________________
५. पादलिप्तसूरिचरितम् ।
पौनःपुन्येन भज्यन्ते निष्पाद्यन्ते पुनः पुनः । एवं च बलमित्रस्य सर्वस्वं निष्ठितं तदा ॥ ३१६ ॥
श्रीसातवाहनो दुर्ग मंत्रिबुद्ध्या ततोऽग्रहीत् । तन्निगृह्य महीपालं नगरं खं ययौ मुदा ॥ ३१७ ॥ ६१४. अन्यदा तस्य राजेन्दो राज्यं विद्धतः सतः । चत्वारः शास्त्रसंक्षेपकवयो द्वारमभ्ययुः ॥ ३१८ ॥ प्रतीहारेण ते राज्ञो विज्ञप्य भवनान्तरा । मुक्ता एकैकपादं च श्लोकस्याहुपागतः ॥ ३१९ ॥
तथा हिजीर्णे भोजनमात्रेयः, कपिलः प्राणिनां दया।
बृहस्पतिरविश्वासः, पाश्चालः' स्त्रीषु मार्दवम् ॥ ३२०॥ पूर्व प्रशस्य तेषां स महादानं ददौ प्रभुः । परिवारो न किं स्तोतीत्युक्ते तैराह भूपतिः ॥ ३२१ ॥ भोगवत्यभिधां वारवनितां त्वं स्तुतिं कुरु । पादलिप्तं विना नान्यः स्तोतव्यो मम साऽब्रवीत् ॥३२२॥ आकाशमार्गजंघालो विद्यासिद्धो महाक्रियः । पादलिप्ताद् ऋते कोऽन्य एवंविधगुणावनिः ॥ ३२३ ॥ 10 सांधिविग्रहिको राज्ञः शंकरो नाम मत्सरी । असहिष्णुः स्तुतिं तस्यावादीदादीनवस्थितिः ॥ ३२४ ॥ मृतो जीवति यस्तस्य पाण्डित्यं प्रकटं वयम् । मन्यामहेऽपि ते कीरा विद्वांसो गगनेचराः ॥ ३२५ ॥ भोगवत्याह तत्रेदमपि संभाव्यते ध्रुवम् । अतुल्यप्रभावा जैना देवा इव महर्षयः ॥ ३२६॥ मानखेटपुरात् कृष्णमापृच्छय्य स भूपतिः । श्रीपादलिप्तमारासीदेतस्मादेव कौतुकात् ॥ ३२७ ॥ आययौ नगराद्वाह्योद्याने जैनो मुनीश्वरः । विद्वान् बृहस्पतिर्ज्ञात्वा परीक्षामस्य चक्रिवान् ॥ ३२८ ॥ 15 विलीनसर्पिषा पूर्ण रौप्यकच्चोलकं ततः । प्रेषिवान् निपुणेनैष स प्रभोस्तददर्शयत् ।। ३२९ ॥ धारिणीविद्यया सूचीमवस्थाप्योर्द्धसंस्थितिं । प्रैषयत् तेन तद् दृष्टं विषण्णोऽथ बृहस्पतिः॥ ३३० ॥ अथाभ्यागत्य भूपालः प्रवेशोत्सवमादधे । गुरोरुपाश्रयस्तस्य महार्हश्च प्रदर्शितः ॥ ३३१॥ कथा तरङ्गलोलाख्या व्याख्याताऽभिनवा पुरः । भूपस्य तत्र पाञ्चालः कवि शमसूयितः ॥ ३३२ ॥ प्रशंसति कथां नैव दूषयेत् प्रत्युताधिकम् । रासभस्य मुखात् किं स्यात् शान्तिपानीयनिर्गमः ॥ ३३३ ॥ 20 मग्रंथेभ्यो मुषित्वार्थबिन्दु कथेयमाथि । बालगोपाङ्गनारङ्गसङ्गि ह्येतद्वचः सदा ॥ ३३४ ॥
विदुषां चित्तरङ्ग नोत्पादयेत् प्राकृतं हि तत् । स्तौति भोगवती ह्येतत् तादृशां ताहगौचिती ॥ ३३५ ॥ ६१५. अन्यदा कपटात् स्वस्य मृत्युमैक्षयत प्रभुः । 'हाहा! पूत्कारपूर्व च जनस्तत्रामिलद् घनः ॥ ३३६ ॥
शिबिकान्तस्तनुः साधूक्षिप्ता यावत्समाययौ । वादित्रैर्वाद्यमानैश्च पश्चालभवनाग्रतः ॥ ३३७ ॥ तावद् गेहाद् विनिष्क्रामन् जज्ञेऽसौ शोकपूरितः । आह हाहा ! महासिद्धिपात्रं सूरिययौ दिवम्॥३३८॥25 मादृशोऽसूययाक्रान्तः सत्पात्रे सूनृतव्रते । अकुर्वत दृशो रक्ता मोक्षो नास्ति तदेनसः ॥ ३३९ ॥
यत उक्तम्आकरः सर्वशास्त्राणां रत्नानामिव सागरः। गुणैर्न परितुष्यामो यस्य मत्सरिणो वयम् ॥ ३४०॥
तथासीसं कहवि न फुट जमस्स पालित्तयं हरंतस्स ।
जस्स मुहनिज्झराओं तरंगलोला नई बूढा ॥ ३४१ ॥ पंचालसत्यवचनाज्जीवितोहऽमिति ब्रुवन् । उत्तस्थौ जनताहर्षारावेण सह सूरिराद ॥ ३४२ ।।
1AN पाचालस्त्री। 2 A प्रवेश्य । 3 N संस्थिति। 4 A B द्वेषयेत् ; C द्वेषाय। 5N दाहात् । 6N साधुक्षिप्वा C साधूरिक्षावा।