________________
5
10
15
20
४४
25
30
प्रभावकचरिते
श्रीवर्धमानसंवत्सरतो वत्सरशताष्टकेऽतिगते । पञ्चाधिकचत्वारिंशताधिके समजनि वलभ्याः ॥ ८१ ॥ भङ्गस्तुरष्कविहितस्तस्मात् ते भृगुपुरं विनाशयितुम् । आगच्छन्तो देव्या निवारिताः श्री सुदर्शनया ॥ ८२ ॥ श्री वीरवत्सरादथ शताष्टके चतुरशीतिसंयुक्ते । जिग्ये समवादी बौद्धास्तद्व्यन्तरांश्चापि ॥ ८३ ॥
श्रीसातवाहनाख्यो भूप इदं तीर्थमुद्धधार पुनः । श्रीपादलिप्तसूरिर्ध्वजप्रतिष्ठां व्यधात् तत्र ॥ ८४ ॥ प्रत्यक्षीभूय तयोः पुरतो नाटयं सुदर्शना विदधे । विंशतितमतीर्थेश्वरनिवधि' बहुमानशृङ्गारा ॥ ८५ ॥ १४. श्री आर्य खपुटवंशे सूरिः श्रीविजयसिंह इत्यासीत् । शमदमनियमतपस्याकमलाकम लोपमाकलितः ।। ८६ ।। अन्येद्युः शत्रुञ्जय - रैवतकप्रभृतितीर्थमुख्येषु । तीर्थाधिपान् प्रणन्तुं व्यहरत् कृतसंयमोद्धारः ।। ८७ ।। समगंस्त सुराष्ट्रायां शनैस्ततः प्राप रैवतकशैले । तं चारुरोह तीर्थस्वामिध्यानैकलीनमनाः ॥ ८८ ॥ 'श्रीनेमिनाथतीर्थे शासनरक्षाविचक्षणा देवी । 'श्रीमत्यम्बाभिधया प्रस्तावात् कथ्यते तदाख्यानम् ॥ ८९ ॥ तश्चेदं
९५. काश्यपरोपितनगरे कासहदाख्ये समस्ति' भूदेवः । श्रीसर्वदेवनामा वेदचतुष्कस्य पारगतः || ९० ॥ तस्यास्ति सत्यदेवीत्याख्या वरवल्लभा सतीरत्नम् । पुत्री च तयोरम्बादेवीनाम्नी 'सुकृतिमौलिः।। ९१ ।। यौवनसंप्राप्तां तामवृणोदतिथिश्व को टिनगरीयः । कुलशीलरूपचारुः स सोम भट्टाख्यया विदितः ॥ ९२॥ उद्वाह्य च स्वनगरे जगाम रामाजनाभिरामां ताम् । उत्सवतो निजगेहं प्राविक्षत् परिहृतक्केशः ।। ९३॥ एवं गच्छति काले पुत्रद्वयमजनि वृजिनमुक्तायाः । पूर्वो विभाकराख्यः शुभंकरो नामतोऽन्यश्च ॥ ९४ ॥ तत्र श्रीनेमिजिनान्तेवासि श्री सुधर्मसूरीणाम् । मुनियुगलं तद्वेश्मनि भिक्षायैः विशदवृत्तमगात् ॥ ९५ ॥ अम्बादेव्यपि निर्मलमनसा सिद्धं समस्तमप्यन्नम् । दानविधिविहितहर्षा व्यजीहरद् वासनैकविधिः ॥ ९६ ॥ प्रहितौ प्रणम्य साधू तावत् प्रायाच्च सोमभट्टश्च । कृतवैश्वदेवकृत्यं विना कथं रसवती स्पृष्टा ॥ ९७ ॥ इत्यपराधोद्भावनपूर्वं दुर्वचनसंहतिमवादीत् । ताममुखविकारां च प्रजहार मुखं चपेटाभिः ॥ ९८ ॥ गृहमानुषैश्च सा मोचिताऽनुकम्पावशात् ततो वनिता । अपमानान्निरगच्छत् पुत्रावादाय सा गेहात् ॥ ९९॥ आरोहयदथ कट्यां लघुं तथा चाङ्गुलिं प्रसह्य गुरुम् । व्यमृशज्जिनमुनिदाने वरयित्रा'ऽहं पराभूता ॥१००॥ तस्मात् स एव मार्गः शरणं " मे भवतु जैनविधिविशदः ।
श्रीवतगिरिमभिसा मानारूढा ययौ त्वरितम् ॥ १०१ ॥ क्षुधिता ढषिता श्रान्ता पुनरुच्छ्रितमारुरोह गिरिराजम् ।
ध्यात्वेति सुकृतकामा प्रणनामारिष्टनेमिजिनम् ॥ १०२ ॥ चैत्यान्निर्गत्य ततो विश्रान्ता चूततरुतले तनुजः । परिपक्रिमफललंबीं क्षुधातुरः प्रार्थयामास ॥ १०३ ॥ तामस्य चार्पयित्वा श्रीनेमिस्मरणमथ विधायैषा | झम्पापातं चक्रे तस्माच्छिखरात् सपुत्रापि ॥ १०४ ॥ श्रीनेमितीर्थनाथस्मृतिवशतो दैवतर्द्धिमाप तदा । विस्मृतकोपाटोपो विप्रोऽपि प्रापदनुतापम् ॥ १०५ ॥ अकथितवार्तो निलये सोऽप्यस्या आनुपदिकतां प्राप्य । आरूढो रैवतके सहकारं भैरवं " चाप ।। १०६॥
1 A ° वरनिधि' । 2 N श्रीमन्नेमि । 3 N श्रीमत्पद्मा । 4BN समस्त । 5A सुकृत। 6 N 'वासी सुध । 7 N शुद्धं । 8 N खरं । 9 N वरयित्वा । 10 N नास्ति 'मे'। 11 N रैवतं ।