________________
5
10
15
20
25
30
૨૮
प्रभावकचरिते
स जिघ्रन् विमृशन् पश्यन् स्वादयन् संस्पृशन्नपि । प्रज्ञाबलादौषधानां' जज्ञे सप्ताधिकं शतम् ॥ २८६ ॥ विधायौषधसंयोगं ततः कल्कं चकार सः । पादमालेपयत् तेनोच्छलितो गगनं प्रति ॥ २८७ ॥
स ताम्रचूडसंपातं कृत्वा च न्यपतद् गुणी । उच्चैः प्रदेशात् पातेन जानौ गुल्फे च पीडितः ॥ २८८ ॥ रक्ताभ्यक्तत्रणक्लिन्नजङ्घो-दृष्टः शमीश्वरैः । उक्तं च किमहो ! पादलेपः सिद्धो गुरुं विना ? ॥ २८९ ॥ सोऽब्रवीच स्मितं कृत्वा नास्ति सिद्धिर्गुरुं विना । निजप्रज्ञाबले किंतु परीक्षां चत्रिवानहम् ॥ २९० ॥ प्राह श्रीपादलिप्तोऽपि प्रसन्नस्तस्य सत्यतः । शृणु नाहं नतेस्तुष्टो रससिद्ध्या न तेऽनया ।। २९१ ॥ शुश्रूषयानया नापि परं प्रज्ञाबलेन ते । तोषहिक्षालनात् को वस्तुनामानि बुध्यते ॥ २९२ ॥ ततो दास्यामि ते विद्यां परं मे गुरुदक्षिणाम् । कां दास्यसि स चोवाच यामादिशसि मे प्रभो ! ॥ २९३ ॥ ऊचे च गुरुणा सिद्ध ! त्वयि स्निग्धं मनो मम । उपदेक्ष्यामि ते पथ्यं तथ्यं गाथां ततः शृणु ॥ २९४ ॥
सा च
दीहरफर्णिदनाले महिहरकेसरदिसाबहुदलिल्ले ।
ओपियइ कालभमरो जणमयरन्दं 'पुहइपउमे ॥ २९५ ॥ ततो विश्वहितं धर्ममाद्रियस्व जिनाश्रयम् । तथेति प्रतिपन्ने च तेन तद् गुरुरादिशत् ॥ २९६ ॥ आरनालविनिद्धततन्दुलामलवारिणा । पिष्ौषधानि पादौ च लित्वा व्योमाध्वगो भव ॥ २९७ ॥ तथैव विहितेऽसौ च जगाम गगनाध्वना । पक्षिराजवदुड्डीय यथाभिलषितां भुवम् ॥ २९८ ॥ कृतज्ञेन ततस्तेन विमलाद्रेरुपत्यकाम् । गत्वा समृद्धिभाक् चक्रे पादलिप्ताभिधं पुरम् ।। २९९ ।। अधित्यकायां श्रीवीरप्रतिमाधिष्ठितं पुरा । चैत्यं विधापयामास स सिद्धः साहसीश्वरः ॥ ३०० ॥ गुरुमूर्ति च तत्रैवास्थापयत् तत्र च प्रभुम् । प्रत्यष्ठापयदाहूयार्ह दुबिम्बान्यपराण्यपि ॥ ३०१ ॥ श्रीपादलिप्तसूरिव श्रीवीरपुरतः स्थितः । स्तवं चक्रे वरं 'गाहाजुअलेणे' ति संज्ञितम् ॥ ३०२ ॥ गाथाभिश्चेति सौवर्ण-व्योमसिद्धी सुगोपिते । प्रभुर्जजल्प नाभाग्याः प्रबुध्यन्तेऽधुनातनाः ॥ ३०३ ॥ तथा रैवतकक्ष्माभृधो दुर्गसमीपतः । श्रीनेमिचरितं श्रुत्वा तादृशाप्तप्रभोर्मुखात् ॥ ३०४ ॥ कौतुकात् तादृशं सर्वमावासादि व्यधादसौ । दशार्हमण्डपं श्रीमदुप्रसेननृपालयम् ॥ ३०५ ॥ विवाहादिव्यवस्थां च वेदिकायां व्यधात् तदा । अद्यापि धार्मिकैस्तत्र गतैस्तत् प्रेक्ष्यतेऽखिलम् ॥ ३०६ ॥
ॐॐ
९१३. इतः पृथ्वीप्रतिष्ठाने नगरे सातवाहनः । सार्वभौमोपमः श्रीमान् भूप आसीद् गुणावनिः ॥ ३०७ ॥ तथा श्रीकालकाचार्यस्वस्रीयः श्रीयशोनिधिः । भृगुकच्छपुरं पाति बलमित्राभिधो 'नृपः ॥ ३०८ ॥ अन्येद्युः पुरमेतच्च रुरुधे सातवाहनः । द्वादशाब्दानि तत्रास्थाद् बहिर्न व्याहतं तु तत् ॥ ३०९ ॥ अथाशक्य दुर्गे निर्विण्णचिरकालतः । श्रीपादलिप्त शिष्यस्तन्मत्री नाथं व्यजिज्ञपत् ॥ ३१० ॥ प्रायिष्याम्यहो दुर्गं भेदात् तत् प्रेषयस्व माम् । एवमस्त्विति तेनोक्ते निर्ययौ शिबिरात्ततः ॥ ३११ ॥ स भागवतवेषेण प्राविशन्नगरान्तरा । भूपालमन्दिरे गत्वा तन्नाथं च व्यलोकयत् ॥ ३९२ ॥ जीर्णदेवगृहोद्धारो' महादानानि सत्क्रिया । पुण्याय स्युर्यतो दुर्गरोधाद्यापन्निवर्तते” ॥ ३१३ ॥ सोऽपि संरोधनिर्विण्णस्तदाक्षिप्तो व्यधाददः । धर्मोपदेश आपत्सु कार्य्यपक्षे हि जायते ॥ ३१४ ॥ धर्मस्थानानि भज्यन्ते बहिर्यत्राइम " गोलकैः । समारचयते राजा तस्य धर्मोपदेशतः ।। ३१५ ॥
1 B N°षधीनां । 2 N दापयसि । 3 BN तुइ° । 4BN ऽभवत् । 5 N नृप । 6 N भवत्। 7 A ° गृहोद्धारे । 8N दानादि । 9 N स्फूर्यते; A B स्फुर्यतो । 10 N रोधाद्यावन्नि° । 11 A यना° ।