________________
८. वृद्धवादिसूरिचरितम् । राजाह शत्रुभीत्यन्धतमसे'ऽहं निपेतिवान् । उद्दधे भास्वता नाथ भवता भवतारक ! ॥ ८३ ॥
ततो दिवाकर इति ख्याताख्या भवतु प्रभोः । ततःप्रभृति गीतः श्रीसिद्धिसेनदिवाकरः॥ ८४॥ ६५. तस्य राज्ञो दृढं मान्यः सुखासनगजादिषु । बलादारोपितो भक्त्या गच्छति क्षितिपालयम् ।। ८५ ॥
इति ज्ञात्वा गुरुर्वृद्धवादी सूरिर्जनश्रुतेः । शिष्यस्य राजसत्कारदर्पभ्रान्तमतिस्थितेः ॥ ८६ ॥ शिक्षणेन क्षणेनैवापासितुं दुर्ग्रहाग्रहम् । समाजगाम कारपुरे रूपापलापतः ॥ ८७ ॥-युग्मम् ॥ 5 ततः सुखासनासीनमपश्यत् तं प्रभुस्तदा । राजानमिव राजाध्वान्तरे बहुजनावृतम् ॥ ८८॥ प्राह च प्राप्तरूप ! त्वं संदेहं मे निवर्तय । आयातस्य तव ख्यातिश्रुतेर्दूरदिगन्तरात् ॥ ८९ ॥ पृच्छेति सिद्धसेनेन सूरिणोक्ते जगाद सः । तारस्वरं समीपस्थविदुषां विस्मयावहम् ॥ ९० ॥
तद्यथाअणुहुल्लीय' फुल्ल म तोडहु मन' आरामा' म मोडहु ।
10 'मण कुसुमहिं' अचि निरञ्जणु हिण्डह काई वणेण वणु ॥ ९१ ॥ अज्ञातेऽत्र विमृश्यापि कदुत्तरमसौ ददौ । अन्यत् पृच्छेति स प्राहैतदेव हि विचारय ॥ ९२ ॥ अनादरादसम्बद्धं यत्किंचित् तेन चाकथि । अमानितेऽत्र तर्हि त्वं कथयेति जगाद सः ॥ ९३ ॥
वृद्धवादिप्रभुः प्राह कर्णयावहितो भवः । अस्य तत्त्वं यथामार्गभ्रष्टोऽपि लभसे पुनः॥ ९४ ॥ तथाहि-'अणु' अल्पमायूरूपं पुष्पं यस्याः साऽणुपुष्पिका'-मानुषतनुः, तस्याः पुष्पाण्यायुःखण्डानि तानि 15 मा त्रोटयत, राजपूजागर्वार्धकुटीभिः । 'आरामान्' आत्मसत्कान् यमनियमादीन् सन्तापापहारकान् मा मोटयत-भंजयत । 'मन:कुसुमैः' क्षमामार्दवार्जवसन्तोषादिभिरर्चय, निरञ्जनम्-अञ्जनान्यहंकारस्थानानि जातिलाभादीनि निर्गतानि यस्य स निरञ्जन:-सिद्धिपदप्राप्तस्तं ध्यायतु । हिण्डत' भ्रमत 'कथं वनेन वनं' मोहादितरुगहनेनारण्यमिव संसाररूपं गहनमित्येकोऽर्थः॥१॥
अथवा-अणु माल्पधान्यं तस्य पुष्पाण्यल्पविषयत्वान्मानवतनोः, सा अणुपुष्पी, तस्याः पुष्पाणि महा-20 व्रतानि शीलाङ्गानि च तानि, मा त्रोटयत-मा विनाशयत । 'मन आरामं मोटयत' चित्तविकल्पजालं संहरत । तथा 'निरञ्जनं' देवं मुक्तिपदप्राप्तं, 'मन' इत्यनेन द्वौ निषेधकशब्दौ-मा च नश्च, ततो मा कुसुमैरर्चय निरञ्जनं वीतरागम् । गार्हस्थ्योचितदेवपूजादौ षड्जीवनिकायविराधके मोद्यमं कुरु, सावद्यत्वाद् । 'वनेन' शब्देन कीर्त्या हेतुभूतया, 'वनं' चेतनाशून्यत्वादरण्यमिव भ्रमहेतुतया मिथ्यात्वशास्त्रजातं, 'कथं भ्रमसि' अवगाहसे लक्षणया, तस्मान्मिथ्यावादं परिहृत्य सत्ये तीर्थकृदादिष्टे आदरमाधेहि । इति द्वितीयोऽर्थः॥२॥
25 अथवा-अणरणेति धातोरणः शब्दः स एव पुष्पमभिगम्यत्वाद्यस्याः साऽणपुष्पा' कीर्तिः। तस्याः पुष्पाणि सद्बोधवचांसि तानि मा त्रोटयत-मा संहरत । तथा 'मनस आरा' वेधकरूपत्वात् अध्यात्मोपदेशरूपास्तानमा प्रोटयत-कुव्याख्याभिर्मा विनाशयत । मनो निरञ्जनं रागादिलेपरहितं कुसुमैरिव कुसुमैः सुरभिशीतलैः सहुरूपदेशैरर्चय पूजितं श्लाघ्यं कुरु । तथा वनस्योपचारात् संसारारण्यस्य, तस्येनः स्वामी परमसुखित्वात तीर्थकृत् , तस्य वनं शब्दसिद्धान्तस्तत्रै कथं हिण्डत भ्रान्तिमादधत । यतस्तदेव सत्यं । तत्रैव भावना रतिः 30 कार्या । इति तृतीयोऽर्थः॥३॥
इत्यादयो ह्यनेकार्था व्याख्याता वृद्धवादिना । मतिप्रतिविधानं तु वयं विद्मस्तु किं जडाः ॥ ९५ ।। इति तज्जल्पपर्जन्यगर्जिवर्षणडम्बरैः । बोधेनाङ्कुरिता सिद्धसेनमानसमेदिनी ॥ ९६ ॥ ईदृक शक्तिर्हि नान्यस्य मद्धर्माचार्यमन्तरा । स ध्यात्वेति समुत्तीर्य तस्याही प्राणमद् गुरोः ॥ ९७ ॥
1A भीत्यंधः तमसे; CN °तमसो। 2 A °तारकः । 3 A अणुदुल्ली; B अणहुल्लीय; C अणहुल्ली। 4 नास्ति A BI 5 B आराम । 6A मणु 17 B कुसुमेहं । 8 B प्राह तदेव । 9A त्रोटय । 10 A नास्ति । 11A सिद्ध। 12 N साल्प. पुष्पी; A सा च अणु । 18 'च' नास्ति B] 14 N स्याद्वाद। 15 N सिद्धान्तसूत्रं ।