरक्षणदक्षमक्षताख्यम् । असुरपरिवृढव्रजं विभिन्ते' स नृपतिरत्र बभौ जितारिनामा ॥ ७॥ चतुरधिकदशप्रकारविद्यास्थितिपठनोन्नतिरग्निहोत्रशाली। अतितरलमतिः पुरोहितोऽभूनृपविदितो हरिभद्रनामवित्तः ॥ ८॥ परिभवनमतिर्महावलेपात् क्षितिसलिलाम्बरवासिनां बुधानाम् । अवदारणजालकाधिरोहण्यपि स दधौ त्रितयं जयाभिलाषी ॥९॥ स्फुटति जठरमत्र शास्त्रपूरादिति स धावुदरे सुवर्णपट्टम् । मम सममतिरस्ति नैव जम्बूक्षितिवलये वहते लतां च जम्ब्वाः ॥१०॥ अथ यदुदितमत्र नावगच्छाम्यहमिह तस्य विनेयतामुपैमि ।
इति कृतकृतिदुस्तरप्रतिज्ञः कलिसकलज्ञतया स मन्यते स्वम् ॥ ११ ॥-त्रिभिर्विशेषकम् । ६२. अथ पथि स चरन्' सुखासनस्थो बहुतरपाठकवर्णिवर्णकीर्णः ।
अलिकुलकलितं कपोलपाल्यां मदजलकर्दमदुर्गमीकृतक्ष्माम् ॥ १२ ॥ विपणिगृहसमूहभङ्गमीतभ्रमदतिशोकविहस्तलोकदृश्यम् । कुमरणभयभीतमंझुनश्यद्विपदचतुष्पदहीनमार्गहेतुम् ॥ १३ ॥ विधुरविरुतिसन्निपातपूरैरतिपरिखेदितगेहिवासमय॑म् । गजपरिवृढमै'क्षतोत्तमाङ्गत्वरितविधूननधूतसादिवृन्दम् ॥ १४ ॥-त्रिभिर्विशेषकम् । प्लवग इव यथा तरूचशृङ्गात् कुसुमगणं प्रविचित्य तिग्मभानुम् । प्रतिविसृजति चञ्चलस्वभावाज्जिनगृहमेष तथा द्विजोऽध्यरोहत् ॥ १५ ॥
30
1A वृद्धिघ्नः। 20 सूरिसत्त्वैः। 3 N विभिन्ने। 4 A नागवित्तः; N नामचित्तः। 5 B संचरन् N संचरनरसुखा। 6 N पर्णिकीर्ण । 7 B परिदृढ; A परिवृढमोक्ष°। 8 A °सारिवृंद'; B सातिवृंदं ।