________________
५. पादलिप्तसूरिचरितम् । सिंहासनेषु चित्रेषु गब्दिकाद्यास्तृतेषु ते ।
उपविष्टास्तदा दृष्टा महेन्द्रेण मनीषिणा ॥ २०० ॥-विशेषकम् । ऊचे तेन क्षितेर्नाथ ! यदपूर्वमिदं हि नः । पूर्व पूर्वामुखान् किं वा नमामः पश्चिमामुखान् ॥ २०१॥ जल्पन्निति' करेणासौ करवीरलतां किल ।
संमुखीनां' परावृत्य पृष्टे चाभ्रामयत् ततः ॥ २०२ ॥-युग्मम् । 5 आसन् लुठितशीर्षास्ते निश्चेष्टा मृतसन्निभाः। अभूच 'भूपतेर्वकं विच्छायं शशिवहिने ॥ २०३ ।। सम्पन्नाश्च तथा सम्बन्धिनस्तेषां कृपाभुवः । जल्पयन्त्यभिधाग्राहं को हि जल्पत्यचेतनः ।। २०४॥ क्रन्दन्ति स्वजनाः सर्वे विकर्म फलितं हि नः । अदृष्टश्रुतपूर्वा हि जैनर्षीणां नतिः परे ॥ २०५॥ भूपरूपेण कालोऽयं दर्शनानामुपस्थितः । पुस्तकस्थपुराणेषु कथापीहर नहि श्रुता ॥ २०६॥ उत्थायाथासनाद्भूपः पश्चात्तापमुपागतः । महेन्द्रस्य महेन्द्रस्य धीरेषु न्यपतत् पदोः ॥ २०७॥ 10 रक्ष रक्ष महाविद्य ! प्रसीद त्वं ममोपरि । क्षमस्खैकं व्यलीकं मे सन्तो हि नतवत्सलाः ॥ २०८ ॥ संजीवय द्विजानेतान् रुदत्संबन्धियोषितः । कस्ते माहात्म्यसात्म्यस्य पारं प्राप्तः सुधीरपि ॥ २०९ ॥ इत्याकर्ण्य गिरं प्राह महेन्द्रः शमिनां पतिः । अनात्मज्ञ धराधीश! कस्ते मिथ्याग्रहोऽलगत् ॥ २१० ।। निर्वाणमधितस्थुश्चेजिना आनन्दचिन्मयाः । तदधिष्ठायकाः सन्ति प्रत्ययाढ्यास्तथाप्यहो ! ॥ २११ ।। एवं मृष्यति को नाम प्राकृतोऽपि विडम्बनम् । ब्राह्मणानां गृहस्थानां प्रणामो यद् व्रतस्थितैः ॥ २१२ ॥15 दैवतैः शिक्षिता एते त्वदन्यायप्रकोपिभिः । न मे कश्चित् प्रकोपोऽस्ति मादृशां मण्डनं शमः ॥ २१३ ॥ पुनर्बादं नृपः प्राह त्वमेव शरणं मम । देवो गुरुः पिता माता किमन्यैलल्लिभाषितैः ॥ २१४ ॥ अमून् जीवय जीवातो! जीवानां करुणां कुरु । अथावोचत् कृती देवान् सान्त्वयिष्ये प्रकोपिनः ॥२१॥ विद्यादेव्यः षोडशापि चतुर्विशतिसंख्यया। जैना यक्षास्तथा यक्षिण्यश्च वोऽभिदधाम्यहम् ॥ २१६॥ अज्ञानादस्य भूपस्यापराद्धं जिनशासने । द्विजैरमीभिस्तत् क्षम्यं मानवाः स्युः कियदृशः ॥ २१७ ॥ 20 इत्युक्ते 'तेन दैवी वाक् प्रादुरासीद् दुरासदा । एषां प्रव्रज्यया मोक्षोऽन्यथा नास्त्यपि जीवितम् ।। २१८॥ अभिषेकेण तेषां गीर्मुत्कला च व्यधीयत । पृष्टा अङ्गीकृतं तैश्च को हि प्राणान् न वाञ्छति ॥ २१९॥ उत्तिष्ठतेति तेनोक्त्वाऽभ्राम्यताथापरा लता । सज्जीबभूवुः प्राग्वत् ते जैना ह्यमितशक्तयः ।। २२० ॥ संघेन सह रोमाञ्चाङ्कुरकन्दलितात्मना । राज्ञा कृतोत्सवेनाथ स्वं विवेशाश्रयं मुनिः ॥ २२१ ॥ प्रव्रज्योत्सवमाधास्यन् सङ्घस्तेन द्विजन्मनाम् । न्यषेध्यतार्यखपुटप्रभुः कर्तेति जल्पता" ॥ २२२ ॥ 25 एवं प्रभावभूमेस्ते कीदृगस्ति गुरुः "प्रभो! । इत्युक्तः श्रीमहेन्द्रोऽसौ प्राह कोऽहं तदग्रतः ॥ २२३ ॥ मार्जारेभ्य इव क्षीरं सौगतेभ्यो व्यमोच्यत । अश्वावबोधतीर्थ श्रीभृगुकच्छपुरे हि यैः ॥ २२४॥ श्रीआर्यखपुटाख्यानां प्रभूणां महिमाद्भुतम् ।
तेषां स्तोतुमलं कः स्याद् वादिद्विपहरिप्रियाम् ॥ २२५ ॥-युग्मम् । चारित्राश्मनि संप्रपीष्य मदनं पात्रे वरिष्ठात्मके
30 _वृद्धस्नेहभरे तपोऽनलमिलज्ज्वाले विपकः स्फुटम् । 1N जल्पन्ति निकरे। 2 CN संमुखानां । 3 A. नृपते। 4 A तदाधि। 5A विडंबितं । 6A व्रतस्थितिः। 7 AC ऽनेन । 8 A आस्यताथापरा'; Bास्यताथोऽपरा। 9 A °खपुटः। 10 A. जल्पता । 11 BN प्रभोः। 12 A पात्रेयरिष्ठा।