________________
प्रभावकचरिते
10
15
भूपाहूतः स 'आगत्योज्जग्रन्थ च यतीश्वरः । मुरण्डनृपतिस्तत्राक्षिप्तश्चिन्तयते तदा ॥ ५४॥ बालाचार्योऽयमीक्षैः खेलनीयः कुहेतुभिः । दध्यावहमयं किंत्वधृष्यः केसरिवच्छिशुः ॥ ५५॥ 'वयस्तेजसि नो हेतु'रिति सत्यं पुरा वचः । को हि सिंहार्भकं सत्रेऽणुरूपमपि लंघयेत् ।। ५६ ॥ शिरोवेदनयाक्रान्तः सोऽन्यदा भूपतिः प्रभुम् । व्यजिज्ञपत् प्रधानेभ्यः क्षुते* नष्टे स्मृती रवेः ॥ ५७ ।। तर्जनीं प्रभुरप्येष त्रिः स्वजानावचालयत् । भूपतेर्वेदना शान्ता तस्य किं दुष्करं प्रभोः ॥ ५८ ॥
तथा हिजह जह पएसिणिी जाणुयंमि पालित्तउ भमाडेइ ।
तह तह से सिरवियणा पणस्सई मुरण्डरायस्स ॥ ५९॥ मत्ररूपामिमां गाथां पठन् यस्य शिरः स्पृशेत् । शाम्येत वेदना तस्याद्यापि मूर्धोऽतिदुर्धरा ॥ ६० ॥ स तत्कालोपकारेण हृतान्तःकरणो नृपः । सूरेोलस्य पादानां प्रणामेच्छू रवेरिव ॥ ६१ ॥
समाययौ ययौ श्रेष्ठे द्रागारुह्य तदाश्रयम् । सकर्णः को न गृह्येत गुणैः सत्यैर्लघोरपि ॥ ६२ ॥-युग्मम् । ४. प्रभोरुपान्तमासीनो रहः पप्रच्छ भूपतिः । भृत्याः कृत्यानि नः कुर्युर्वेतनस्यानुसारतः ।। ६३ ॥ तद्विनामी विनेयाश्च युष्माकं तु कथं विभो ! । भिक्षकवृत्तिमात्राणां ते कार्यकरणोद्यताः ॥६४॥-युग्मम् ।। सूरयः प्राहुरस्माकं विना दानं सदोद्यताः । कार्याणि भूप ! कुर्वन्ति लोकद्वयहितेच्छया ॥६५॥ भूपः प्राह न मन्येऽहं द्रव्यस्था' हि जनस्थितिः । निःस्वस्त्याज्यः पुमाँल्लोकेऽरण्यं दग्धं मृगैरिव ॥ ६६ ।। अथाह सूरिरुर्वीश ! त्वद्भुत्या बहुवृत्तयः । तादृगुक्तं न कुर्वन्ति यादृङ् मे दानमन्तरा ॥ ६७ ॥ इहार्थे प्रत्ययो भूप! कौतुकादवलोक्यताम् । दक्षः शुचिर्गुणी कश्चित् प्रतिष्ठां प्रापितः सदा ॥ ६८॥ ताम्बूलाभरणक्षौमैरात्मतुल्यः सदेक्षितः । विश्वासस्य परा भूमिमूर्त्यन्तरमिवापरम् ॥ ६९ ॥ आहूयतां पुमान् प्रष्ठः सौष्ठवी कोऽपि भृत्यराट् ।
यथा प्रतीतिसम्पत्तिर्मद्वाक्यस्य भवेत्ततः ॥ ७० ॥-त्रिभिर्विशेषकम् ॥ क्षत्राक्षत्रपतिस्तत्राहूतवान् प्राग्गुणान्वितम् । प्रधानमाजगामायं मूर्धन्यस्तकरद्वयः ॥ ७१ ॥ स प्रोवाच प्रसादं मे स्वामिन् ! आदेशतः कुरु । सुदुष्करतरेऽप्यर्थे भृत्यलेशे निजे मयि ॥ ७२ ॥ राजा प्राह-'सखे ! गङ्गा वहतीह कुतोमुखी ? ।' इत्युक्तेऽन्तःस्मितः सोपहासं चिन्तयति स्म सः ॥७३॥ अहो! बालर्षिसंसर्गाद राज्ञः शैशवमागतम् । 'गङ्गा कुतोमुखी! बालाननाख्यातमिदं वचः ॥४॥ ततः प्रमाणमादेश इत्युक्त्वा स ययौ बहिः । ऐश्वर्यग्रहिलो राजा नाहमप्यस्मि तादृशः ॥ ७५ ॥ फल्गुवाग्भिस्ततः स्वीयं सुखं परिहरामि किम् । ध्यात्वेति व्यसनी तत्र प्रायः प्रायाद् दुरोदरे ॥ ७६ ॥ खेलग्निर्वाह्य तत्रासौ चतस्रः पञ्च नाडिकाः । गत्वा स्वामिपुरः 'पूर्वामुखी'त्युत्तरमाह सः ॥ ७ ॥ अपसप्पैः प्रसर्पद्भिस्तद्वृत्तं भूपतेः पुरः । न्यवेद्यथ" यतिखामी स्मितं कृत्वाऽभ्यधादिति ॥ ७८ ॥ भूपाल ! चेष्टितं दृष्टं धनमानातिशायिनः । निजप्रसादवित्तस्यापरेषां तु कथापि का ॥ ७९ ॥ अद्यश्वीनविनेयस्याशिक्षितस्य व्यवस्थितिम् । पश्य नश्यन्मदस्येह" चित्तान्तश्चित्रकारिणीम् ॥ ८॥ आगच्छाभिनवक्षुल्ल! व्याहृते चेति सूरिभिः । इच्छामीति वदन् शीघ्रमुत्तस्थौ सरजोहृतिः ॥ ८१ ॥
20
25
30
1A समागव। * 'छींक नावई' इति B टि.।'तर्जनी' इति B टि.12 B N सिसिर°13 A वेयण; C विक्षणा । 4 नास्ति C आदर्शे। 5A वः। 'मूल्यनइ मेलिं' इति B टि.। 6 BN °पात्राणां। 7 BC द्रव्यखादे; A द्रव्यत्यादि । 8A जनं स्थितः; B जनस्थितः; Cजनः स्थितिः। 9A अवसः। 10 A निवेद्याथ; Cन्यवेद्यत । 11 N 'मदमेहं; Cमदनेहश्चि।