________________
प्रभावकचरिते
• तत्करवासप्रभवप्रभावतस्तन्न समदहद् वह्निः । अमृतनिधौ तन्मत्रे न प्रभवति किन्तु विध्याति ।। १३४॥
एकादशसु समानां लक्षेषु गतेषु' विंशजिनसिद्धः । पञ्चाशीतिसहस्रीषट्शतषडशीतिसहितेषु ॥ १३५ ॥ जीर्णमुपजितिकाभिर्जर्जरकाष्ठं चिरेण तज्जज्ञे । पुनरुद्दधे ग्रावभिरंवड इह राणकः श्रीमान् ॥ १३६ ॥ श्रीविजयसिंहसूरिजिनसमयद्रोणिकर्णधारकलः । आयुःप्रान्तेऽनशनं प्रगृह्य दैवीं भुवं प्राप ॥ १३७ ॥ अद्यापि तस्य वंशे प्रभावकाः सूरयः समुदयन्ते । यत्तेजःप्रसरेण प्रसर्पता शासनं जयति ॥ १३८ ॥
इत्थं प्रभोर्विजयसिंहमुनीश्वरस्य वृत्तं पवित्रमतिदुष्करमल्पसत्त्वैः। अश्वावबोधवरतीर्थचरित्ररम्यं वृत्तेन चातिशयचारु सुदर्शनायाः ॥ १३९ ॥ अम्बासुरीवरचरित्रपवित्रमत्र संघस्य पुष्टिकरमद्भुतमुन्नतायाः। अभ्यस्यमानमतुलं प्रकटप्रभावं भूयात् समस्तजिनशासनवैभवाय ॥ १४० ॥ श्रीचन्द्रप्रभसूरिपदृसरसीहंसप्रभः श्रीप्रभा
चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ प्रद्युम्नसूरीक्षितः शृङ्गोजायत षष्ठ एष गुटिकासिद्धस्य वृत्तं प्रभोः॥ १४१ ॥
॥ इति श्रीविजयसिंहसूरि प्रबन्धः ॥ ॥ ग्रंथाग्रं १७९ । अ०७॥ उभयं १२८७ ॥ अक्षर ॥ १८ ॥
15
1N नास्ति 'गतेषु'। 2 'ऊदेही' इति B टि.। 3A "काष्ठः। 4 N इव। 5N पुना। 6A 'सूरिचरितं नाम प्रबन्धः। 7 A नास्ति 'प्रबन्धः'।