________________
5
५८
10
15
20
25
प्रभावकचरिते
प्राह चान्तरविद्वेषिजितेन मयका भृशम् | आशातिताः' प्रभोः पादाः क्षम्यतां तन्महाशयैः ॥ ९८ ॥ श्रुत्वेति गुरुराह स्म क्षूणं वत्स ! न ते क्षणम् । प्राणिनां दुष्षमाकालः शत्रुः सद्गतिनाशनः ॥ ९९ ॥ कणेहत्य मया जैनसिद्धान्तात्तर्पितो भवान् । तवापि यन्न जीर्येत मन्दाग्नेः स्निग्धभोज्यवत् ॥ १०० ॥ अन्येषां 'जडतावातपीनेसाश्लेष्मवदुहृदाम् । का कथात्यल्पसत्त्वानिभृतां विद्यान्नजारणे ॥ १०१ ॥ सन्तोषौषधसंवृद्धसद्ध्यानान्तरवह्निना । श्रुतं स्वाद्यं हि जीर्यस्व मद्दत्तमशनायितः ॥ १०२ ॥ स्तम्भाप्तपुस्तकं पत्रं जह्रे' शासनदेवता । सांप्रतं सांप्रतीनाः किं तादृक्शक्तित्रजोचिताः ' ॥ १०३ ॥ इत्याकर्ण्य गुरोर्वाचं' वाचंयमशिरोमणिः । प्राह चेद् दुःकृतं नैव कुर्युः शिष्या भ्रमोदयात् ॥ १०४ ॥ तत्प्रायश्चित्तशास्त्राणि चरितार्थानि नाथ ! किम् । भवेयुरविनीतं मां प्रायश्चित्तैः प्रशोध्यत ॥ १०५ ॥ वृद्धवादी विमृश्यादादस्य चालोचनातपः । स्वस्थाने न्यस्य च प्रायं स्वयं लात्वा दिवं ययौ ॥ १०६ ॥ मुनीन्द्रः सिद्धसेनोऽपि शासनस्य प्रभावनाम् । विदधद् वसुधाधीशस्तो व्यहरतावनौ ॥ १०७ ॥ ९६. अन्यदा लोकवाक्येन जातिप्रत्ययतस्तथा । आबाल्यात् संस्कृताभ्यासी कर्मदोषात् प्रबोधितः ॥ १०८ ॥ सिद्धान्तं संस्कृतं कर्तुमिच्छन् संघं व्यजिज्ञपत् । प्राकृते केवलज्ञानिभाषितेऽपि निरादरः ॥ १०९ ॥ तत्प्रभाव गरीयस्त्वानभिज्ञस्तत्र मोहितः । संघप्रधानैरूचे च चेतः कालुष्यकर्कशैः ॥ ११० ॥ युगप्रधानसूरीणामलंकरणधारिणाम् । अद्यश्वीनयतित्रात शिरोरत्नप्रभाभृताम् ॥ १११ ॥ पूज्यानामपि चेच्चित्तवृत्तावज्ञानशात्रवः । अवस्कन्दं ददात्यद्य का कथाऽस्मादृशां ततः ॥ यदिति” श्रुतमस्माभिः पूर्वेषां सम्प्रदायतः । चतुर्दशापि पूर्वाणि संस्कृतानि पुराऽभवन् ॥ प्रज्ञातिशयसाध्यानि तान्युच्छिन्नानि कालतः । अधुनैकादशांग्यस्ति सुधर्मस्वामिभाषिता ॥ ११४ ॥ बाल-स्त्री-मूढ-मूर्खादिजनानुग्रहणाय सः । प्राकृतां तामिहाकार्षीदनास्थाऽत्र कथं हि वः ॥ ११५ ॥ पूज्यैर्वचनदोषेण भूरि कल्मषमर्जितम् । श्रुतेन स्थविरा अत्र" प्रायश्चित्तं प्रजानते " ॥ ११६ ॥ तैरूचे द्वादशाब्दानि गच्छत्यागं विधाय यः । निगूढजैन लिङ्गः सन् तप्यते दुस्तपं तपः ॥ ११७ ॥ इति पारांचिकाभिख्यात् प्रायश्चित्तान्महांहसः । अस्य शुद्धिर्जिनाज्ञाया अन्यथा स्यात् तिरस्कृतिः ॥ ११८ ॥ जैनप्रभावनां कांचिदद्भुतां विदधाति चेत् । तदुक्तावधिमध्येऽपि लभते स्वं पदं भवान् ॥ ११९ ॥ ततः श्रीसंघमापृच्छय स सात्त्विकशिरोमणिः । स्वव्रतं बिभ्रव्यक्तं सिद्धसेनो गणं व्यहात् ॥ १२० ॥ इत्थं च भ्राम्यतस्तस्य बभूवुः सप्त वत्सराः । अन्येद्युर्विहरन्नुज्जय ( यि )न्यां पुरि समागमत् ॥ १२१ ॥ स भूपमन्दिरद्वारि गत्वा *क्षत्तारमभ्यधात् । स्वं विज्ञापय राजानं मद्वाचा विश्वविश्रुतम् ॥ १२२ ॥ तथा हिदिक्षुर्भिक्षुरायातो द्वारि तिष्ठति वारितः ।
हस्तन्यस्तचतुः श्लोकः किमागच्छतु गच्छतु ॥ १२३ ॥
ततो राज्ञा समाहूतो गुणवत्पक्षपाततः । स्वामिनाऽनुमते पीठे विनीविश्यात्रवीदिति ॥ १२४ ॥
30
तद्यथा
अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः ।
मार्गणैौघः समभ्येति गुणो याति दिगन्तरम् ॥ १२५ ॥
११२ ॥
११३ ॥
1 N आशासिताः । 2 N क्षणं । 3 N जडताघात । 4 N ° जीरणे । 5 N खयं । 6 N जज्ञे । 7 N व्रतोचिताः । 8 A वाच्यं । 9 A प्रसाध्यत; C प्रशाध्यतः । 10 N यदि विश्रु । 11 N अय । 12 A विजानते । * ' द्वारपाल' इति B टिप्पणी ।