________________
५. पादलिप्तसूरिचरितम् । गिरयः सरितो यस्य गृहाङ्गणमिवाभवन् । दूरदेशान्तरं गेहान्तरं 'भूरिकलादरात् ॥ २५६ ॥ *नाग-वंगीकृताभ्यासस्ताररङ्गस्या रङ्गभूः । संग्रही चौषधीनां यो रससिद्धिकतामिह ॥ २५७ ।। यः सत्त्वं तालके पिष्टं गन्धके द्रावमझके । जारणं मारणं सूते वेत्ता छेत्ता सुदुःस्थितेः ॥ २५८ ॥ सहस्रलक्षकोट्यंशधूमवेधान् रसायनम् । 'पिण्डवद्धान् चकाराथ नदीष्णो रससाधने ॥ २५९ ॥ स महीमण्डलं भ्रान्त्वाऽन्यदा स्वपुरमासदत् । पादलिप्तं च तत्रस्थं जज्ञे निःसंख्यसिद्धिकम् ॥ २६० ॥ पर्वताभितभूमौ च कृतावासः स्वशिष्यतः । अकार्षीत् पादलेपार्थी ज्ञापनं गणभृत्पतेः ॥ २६१ ॥ तृणरत्नमये पात्रे सिद्धं रसमढौकयत् । छात्रो नागार्जुनस्य श्रीपादलिप्तप्रभोः पुरः ॥ २६२ ॥ स प्राह रससिद्धोऽयं ढौकने कृतवान् रसम् । स्वान्तर्द्धनमहो स्नेहस्तस्येत्येवं स्मितोऽभ्यधात् ॥ २६३ ॥ पात्रं हस्ते गृहीत्वा च भित्तावास्फाल्य खण्डशः । चक्रे च तन्नरो दृष्ट्वा व्यषीदद् वक्रवक्रभृत् ॥ २६४ ॥ मा विषीद तव श्राद्धपार्श्वतो भोजनं वरम् । प्रदापयिष्यते चैवमुक्त्वा संमान्य भोजितः ॥ २६५ ॥ 10 तस्मै चापृच्छयमानाय काचामत्रं प्रपूर्य सः । प्रश्रावस्य ददौ तस्मै प्राभृतं रसवादिने ॥ २६६ ॥ नूनमस्मद्गुरुर्मूो योऽनेन स्नेहमिच्छति । विमृशन्निति स स्वामिसमीपं जग्मिवांस्ततः ॥ २६७ ॥ पूज्यैः सहाद्भुता मैत्री तस्येति स्मितपूर्वकम् । सम्यग् विज्ञप्य वृत्तान्तं तदमत्रं समार्पयत् ॥ २६८ ॥ द्वारमुन्मुत्र्य यावत् स सन्निधत्ते दृशोः पुरः । आजिवति ततः क्षारविश्रगन्धं स बुद्धवान् ॥ २६९ ॥ अहो निर्लोभतामेष मूढतां 'चास्पृशेदथ । विमृश्येति विषादेन बभंजाश्मनि सोऽपि तत् ॥ २७० ॥ 15 दैवसंयोगतस्तत्रैकेन वह्निः प्रदीपितः । भक्ष्यपाकनिमित्तं च क्षुत् सिद्धस्यापि दुःसहा ॥ २७१ ॥ पक्ता नृजलवेधेन वह्रियोगे सुवर्णकम् । सुवर्ण सिद्धमुत्प्रेक्ष्य सिद्धशिष्यो विसिध्मिये ॥ २७२ ॥ व्यजिज्ञपद् गुरुं सिद्धं सिद्धिस्तस्याद्भुता प्रभो! । ग्रावा हेमी भवेद् यस्य मलमूत्रादिसङ्गमे ॥ २७३ ॥ ततो नागार्जुनः सिद्धो विस्मयस्मेरमानसः । ध्यौ स मम का सिद्धिर्दारिद्र्यं कुर्वतः सदा ॥ २७४ ॥ वास्तेऽत्र चित्रको रक्तः कृष्णमुण्डी च कुत्र सा । शाकम्भर्याश्च लवणं वज्रकन्दश्च कुत्र च ॥२७५॥20 इत्येवं दूरदेशस्थौषधपिण्डान् प्रपिण्डयन् । भिक्षाभोजनतो म्लानदेहोऽहं सर्वदाऽभवम् ॥२७६॥-युग्मम् आचार्योऽयं शिशुत्वादप्यारभ्य प्राप्तपूजनः । सुखी विहायोगामिन्या सिद्ध्या साध्यानि साधयन् ॥ २७७॥ तथा यदेहमध्यस्था मलमूत्रादयो वसु । साधयन्ति मृदश्मादिद्रव्यैस्तस्यास्तु का कथा ॥ २७८ ॥ रसोपकरणं मुक्त्वा ततोऽसौ प्रभुसन्निधौ । जगाम विनयानम्रमौलिर्मदभरोज्झितः ॥ २७९ ॥ प्रणम्य चावदन्नाथ ! सिद्धिगर्वः स सर्वतः । समागलत् प्रभौ दृष्टे देहसिद्ध जितस्पृहे ॥ २८० ॥ 25 ततः प्रभुपदाम्भोजं सदाप्यवलगाम्यहम् । मिष्टान्नं लभमानस्य कदन्नं कस्य रोचते ॥ २८१ ॥ इति श्रीपादलिप्तस्य चरणक्षालनादिकम् । देहशुश्रूषणं नित्यं विदधाति प्रशान्तगीः ॥ २८२ ॥ सूरयश्च मुनिव्राते गते विचरितुं तदा । प्रागुक्तपञ्चतीर्थ्यां" ते गत्वा व्योम्ना प्रणम्य च ॥ २८३ ॥ समायान्ति मुहूर्तस्य मध्ये नियमपूर्वकम् । विद्याचारणलब्धीनां समानास्ते कलौ युगे ॥ २८४ ॥ आयातानामथैतेषां चरणक्षालनं ध्रुवम् । जिज्ञासुरौषधानीह निर्विकारश्चकार सः ।। २८५ ॥ 30
1A सूरिक । * 'सीसू तरूउं' इति B टि.। 'सुवर्ण' इति B टि.12 B वडिबद्धान् ; C विडबद्धान् । 3 N व्यधात् । 4 BN काचपात्रं । एतत्पदोपरि B आदर्श निम्नगतं पद्यमुट्टिप्पितं लभ्यते पृष्ठपार्श्वभागे
छेद्यश्चम्पकचूतचन्दनवने रक्षा करीरद्रुमे हिंसा हंसमयूरकोकिलकुले काकेषु लीलारतिः।
मातंगे खरविक्रयः समतुलां कर्पूरकर्पासयो एषा यत्र विचारणा गुणगणे देशाय तस्मै नमः॥ 5 N वा । 6 N सुवर्णसिद्धि। 7 B शिष्यो विसिष्मियेषु च । 8 N वा19 N साधयन्ती । 10 N तीर्थान्ते ।