________________
८. वृद्धवादिसूरिचरितम् ।
मुहूर्तमिव तत्रास्थाद् दिनानामेकविंशतिम् ।
सत्त्वतुष्टा' ततः साक्षाद्भूत्वा देवी तमब्रवीत् ॥ २६ ॥ - त्रिभिर्विशेषकम् | समुत्तिष्ठ ! प्रसन्नास्मि पूर्यन्तां ते मनोरथाः । स्खलना न तवेच्छासु तद्विधेहि निजे हितम् ॥ २७ ॥ इत्याकर्ण्य समुत्तस्थौ देवताया गिरं गिरः । ददर्श मुशलं प्राप्तः कस्यापि गृहिणी गृहे ॥ २८ ॥ पूर्वोक्तयतिसोत्प्रासवाक्य श्रुत्यपमानतः । प्राह श्लोकं श्रुतश्लोक प्रतिज्ञापरिपूर्तये ॥ २९ ॥
स चाय
५.५.
अस्मादृशा अपि यदा भारत ! त्वत्प्रसादतः । भवेयुर्वादिनः प्राज्ञा मुशलं पुष्यतां ततः ॥ ३० ॥ इत्युक्त्वा प्राकैनीरैः सिषेच मुशलं मुनिः । सद्यः पल्लवितं पुष्पैर्युक्तं तारैर्यथा नभः ॥ ३१ ॥
तथा
गोः शृङ्गं शक्रयष्टिप्रमाणं शीतो वहिर्मारुतो निष्प्रकम्पः ।
३७ ॥
यद्वा यस्मै रोचते तन्न किंचित् वृद्धो वादी भाषते कः किमाह ॥ ३२ ॥ इति प्रतिज्ञयैवास्य तदाकालीयवादिनः । हताः पराहतप्रज्ञाः कांदिशीका इवाभवन् ॥ ३३ ॥ ततः सूरिपदे चक्रे गुरुभिर्गुरुवत्सलैः । वर्द्धिष्णवो गुणा अर्था इव पात्रे नियोजिताः* ॥ ३४ ॥ प्रवया वादमुद्राभृद् यतः ख्यातो जगत्यपि । सान्वयां वृद्धवादीति प्रसिद्धिं प्राप स प्रभुः ॥ ३२ ॥ श्रीजैनशासनाम्भोजवनभासनभास्करः' । अस्तं श्रीस्कन्दिलाचार्यः प्राप प्रायोपवेशनात् ॥ ३६ ॥ १२. वृद्धवादिप्रभुर्गच्छाचलोद्धारादिकच्छपः । विजहार विशालायां शालायां गुणसन्ततेः ॥ तदा श्रीविक्रमादित्यभूपालः पालितावनिः । दारिद्र्यान्धतमो भारसंभारेऽभवदंशुमान् ॥ ३८ ॥ श्रीकात्यायनगोत्रीयो देवर्षित्राह्मणाङ्गजः । देवश्रीकुक्षिभूर्विद्वान् सिद्धसेन इति श्रुतः ॥ ३९ ॥ तत्रायात् सर्वशास्त्रार्थपारंगममतिस्थितिः । अन्येद्युर्मिलितः श्रीमद्वृद्धवादिप्रभोः स च ॥ ४० ॥ अद्य व वृद्धवादीह विद्यते पुरि नाथवा । इति पृष्टः स एवाह सोऽहमेवास्मि लक्षय ॥ ४१ ॥ विद्वगोष्टीम प्रेरित्यतोऽत्रैव जल्प्यते । संकल्पो मे चिरस्थायी सखे संपूर्यते यथा ॥ ४२ ॥ न गम्यते कथं विद्वत्पर्षदि स्वान्ततुष्टये । संप्राप्तौ शातकुम्भस्य पित्तलां को जिघृक्षति ॥ ४३ ॥ इत्युक्तेऽपि यदात्रैव स नौज्झद् विग्रहाग्रहम् । ओमित्युक्त्वा तदा सूरिर्गोपान् सभ्यान् व्यधात् तदा ॥४४॥ सिद्धसेनः प्रागवादीत् - 'सर्वज्ञो नास्ति निश्चितम् । यः प्रत्यक्षानुमानाद्यैः प्रमाणैर्नोपलभ्यते ॥ ४५ ॥ नभःकुसुमदृष्टान्तादित्युक्वा व्यरमच्च सः । उवाच वृद्धवादी च गोपान् सान्त्वनपूर्वकम् ॥ ४६ ॥ भवद्भिरेतदुक्तं भो ! किमप्यधिगतं नवा ? । ते प्राहुः पारसी का भ मव्यक्तं बुद्ध्यते कथम् ॥ ४७ ॥ वृद्धवाद्याह-भो गोपा ! ज्ञातमेतद्वचो मया । जिनो नास्तीत्यसौ जल्पे. तत् सत्यं ?, वदतात्र भोः ! ॥ ४८ ॥ भवद्रामे वीतरागः सर्वज्ञोऽस्ति नवा ? ततः । आहुस्तेऽस्य वचो मिथ्या जैनचैत्ये जिने सति ॥ ४९ ॥ न चानवगतेष्वत्रादरो द्विजवचस्तु नः । सूरिराह पुनर्विप्र ! तथ्यां शृणु गिरं मम ॥ ५० ॥ मनीषातिशयस्तारतम्यं विश्राम्यति क्वचित् । अस्ति चातिशयेयत्ता परिमाणेष्विव स्फुटम् ॥ ५१ ॥ aal गुरुतरे वापि परमाणौ वियत्यपि । प्रज्ञाया अवधिर्ज्ञानं केवलं सिद्धमेव तत् ॥ ५२ ॥
1 A सत्त्वात्तुष्टा । 2 N तवेच्छास्तु । 3 N श्रुतलोक° । 4 BCN मुगोः । 5 C ° भाखरः । * 'व्याजेषु द्विगुणं प्रोक्तं व्यवसायेन चतुर्गुणं । कृषौ शतगुणं प्रोक्तं पात्रेऽनन्तगुणं भवेत् ॥' - इति B टिप्पणी । 6 N मुनिनाथवा । 7 N निश्चयः । 8 A तरुतरे | 9 C अवधिज्ञानं ।
5
10
15
20
25
30