________________
७. जीवसूरिचरितम् । ७. श्रीजीवसूरिचरितम्।
-
-
-
६१.अर्हद्ब्रह्मस्थगोः प्राणोल्लासेन चरणोदयम् । विदधे स ददातु श्रीजीवदेवप्रभुः श्रियः॥१॥
निजप्राणैः परप्राणान् पूर्वेऽपि स्वाङ्गदा दधुः । अक्षतो 'जीवजीवातु परो जीवदेववत् ।। २ ॥ अद्यप्रातीन' (?) कालीयो मादृक्षस्तस्य वर्णने । परं मां मुखरं कर्तुं तद्भक्ते परः प्रभुः ॥ ३॥ लवित्रं जाड्यकक्षस्य वहिनं पापवारिधेः । धवित्रं दुःखधर्मस्य चरित्रं तस्य कीर्त्यते ॥ ४॥ 5 जगत्प्राणः* पुरा देवो जगत्प्राणप्रदायकः । स्वयं सदाऽनवस्थानः स्थानमिच्छन् जगत्यसौ ॥ ५॥ वायटाख्यं महास्थानं गूर्जरावनिमण्डनम् । ददौ श्रीभूमिदेवेभ्यो ब्रह्मभ्य इव मूर्तिभिः॥६॥-युग्मम् । शालातालक सम्बन्धनिवेशेन तदा मरुत् । निदधे ब्रह्मशालायां चैत्ये च परमेष्ठिनम् ॥ ७॥ मलयाद्रौ यथा सर्वे चन्दनन्ति महीरुहः । ब्राह्मणा वणिजश्चात्र तथासन् वायटाख्यया ॥८॥ अभूज्जातिः स्फुरज्जातिपुष्पसौरभनिर्भरा । सरसालिभिराराध्या तन्नाम्ना सर्वमूर्द्धगा ॥ ९॥ 10 धर्मदेवः श्रियां धाम श्रेष्ठी तत्रास्ति विश्रुतः । साक्षाद्धर्म इव न्यायार्जितद्रव्यप्रदानतः ।। १० ॥ शीलभूस्तस्य कान्तास्ति नाना शीलवती यया । आनन्दिवचसा नित्यं जीयन्ते चन्द्रचन्दनाः ॥ ११ ॥ तयोः पुत्रावुभावास्तां श्रेयःकर्मसु कर्मठौ । महीधरो' महीपालोऽभिधाभ्यां विश्रुताविति ॥ १२ ॥ महीपालोऽप्यभूत् कर्मदोषाद् देशान्तरभ्रमी । महीधरश्च सौभ्रात्रस्नेहाद् वैराग्यवानभूत् ॥ १३ ॥ तत्रास्ति जंगम तीर्थं जिनदत्तः प्रभुः पुरा । संसारवारिधेः सेतुः केतुः कामाद्यरिव्रजे ॥ १४ ॥ 15 संप्राप्य सूत्रधारं यं सत्काष्ठोत्कर्षसंघटम् । संपूर्णसिद्धिसौधस्य मध्यमाध्यासताश्रिताः ॥ १५ ॥ अन्यदा तं प्रभु नत्वा भवोद्विग्नो महीधरः। बन्धोविरहवैराग्यात् प्रार्थयजैनसङ्गमम् ॥ १६ ॥ योग्यं विज्ञाय तं तस्य पितरौ परिपृच्छय च । प्रव्रज्यां प्रददौ सूरिरभाग्यालभ्यसेवनः ॥ १७ ॥ गुरुशिक्षा द्विधादायानेकविद्याब्धिपारगः । अतिप्रज्ञाबलात्" सोऽभूदभूमिः परवादिनाम् ॥ १८ ॥ भववारिधिनिस्तारपोताभं भविनां भुवि । तं शिष्यं स्वपदे न्यस्य गुरुः प्रेत्यश्रियोऽभजत् ॥ १९॥ 20
शाखानुगतनाम्नाऽसौ श्रीराशिलगुरुस्ततः । विद्याविनोदतः कालं गच्छन्तमपि वेद न ॥ २० ॥ ६२.महीपालस्तथा तस्य बन्धू राजगृहे पुरे । प्रापद् दिगम्बराचार्य श्रुतकीर्तिमिति श्रुतम् ॥ २१ ॥
प्रतिबोध्य व्रतं तस्य ददौ नाम च स प्रभुः । सुवर्णकीर्तिरिति तं निजां चाशिक्षयत् क्रियाम् ॥ २२ ॥ श्रुतकीर्तिगुरुस्तस्यान्यदा निजं" पदं ददौ । श्रीमदप्रतिचक्राया विद्यां च धरणार्चिताम् ॥ २३ ॥ परकायप्रवेशस्य कलां चासुलभां कलौ । भाग्यसिद्धां प्रभुः प्रादात् तादृग्योग्या हि तादृशः ॥ २४ ॥ 25 तत्पुरागतवाणिज्यकृद्भ्यो ज्ञात्वा जनन्यथ । जगाम मिलनायास्य भर्तरि त्रिदिवं गते ॥ २५ ॥ मिलिता तस्य तद्गृौमानिता मान्यतानिधिः । जननीदृग् गुरो रत्नखानिवत् कस्य नाहिता ॥ २६ ॥ तीर्थकृद्धर्मतत्त्वानामविवादेऽपि काश्चन । समाचारभिदां दृष्ट्वा निज एव सुतद्वये ॥ २७ ॥ अवदत् शङ्किता वत्स ! जैने धर्मेऽपि "वोऽन्तरम् । श्वेताम्बरोऽतिनिष्ठाभूईष्टोऽयं निःपरिग्रहः ॥२८॥ किञ्चिद्भवान सुखी पूजालोलो बहुपरिग्रहः । तन्मे शंस कथं सिद्धिः प्राप्यते व्यापृतैर्जनैः ॥ २९॥ 30 ततस्त्वं पूर्वजस्थाने समागच्छ मया सह । यथोभौ भ्रातरौ धर्म संविचार्यसम्मतम् ॥ ३०॥
1CN मृतजीवातु। 2 N प्राचीन 1 3 °धर्मस्य । * 'वायुः' इति C टि। 4 B°तालाक। 5 AC परमेष्ठिना । 6N धर्मश्रेष्ठी ।7N महीधरमहीपालाभिधाभ्यां । 8 A °दत्तप्रभुः। 9A यः। 10 BCN बलः। 11 BC निजपद। 12 Aचान्तरम् ।