________________
प्रभावकचरिते
सूरिः श्रीपादलिप्तोऽपि तत्क्षणं प्राह गाथया । उत्तरं द्राग् विलम्बो हि प्रज्ञा-बलवतां कुतः ॥ ११० ।।
सा चअयसाभिओग संदूमियस्स पुरिसस्स सुद्धहिययस्स ।
होइ वहन्तस्स फुडं चंदणरससीअलो अग्गी ॥ १११॥ इत्युत्तरेण ते सूरेसुंदमापुर्जिता अपि । पराजयोऽपि सत्पात्रैः कृतो महिमभूर्भवेत् ॥ ११२ ॥
ततः सङ्घन विज्ञप्ते सद्गुणेषु प्रमोदिना । शत्रुजयगिरौ यात्रां पादलिप्तप्रभुय॑धात् ॥ ११३ ॥ ६६. मानखेटपुरं प्राप्ताः कृष्णभूपालरक्षितम् । प्रभवः पादलिप्ताख्या राज्ञाभ्यर्यंत भक्तितः ॥११४॥
तत्र पांशुपुरात् प्राप्ताः श्रीरुद्रदेवसूरयः । ते चावबुद्धतत्त्वार्थाः श्रीयोनिप्राभृते श्रुते ॥ ११५ ॥ अन्येद्युर्निजशिष्याणां पुरस्तस्माच शास्त्रतः । व्याख्याता शफरोत्पत्तिः पापसन्तापसाधिका ॥ ११६ ॥ सा कैवर्तेन कुड्यान्तरितेन प्रकटं श्रुता । अनावृष्टिस्तदा चासीत् विश्वलोकभयङ्करी ॥ ११७ ॥ मीनानुत्पत्तिरत्रासीत् तत्र औतप्रयोगतः । मत्स्यान् कृत्वा बहूनेषोऽजीवयद् बन्धुमण्डलम् ॥ ११८ ।। कदापि हर्षतस्तत्र प्रभूपकृतिरञ्जितः । आययौ धीवरो भक्त्या नत्वा च प्रोचिवानिति ॥ ११९ ॥ युष्मत्कथितयोगेनादानो मीनान् व्यधामहम् । स्वादित्वा तांश्च दुर्भिक्षे कुटुम्ब निरवाहयम् ॥ १२० ॥
श्रुत्वेति सूरयः पश्चादतप्यन्त कृतं हि किम् । यतो वधोपदेशेनास्माभिः कल्मषमर्जितम् ॥ १२१ ॥ 15 जीवन जीववधात् पापमयं बह्वर्जयिष्यति । तस्मात् किमपि तत्कार्य येनाधत्ते न स स्वयम् ॥ १२२ ॥
इति ध्यात्वोचिवान् सूरिर्निष्पत्तौ रत्नसन्ततेः । प्रयोगं शृणु दारिद्र्यं कदापि न भवेद् यथा ॥ १२३ ॥ स च स्फुरति नो मांसाशन-जीवविघातयोः । विधीयमानयोस्तत् त्वममू वर्जयसे यदि ॥ १२४ ॥ कथयामि तदा तत् ते श्रुत्वेत्याहेदमप्यहम् । जाने जीववधात् पापं कुटुम्बं तु न वर्त्तते ॥ १२५ ॥ नाथ ! प्रसादतश्चेत् ते विना पापं धनं भवेत् । सद्गतिः प्रेत्य तन्मे स्यात् प्रमाणं पूज्यवाक् ततः ॥१२६॥ अतःपरं गृहे गोत्रे न मे पिशितभक्षणम् । इत्युक्ते रत्नयोगस्तैरुक्तः सोऽभूञ्च धार्मिकः ॥ १२७ ॥
तथा केचिदिति वदन्ति६७. शिक्षितः सिंहयोगं च चक्रे तं तेन भक्षितः । यतोऽल्पदोषतः पुण्यं बहु किं न समयते ॥ १२८ ॥
तथाविलासनगरे पूर्व प्रजापतिरभूत् ततः । तत्र श्रमणसिंहाख्याः सूरयश्च समाययुः ॥ १२९ ॥ तानाहूय नृपः प्राह चित्रं किमपि दर्यताम् । सूरयः प्राहुरर्कस्य कोऽपि वेत्तीह संक्रमम् ॥ १३० ॥ भूपतिः सिद्धदैवज्ञानाहूय वदति स्म सः । रविसंक्रातिसमयमाख्यातास्मत्पुरःसरम् ॥ १३१ ॥ नाडिकापलसङ्ख्याभिस्तं स्फुटं वीक्ष्य तेऽब्रुवन् । आचार्याः' स्माहुरेकोऽश्मा ससूचिर्नः समर्प्यताम् ॥१३२॥ सांवत्सरस्य च ततो नृपस्तदकरोदरम् । सूरिस्तं समयं सूक्ष्मं ज्ञात्वाऽश्मन्यक्षिपच्च ताम् ॥ १३३ ॥ उवाच सूचिकामेनां "मौहूर्तिक ! विनिःकषः । संक्रातिसमये यस्मात् सर्वं जलमयं भवेत् ॥ १३४ ।। गणकोऽपि ततः प्राह ज्ञानं मे नेयतीदशाम्" । प्राप्तं तत्सूरिविज्ञानं दृष्ट्वा भूपो विसिष्मिये ।। १३५ ॥ एकदा सूरयो राज्ञा पृष्ठा वृष्टिविधौ पुनः । विचिन्त्य कथयिष्यामः प्रोच्येति स्वाश्रये ययुः ॥ १३६ ।। तैर्देवेन्द्राभिधः शिष्यः प्रेक्ष्यत क्षितिपाग्रतः । कथ्यं किंचिद् विसंवादि* यथासौ स्यादनादरः॥१३७॥
20
25
30
1 'सा च' नास्ति A1 2A CN अभिदूमियस्स। 8 A प्रांशु। 4 A B प्रापुः। 5A सर्वलोक°। 6 N पापभयं । 7N चित्ते। 80 ततः। 9 N आचार्यः। 10C मुहर्तिक । 11 N ज्ञाने मे नियतिर्दशा। * 'काइ विपरीत कहूं' इति B टि.।