________________
5
10
15
20
५६
25
प्रभावकचरिते
1
५५ ॥
ज्ञानं गुणस्तदाधारो द्रव्यं किंचिद् विचिन्त्यताम् । योऽसौ स एव सर्वज्ञ एषाऽभूत् सिद्धिरस्य च ॥ ५३ ॥ ईदृग्वाचां प्रपश्ञ्चेन जिग्येऽसौ वृद्धवादिना । ब्राह्मणः पण्डितंमन्यस्तस्य कास्था ह्यमूदृशाम् ॥ ५४ ॥ हर्षाश्रुप्लुतनेत्रश्च सिद्धसेनोऽप्यभाषत । प्रभो ! त्वमेव सर्वज्ञः पूर्वः सत्यो जिनस्त्वया ॥ शिष्यत्वेनानुमन्यस्व मां प्रतिज्ञातपूर्विणम् । समर्थो नोत्तरं दातुं यस्य तस्यास्मि शैक्षकः ॥ ५६ ॥ अदीक्षयत जैनेन विधिना तमुपस्थितम् । नाम्ना कुमुदचन्द्रश्च स चक्रे वृद्धवादिना ॥ ५७ ॥ आशु चाशुगवत्तीक्ष्णप्रवरप्रतिभाभरात् । पारदृश्वा तदाकाल' सिद्धान्तस्य स चाभवत् ॥ ५८ ॥ तृतीयपरमेष्ठत्वे गुरुभिर्विदधे मुदा । पुरा ख्याताऽभिधैवास्य तदा च प्रकटीकृता ॥ ५९ ॥ तन्निधाय गणाधारे विजह्ने' स्वयमन्यतः । शिष्यप्रभावो दूरस्थैर्गुरुभिर्वीक्ष्यते यतः ॥ ९३. श्रीसिद्ध सेनसूरिश्वान्यदा बाह्यभुवि व्रजन् । दृष्टः श्रीविक्रमार्केण राज्ञा राजाध्वगेन सः ॥ ६१ ॥ अलक्ष्यं भूप्रणामं स भूपस्तस्मै च चक्रिवान् । तं धर्मलाभयामास गुरुरुच्चतरखरः ॥ ६२ ॥ तस्य दक्षता तुष्टः प्रीतिदाने ददौ नृपः । कोटिं हाटकटंकानां लेखकं पत्रके लिखत् ॥ ६३ ॥
६० ॥
30
तद्यथा
धर्मलाभ इति प्रोक्ते दूरादुद्धृतपाणये । सूरये सिद्धसेनाय ददौ कोटिं नराधिपः ॥ ६४ ॥ [ नृपेण सिद्ध माकार्य गृहीष्यामि (?) धनं स्वया । उवाच सिद्धो नोऽस्माकं यथारुचि तथा कुरु * ॥ ] तेन द्रव्येण चक्रेऽसौ साधारणसमुद्गकम् । दुःस्थसाधर्मिक स्तोम-चैत्योद्धारादिहेतवे ॥ ६५ ॥ अन्यदा चित्रकूटाद्रौ विजहार मुनीश्वरः । गिरेर्नितम्ब एकत्र स्तम्भमेकं ददर्श च ।। ६६ ।। नैव काष्ठमयो ग्रावमयो न नच मृण्मयः । विमृशन्नौषधक्षोदमयं निरचिनोच्च' तम् ॥ ६७ ॥ तद्रस-स्पर्श-गन्धादिनिरीक्षाभिर्मतेर्बलात् । औषधानि परिज्ञाय तत्प्रत्यर्थीन्यमीमिलत् ॥ ६८ ॥ पुनः पुनर्निघृष्याथ स स्तम्भे छिद्रमातनोत् । पुस्तकानां सहस्राणि तन्मध्ये च समैक्षत ॥ ६९ ॥ एकं पुस्तकमादाय पत्रमेकं ततः प्रभुः । विवृत्य' वाचयामास तदीयामोलिमेककाम् ॥ ७० ॥ सुवर्णसिद्धियोगं स तत्र प्रेक्षत विस्मितः । सर्षपैः सुभटानां च निष्पत्तिं श्लोक एकके ॥ ७१ ॥ सावधानः पुरो यावद् वाचयत्येष हर्षभूः । तत्पत्रं पुस्तकं चाथ' जहे' श्रीशासनामरी || ७२ ॥ तादृक् पूर्वगतग्रन्थवाचने नास्ति योग्यता । सत्त्वहानिर्यतः कालदौस्थ्यादेतादृशामपि ॥ ७३ ॥ ९४. स पूर्वदेशपर्य्यन्ते व्यहार्षीच्च परेद्यवि । कर्मारनगरं प्राप विद्यायुगयुतः सुधीः ॥ ७४ ॥ देवपालनरेन्द्रोऽस्ति तत्र विख्यातविक्रमः । श्रीसिद्धसेनसूरिं सनन्तुमभ्याययौ रयात् ॥ ७५ ॥ आक्षेपण्यादिधर्माख्याचतुष्टयवशात् प्रभुः । तं प्रत्यबोधयत् सख्ये चास्थापयदिलापतिम् ॥ ७६ ॥ श्रीकामरूपभूपालः संरुरोध तमन्यदा । नाम्ना विजयवर्मेति धर्मेतरमतिस्थितिः ॥ ७७ ॥ स आटविकनासीरैरसंख्यैर्विद्रुतोऽधिकम् । देवपालो महीपालः प्रभुं विज्ञापयत् ततः ॥ ७८ ॥ अमुष्य शलभश्रेणिसन्निभैरद्भुतैर्बलैः । विद्रावयिष्यते सैन्यमल्पकोशबलस्य मे ॥ ७९ ॥ अत्र त्वं शरणं स्वामिन्निदमाकर्ण्य स प्रभुः । प्रायः प्रतिविधास्यामि मा भैषीरत्र सङ्कटे ॥ ८० ॥ सुवर्णसिद्धियोगेनासंख्यद्रव्यं विधाय सः । तथा सर्षपयोगेन सुभटानकरोद् बहून् ॥ ८१ ॥ युद्धा 'पराजितः शत्रुर्देवपालेन भूभृता । प्रभोः प्रसादतः किं हि न स्यात् तादृगुपासनात् ॥ ८२ ॥
1 A तदाकाले। 2 N तथा च । 3A विजहुः । * केवलं B आदर्श पृष्टपार्श्वभाग एतत्पद्यं लिखितं लभ्यते, प्रक्षिप्तप्रायमसम्बद्धात्मकं च प्रतिभाति । 4BN निरचनोच्च; A निरवन्नोच । 5 A निरीक्षादिमते । 6 A एवं । A विसृत्य; । 7 B विवृत्ति | B चाथ | 8 A विजहे शास° । 9 C परोजितः ।