________________
८. वृद्धवादिसूरिचरितम् । अमी पानकरंकाभाः सप्तापि जलराशयः। यद्यशोराजहंसस्य पञ्जरं भुवनत्रयम् ॥ १२६ ॥ सर्वदा सर्वदोऽसीति मिथ्या संस्तूयसे बुधैः। नारयो लेभिरे पृष्ठं न वक्षः परयोषितः॥ १२७ ॥ भयमेकमनेकेभ्यः शत्रुभ्यो विधिवत्सदा ।
ददासि तच ते नास्ति राजन् चित्रमिदं महत् ॥ १२८ ॥ इति श्लोकैर्गुरुश्लोकः स्तुतो राजा तमब्रवीत् । यत्र त्वं सा सभा धन्याऽवस्थेयं तन्ममान्तिके ॥ १२९ ॥ इति राज्ञा ससन्मानमुक्तोऽभ्यणे स्थितो यदा । तेन साकं ययौ दक्षः स कुडंगेश्वरे कृती ॥ १३०॥ व्यावृत्य द्वारतस्तस्य पश्चादागच्छतः सतः । प्रश्नः कृतोऽन्यदा राज्ञा देवे ऽवज्ञां करोषि किम् ॥ १३१ ॥ नतिं किं न विधत्से च सोऽवादीद् भूपते ! शृणु । महापुण्यस्य पुंसस्ते पुर एवोच्यते मया ॥ १३२ ॥ 10 जल्पितात् प्राकृतैः सार्द्ध कः शोषयति थत्कृतम । असहिष्णः प्रणाम मेऽसको कर्वे ततः कथम ॥१331 ये मत्प्रणामसोढारस्ते देवा अपरे ननु । किं भावि ?, प्रणम त्वं द्राक्, प्राह राजेति कौतुकी ॥ १३४॥ देवान्निजप्रणम्यांश्च दर्शय त्वं वदन्निति । भूपतिर्जल्पितस्तेनोत्पाते दोषो न मे नृप ! ॥ १३५॥ राजाह देशान्तरिणो भवन्त्यद्भुतवादिनः । देवाः किं धातुभृदेहिप्रणामेऽप्यक्षमा 'ऋषे ! ॥ १३६ ॥ श्रुत्वेति पुनरासीनः शिवलिङ्गस्य स प्रभुः । उदाजढे स्तुतिश्लोकान् तारस्वरकरस्तदा ॥ १३७ ॥ 15
तथाहिप्रकाशितं त्वयैकेन यथा सम्यग्जगत्रयम् । समस्तैरपि नो नाथ वरतीर्थाधिपैस्तथा ॥ १३८॥ विद्योतयति वा लोकं यथैकोऽपि निशाकरः। समुद्गतः समग्रोऽपि तथा किं तारकागणः ॥ १३९॥ त्वद्वाक्यतोऽपि केषांचिदबोध इति मेऽद्भुतम् । भानोमरीचयः कस्य नाम नालोकहेतवः॥१४०॥ नो वाद्भुतमुलूकस्य प्रकृत्या क्लिष्टचेतसः। स्वच्छा अपि तमस्त्वेन भासन्ते भाखतः कराः ॥१४१ ॥-इत्यादि ।
तथान्यायावतारसूत्रं च श्रीवीरस्तुतिमप्यथ । द्वात्रिंशच्छोकमानाश्च त्रिंशदन्याः स्तुतीरपि ॥ १४२ ॥ ततश्चतुश्चत्वारिंशद्वृत्तां स्तुतिमसौ जगौ । 'कल्याणमन्दिरे'त्यादिविख्यातां जिनशासने ॥ १४३ ॥ अस्य चैकादशं वृत्तं पठतोऽस्य समाययौ । धरणेंद्रो दृढा भक्तिर्न साध्यं तादृशां किमु ॥ १४४ ॥ शिवलिंगात् ततो धूमस्तत्प्रभावेण निर्ययौ । यथान्धतमसस्तोमैर्मध्याह्नेऽपि निशाऽभवत् ॥ १४५ ॥ यथा विह्वलितो लोको नष्टुमिच्छन् दिशो नहि । अज्ञासीदाश्मनस्तम्भभित्तिष्वास्फालितो भृशम् ॥१४६॥ 30 ततस्तत्कृपयेवास्माद् ज्वालामाला विनिर्ययौ । मध्येसमुद्रमावर्त्तावृत्तिसंवतकोपमा ॥ १४७ ॥ ततश्च कौस्तुभस्येव पुरुषोत्तमहृत्स्थितेः । प्रभोः श्रीपार्श्वनाथस्य प्रतिमा प्रकटाऽभवत् ॥ १४८॥
1N तमस्तवीत् । 2 N देवावा । 3 A अमी।