________________
३६
प्रभावकचरिते रोदःकुञ्जरकुण्डके सितरुचिज्योत्स्नाम्लके यद्यशो
राशिः स्यादवसेकिमोऽभ्रविवरः स्वाद्यः सतां सो ऽवतात् ॥ २२६ ।। अथासौ ब्राह्मणैः सार्द्ध संघेनानुमतो ययौ । उपपूज्यं दीक्षिताश्च वाडवाः प्रभुभिस्ततः ॥ २२७ ।। इत्यार्यखपुटश्चक्रे शासनस्य प्रभावनाम् । उपाध्यायो महेंद्रश्व प्रसिद्धि प्रापुरद्भुताम् ॥ २२८ ॥ अश्वावबोधतीर्थ च प्रभावकपरम्परा । अद्यापि विद्यते यस्य सन्ताने सूरिमण्डली ।। २२९ ॥
10
११. सूरिः श्रीपादलिप्तः प्रागाख्यातगुरुसन्निधौ । प्रतीतप्रातिहार्याणि तानि शास्त्राण्यधीतवान् ॥ २३० ॥
पादलिप्ताख्यभाषा च विद्वत्सङ्केतसंस्कृता । कृता तैरपरिज्ञेयोऽन्येषां यत्रार्थ इष्यते ॥ २३१ ॥ आवर्जितश्च भूपालः कृष्णाख्यः संसदा सह । न ददात्यन्यतो गन्तुं गुणगृह्यो मुनीशितुः ॥ २३२ ॥ अथार्यखपुटः सूरिः कृतभूरिप्रभावनः । अन्तेऽनशनमाधाय दैवीभुवमशिश्रियत् ॥ २३३ ॥ श्रीमहेन्द्रस्ततस्तेषां पट्टे सूरिपदेऽभवत् । तीर्थयात्रां प्रचक्राम शनैः संयमयात्रया ।। २३४ ॥ पुरा ये पाटलीपुत्रे द्विजाः प्रव्रजिता बलात् । जातिवैरेण तेनात्र ते मत्सरमधारयन् ॥ २३५ ॥ संघेन पादलिप्तस्य विज्ञैर्विज्ञापितं नरैः । ततस्तेषां समादिक्षत् स विमृश्य प्रभुस्तदा ॥ २३६ ॥ कार्त्तिक्यामहमेष्यामीत्युक्त्वा तान् स व्यसर्जयत् । ततो राजानमापृच्छय भृगुकच्छं समाययौ ।।२३७॥ पूर्वाह्ने व्योममार्गेण रत्नवद्भाखराकृतिः । अवतीर्णो विशीर्णेनाः श्रीसुव्रतजिनालये ॥ २३८ ।। तत्रागतं तमुत्प्रेक्ष्य भास्वन्तमिव भूगतम् । लोकः कोक इवानन्दं प्राप दुष्प्रापदर्शनम् ॥ २३९ ॥ चित्रात् तत्रागमद् राजा नमश्चक्रे च तं गुरुम् । महादानं ददौ तत्र भक्त्या संघसमन्वितः ॥ २४०॥ तत् प्रदापितमर्थिभ्यो द्रव्यं गुरुभिरद्भुतम् । द्विजा व्योमाध्वगं तं च दृष्ट्वाऽतिभयतोऽनशन् ॥ २४१ ॥ राजाह सुकृती कृष्णः पूज्यैर्यो न विमुच्यते । दर्शनस्यापि नार्हाः स्मो मूले जाता वयं कथम् ? ॥२४२॥ कियन्त्यपि दिनान्यत्रावतिष्ठध्वं सुखाय नः । प्राहुः पूज्याश्च युक्तैवावस्थितिर्भवदन्तिके ॥ २४३ ॥ संघादेशो ह्यनुल्लङ्घयः स्नेहश्च नृपतेरपि । पुरस्तस्यापराहे चागमनं प्रतिशुश्रुवे ॥ २४४ ॥ ततः शत्रुञ्जये रैवतके संमेतपर्वते । अष्टापदे च कर्त्तव्या तीर्थयात्रा ममाधुना ॥ २४५ ॥ 'आपृष्टोऽपि महाराज ! तज्जैने भव भक्तिमान् । इत्युक्त्वाऽऽकाशमार्गेण यथारुचि ययौ प्रभुः।। २४६॥
15
20
६१२. तीर्थयात्रां प्रकुर्वाणः पादचारेण सोऽन्यदा । सुराष्ट्राविषयं प्रापदपारश्रुतपारगः ॥ २४७ ॥
तत्रास्ति विगतातङ्का ढंकानाम महापुरी । श्रीपादलिप्तस्तत्रायाद् विहरन् व्रतलीलया ॥ २४८ ॥ 25
तत्र नागार्जुनो नाम रससिद्धिविदां वरः । भाविशिष्यो गुरोस्तस्य तद्वृत्तमपि कथ्यते ॥ २४९ ॥ अस्ति क्षत्रियमूर्धन्यो धन्यः समरकर्मसु । संग्रामनामा विख्यातस्तस्य भार्याऽस्ति' सुव्रता॥२५०॥ सहस्रफणशेषाहिस्वप्नसंसूचितस्थितिः । कृतनागार्जुनाभिख्यस्तयोः पुत्रोऽस्ति पुण्यभूः ॥ २५१ ॥ स वर्षत्रयदेशीयोऽन्यदा क्रीडन् शिशुव्रजैः । सिंहार्भकं विदार्यागात् तस्मात् किञ्चिच्च भक्षयन् ।। २५२ ॥ पित्रा निवारितः क्षात्रे कुले भक्ष्यो नखी नहि । तदागतेन चैकेन सिद्धपुंसेति वर्णितम् ॥ २५३ ॥ मा विषीद स्वपुत्रस्य विहितेन नरोत्तम ! । अशक्यास्वादतस्तस्यास्वाद प्राप्स्यत्यसौ सुतः ॥ २५४ ।। विनिद्र उद्यमी भास्वानाबाल्यादपि तेजसा । प्रवृद्धपुरुषैः संगमङ्गीचक्रे कलाद्भुतैः ॥ २५५ ॥
30
1 A.Cस्य दथ सेकिमो। 2 A वो। 3 Aऽथ । 4 N महानन्दं। 5A अपृष्टोऽपि। 6A तत्रागाद् । नार्यस्ति ।