________________
५. पादलिप्तसूरिचरितम् । इति तच्छिक्षितः प्राज्ञो ययौ तत्र जगौ च सः । उत्तरस्या दिशो वृष्टिरमुतः पञ्चमेऽहनि ॥ १३८॥ संजज्ञे वर्षणं पूर्वदिशस्तत्र दिने स्फुटम् । दिग्विसंवादतो* राजा किंचिन्मन्दादरोऽभवत् ॥ १३९॥ कर्मबन्धनिषेधाय तदुपेत्य कृतं च तैः । अभीक्ष्णं राजकार्याणां कथनं कल्मषावहम् ॥ १४०॥
मानखेटपुरं प्रापुस्तेऽथ कालेन केनचित् । निमित्तग्रन्थनिष्णाता राज्ञां ज्ञाताः' कलावशात् ॥ १४१ ॥ ६८. अथार्यखपुटाः सन्ति विद्याप्राभृतसंभृताः । तद्वृत्तमिह जैनेन्द्रमतोल्लासि प्रतन्यते ॥ १४२ ॥ 5
तद्यथाविन्ध्योदधिकृताघाट'लाटदेशललाटिका । पुरं श्रीभृगुकच्छाख्यमस्ति रेवापवित्रितम् ॥ १४३ ॥ यानपात्रं भवाम्भोधौ यत्र श्रीमुनिसुव्रतः । पातकातङ्कतः पाति स्वर्भुवोभूर्भवं जनम् ॥ १४४ ॥ तत्रास्ति बलमित्राख्यो राजा बलभिदा समः। कालिकाचार्यजामेयः स्थेयः श्रेयधियां निधिः॥१४५॥ भवाध्वनीनभव्यानां सन्ति विश्रामभूमयः । तत्रार्यखपुटा नाम सूरयो विद्ययोदिताः ॥ १४६॥ 10 तेषां च भागिनेयोऽस्ति विनेयो 'भुवनाभिधः । कर्णश्रुत्याप्यसौ प्राज्ञो विद्या जग्राह सर्वतः ॥ १४७॥ बौद्धान् वादे पराजित्य यैस्तीर्थ संघसाक्षिकम् । तद्ब्रहध्वान्ततो भानुप्रतिरूपैरमोच्यत ॥ १४८॥ तदा च सौगताचार्य एको 'वडकराभिधः । गुडशस्त्रपुरात् प्राप्तो जिगीषु नशासनम् ॥ १४९॥ गुडपिण्डैः पुरा तत्र शत्रुसैन्यमभज्यत । गुड शस्त्र मिति ख्यातिरतोऽस्याजनि विश्रुता ॥ १५०॥ सर्वानित्यप्रवादी स चतुरङ्गसभापुरः । जैनाचार्यस्य शिष्येण जितः स्याद्वादवादिना ॥ १५१॥ 15 कांदिशीकस्ततो मन्युपूरपूरितमानसः । कोपादनशनं कृत्वा मृत्वा यक्षो बभूव सः ॥ १५२ ॥ निजस्थानेऽवतीर्यासौ सकोपः श्वेतभिक्षुषु । अवजानाति तांस्तेषामुपसर्गान् दधाति च ॥ १५३ ॥ तत्पुरस्थेन सङ्घन तदार्यखपुट'प्रभुः । तत्र व्रतिद्वयं प्रेष्य ज्ञापितस्तत्पराभवम् ॥ १५४ ॥
एषा कपलिका वत्स ! नोन्मोच्या कौतुकादपि । कदापि शिक्षयित्वेति जामेयमचलत् ततः॥ १५५ ॥ पुरे तत्र गतस्तस्य यक्षस्यायतनेऽवसत् । उपानही निधायास्य कर्णयोः शयनं व्यधात् ॥ १५६ ॥ 20 यक्षार्चकः समायातस्तं तथा वीक्ष्य भूपतेः । व्यजिज्ञपदथो तस्मै कुपितः 'कुपतिस्ततः ॥ १५७ ॥ समेत्य शयितं बाढं पटं प्रावृत्य सर्वतः । निजैरुत्थापयामास तेऽद्राक्षुः परितः पुतौ ॥ १५८॥ तैराख्याते पुनः क्रुद्धो नृपस्तं लेष्टुयष्टिभिः । अघातयत् स घातानां प्रवृत्तिमपि वेत्ति न" ॥ १५९ ।। क्षणेन तुमुलो जज्ञे पुरेऽप्यन्तःपुरेऽपि च । पूत्कुर्वन्तः समाजग्मुः सौविदा अवदंस्तथा ॥ १६० ॥ रक्ष रक्ष प्रभो ! न्यक्षः शुद्धान्तो लेष्टुयष्टिभिः । अदृष्टविहितैः कैश्चित् प्रहारैर्जर्जरीकृतः ॥ १६१ ॥ 25 तदाकर्ण्य नृपो दध्यौ विद्यासिद्धोऽसको ध्रुवम् । संचारयति शुद्धान्ते प्रहारान् स्वं तु रक्षति ॥ १६२॥ . तदयं माननीयो मे ध्यात्वेति तमसान्त्वयत् । चटुभिः पटुभिर्भूपः साधिष्ठायकदेववत् ॥ १६३ ॥ अथार्यखपुटाचायें: कृत्वा कपटनाटकम् । उत्थितः प्रणतो भूमिभुजा भून्यस्तमस्तकम् ॥ १६४॥ यक्षं प्रोचे मया सार्द्ध चलेति स ततोऽचलत । तमनप्राचलन" देवरूपकाण्यपराण्यपि ॥ १६५ चाल्यं नरसहस्रेण तत्र द्रोणीद्वयं तथा । चालितं कौतुकेनेत्थं तत्प्रवेशोत्सवोऽभवत् ।। १६६ ॥ 30 तत्प्रभावाद्भुतं वीक्ष्य जनेशोऽपि जनोऽपि च । जिनशासनभक्तोऽभून्महिमानं च निर्ममे ॥ १६७ ॥
सूरिनूपेण विज्ञप्तो यक्षं स्थाने न्ययोजयत् । स शान्तो द्रोणियुगलं तत्रैव स्थापितं पुनः ॥ १६८॥ ___ * "दिसिनु वहिरु पडिउ' इति B टि.। 1 A B ज्ञाता। 2 BN घाटा। 3 A विश्वासभू। 4 BC विद्यतोद्यताः । 5 B भवना। 6 N बहुकरा; C बदुकरा ; A वडकरा । 7 A °खपुटः + A B आदर्शद्वये नोपलभ्यते श्लोकोऽयम् । 8A कुपितः कुपितः; N कुपतिः कुपितः। 9BN सुतौ; A मुतौ। 10 CN नः। 11 B भारवाहकवद् ।
प्र०५