________________
६. विजयसिंहसूरिचरितम् ।
४५
तत्रितयमृतिं मत्वा हत्यादोषी कथं नु जीवामि । आकूणितगन्धज्ञं प्रदर्श्यमानोऽङ्गुलीभिरहम् ॥ १०७ ॥ तस्मान्ममापि मृत्युः श्लाघ्योऽत्रैवार्हता पवित्रेऽद्रौ । ' याऽमीषां सा मे स्याद् गतिरपरैः प्रलपितैः किं नु ॥ १०८॥ एवं विचिन्त्यते तत्रैवानेन भैरवे भयदे । लेभे तद्वाहनता सिंहतया व्यन्तरीभूय ॥ १०९ ॥ साऽम्बादेवी 'श्रीनेमिनाथतीर्थेऽत्र भक्तियुक्तानाम् । साहाय्यं कुर्वाणा तत्रं गिरौ विद्यतेऽद्यापि ॥ ११० ॥ ६६. अथ विजयसिंह सूरिस्तत्राष्टाङ्गप्रणाममाधाय । विहिततीर्थोपवासस्तीर्थेशं तुष्टुवे सुष्ठु ॥ १११ ॥ निरुपमचारित्रनिधिं तत्र प्रेक्ष्यामुमम्बिका देवी । क्षणदायां प्रत्यक्षा' भूत्वा प्रणनाम तत्पादौ ॥ ११२ ॥ अम्बा त्वं द्विजपत्नी पतिपरिभूता जिनासिरसिरुहम् ।
5
स्मृत्वा सुरत्वमाप्ता त्वामनु पतिरपि च तादृगभूत् ॥ ११३ ॥ तस्येति वचः श्रुत्वा हृष्टाऽवादीत् समादिशत किंचित् ।
ते प्राहुनीहानां कार्यं नः किमपि नास्ति शुभे ! ॥ ११४ ॥
सा निःस्पृहत्वतुष्टा विशेषतस्तानुवाच बहुमानात् ।
गुटिकां गृह्णीत विभो ! चिन्तितकार्यस्य सिद्धिकरीम् ॥ ११५ ॥ चक्षुरदृश्यो गगनेचरश्च रूपान्तराणि कर्ता च । कवितालब्धिप्रकटो विषहृद् बद्धस्य मोक्षकरः ॥ ११६ ॥ भवति जनो गुरुलघुतां प्रपद्यते स्वेच्छया तथावश्यम् ।
अनया मुखे निहितया विकृष्टया तदनु सहजतनुः ॥ ११७ ॥ सुगुरोरनिच्छतोऽपि हि हस्ते मुक्त्वा तिरोदधे च सुरी । वदने तां न्यस्य प्राक् श्रीनेमिस्तवममुं चक्रे ॥११८॥ 'नेमिः समाहितधिया' मित्यादिभिरमरवाक्यसंकाशैः ।
10
1 N यो । 2 'श्री' नास्ति N 3 N प्रत्यक्षी । 4 नास्ति 'न: ' ABN; C 'न' | 5 A वंशप्रकट; B N वंशः प्रकटः । 6 N°प्लुतः । 7 N गर्जितरवो 8 N 'दनिल । 9BCN एत्य | 10 A वः ।
15
20
काव्यैरस्तौत् श्रीमन्नेमिम् ; स्तुतिरस्ति साऽद्यापि ॥ ११९ ॥ सूरिरथ तीर्थयात्रां विधाय चायात् तदा भृगुक्षेत्रे । संघप्रवेशमुख्यैर्महोत्सवैस्तं समर्चयत् ।। १२० ।। ६७. अन्येद्युरंकुलेश्वरनगरात् प्रबलेन पवनवेगेन । जाज्वल्यमान उच्चैर्वशकट:' प्राप तन्नगरे ॥ १२१ ॥ अर्चिर्वलयपरिप्लुत' सदनापणहर्म्यचैत्यकोटीषु । अनलः प्रससार तदा सागर इव मुक्तमर्यादः ॥ १२२ ॥ प्रथमकवले तृणावृतगृहाणि कावेलुकावृतानि तथा । मध्याहारे किल कुट्टिमानि तृप्त्यर्थमस्यासन् ॥ १२३ ॥ दंदह्यमानमानुषपशुखचराक्रन्दभैरवारावम् । शारदगर्जिरिवो' ऽसौ बधिरितवियदनल उत्पेदे ॥ १२४ ॥ भस्मीकृतं समस्तं नगरं तेनेह दहनरूपेण । समवर्तिना सगोपुर दुर्गाररियत्र परिकरितम् ॥ १२५ ॥ उपशान्ते नियतवशादनुपक्रमसाध्य ईदृगुपसर्गे । श्रीमुनिसुव्रतचैत्यं काष्ठमयं भस्मसात् तद्भूत् ॥ १२६ ॥ 25 पाषाण-पित्तलामयदेवप्रतिमा विशीर्णसर्वाङ्गाः । अभवन् सुव्रतबिम्बं तस्थावेकं तु सदवयवम् ॥ १२७ ॥ विश्वप्रकाशरूपा दाहेमेरस्य ननु नवा मृत्स्ना । समराङ्गण इव मर्दितवीरे स्थैर्यस्थिते पुंसि ॥ १२८ ॥ अथ विजय सिंह सूरिगुटिकां वदने निधाय सत्पात्रम् । हस्ते कृत्वा तीर्थोद्धाराय स गोचरं व्यचरत् ॥ १२९॥ 'इभ्यब्राह्मणवेश्मसु पूर्वमगाद् धर्मलाभवक्ताऽसौ । श्रीमुनिसुव्रतचैत्योद्धारे भिक्षां प्रयाचे च" ॥ १३० ॥ पञ्चाशत् कोऽपि शतं द्विशतीं वा कोऽपि जातरूपस्य । प्रददौ तस्य महर्षेः पञ्च सहस्रास्तदाऽभूवन् ॥ ३३१ ॥ 30 अष्टमहासिद्धिभृतस्तस्यासाध्यो धनागमो नैव । चारित्रधनं रक्षन् नादत्तादत्तमिह भगवान् ॥ १३२ ॥ पुनरुददीधरदाशु प्रधानदारुव्रजेन सूत्रभृता । वर्द्ध किरत्नेन तदा चक्रीवाह्नाय जिनसा ॥ १३३ ॥