________________
५. पादलिप्तसूरिचरितम् ।
२९
वैरोट्यायास्ततः पूजां कृत्वा तत्पादयोः पुरः । न्यस्यातो गुरुपादान्ते मुक्तस्तेषां तथार्पितः ॥ २७ ॥ वर्द्धतामस्मदायत्त इति प्रत्यर्पितः स तैः । प्रवर्धितोऽतिवात्सल्यात् तथा तद्गुरुगौरवात् ॥ २८ ॥ नागेन्द्राख्यां ददौ तस्मै फुल्ल उत्फुल्ललोचनः । आत्तो गुरुभिरागत्य स गर्भाष्टमवार्षिकः ॥ २९ ॥ तद्गुरुभ्रातरः सन्ति संगमसिंहसूरयः । आदेशं प्रददुस्तेषां प्रभवः शुभमायतौ ॥ ३० ॥ प्रव्रज्यां प्रददुस्तस्य शुभे लग्ने स्वरोदये । उपादानं गुरोर्हस्तं शिष्यस्य प्राभवेन तु ॥ ३१ ॥ गणिश्च मण्डनो नाम तदीयगणमण्डनः । आदिष्टः प्रभुभिस्तस्य शुश्रूषाध्यापनादिषु ॥ ३२ ॥ वैदग्ध्यातिशयादन्यपाठकानां पुरोऽपि यत् । ख्यातं तदपि गृह्णाति स्वपाठ्येषु तु का कथा ॥ ३३॥ लसल्लक्षण- साहित्य प्रमाण - समयादिभिः । शास्त्रैरनुपमो जज्ञे विज्ञेशो वर्षमध्यतः ॥ ३४ ॥ गुरुत्तमतां प्राप्य नृषु प्रथमरेखया । धूनन्नवनवाविश्वलक्षणेभ्योऽधिकस्ततः ॥ ३५ ॥ ६२. अन्येद्यरारनालाय प्रहितो गुरुभिस्तदा । विधिना तत् समादायोपाश्रये पुनराययौ ॥ ३६ ॥ तदीर्यापथिकी पूर्वमालोचयदनाकुलः । गाथया कोविदश्रेणीहृदयोन्माथया ततः ॥ ३७ ॥ तथा हि
अब तंबच्छीए अपुष्कियं पुप्फदंतपंतीए ।
'नवसालिकंजियं नववहूइ कुडएण' मे दिनं ॥ ३८ ॥
1 A अतो । 2 B ' नवचवा' । 3 'घडाथी' इति B टि० ।
* ‘श्रीणाति यः स्वचरितैः पितरं स पुत्रो यद् भर्तुरेव हितमिच्छति तत्कलत्रम् |
5
श्रुत्वेतिगुरुभिः प्रोक्तः शब्देन प्राकृतेन सः । पलित्तो इति शृङ्गाराग्निप्रदीप्ताभिधायिना ॥ ३९ ॥ स च व्यजिज्ञपत् पूज्यैः शिष्यः कर्णात्प्रसाद्यताम् । श्रुत्वेति प्रज्ञया तस्य तुतुषुर्गुरवो भृशम् ॥ ४० ॥ विमृश्येत्यतिहृल्लासपूरितास्ते* तदग्रतः । पादलिप्सो भवान् व्योमयानसिद्ध्या विभूषितः ॥ ४१ ॥ इत्यसौ दशमे वर्षे गुरुभिर्गुरुगौरवात् । प्रत्यष्ठाप्यत पट्टे स्वे कपपट्टे प्रभावताम् ॥ ४२ ॥ मथुरायां गुरुः प्रैषीदसंख्यातिशयाश्रयम् । तेजोविस्तारसंघोपकारहे तोस्तमन्यदा ॥ ४३ ॥ ६३. दिनानि कतिचित् तत्र स्थित्वाऽसौ पाटलीपुरे । जगाम तत्र राजास्ति मुरण्डो नाम विश्रुतः ॥ ४४ ॥ 20 केनापि तस्य चित्रायसूत्र' प्रथित' वृत्तकः । गूढवक्त्र मिलत्तन्तु चयाज्ञाताव' सानकः ॥ ४५ ॥ ढोकितः कन्दुक: पादलिप्तस्य च गुरोः पुरः ।
राज्ञा प्राहयत प्रज्ञापरीक्षावीक्षणोद्यमात् ॥ ४६ ॥ - युग्मम् । अथोत्पन्नधिया सूरिर्विलास्योष्णोदकाप्लवैः । सिक्ककं" निपुणं प्रेक्ष्य तत्तन्तुप्रान्तमाप सः ॥ ४७ ॥ उन्मोच्य प्रहितो राज्ञे तद्बुद्ध्यासौ चमत्कृतः । प्रज्ञाविज्ञाततत्त्वाभिः कलाभिः को न गृह्यते ॥ ४८ ॥ तथा गङ्गातरोर्यष्टिः समा लक्ष्णा समर्पिता" । तन्मूलाग्रपरिज्ञानहेतवे स्वामिना भुवः ॥ ४९ ॥ तारयित्वा जले मूले गुरुत्वात् तन्निमज्जनात् । अग्र-मूले परिज्ञायाचख्यौ राज्ञः पुरस्ततः ॥ ५० ॥ तथा समुद्रकोऽनीक्ष्यसन्धिः सूरेः प्रदर्शितः । उष्णोदकात् समुद्घाट्य तच्चित्रं प्रकटीकृतम् ॥ ५१ ॥ श्रीपादलिप्ताचार्येण तन्तुप्रथिततुम्बकम् । पेशीकोशायितं वृत्तं प्रहितं राजपर्षदि ॥ ५२ ॥ उन्मोचितं न तत् तत्र केनापि मुमुचे ततः । तगुप्तं तेन मोच्येत नान्यैरित्यभि भाषिभिः ॥ ५३ ॥
तन्मित्रमापदि सुखे च समक्रियं यत् एतत् त्र्यं जगति पुण्यकृतो लभन्ति ॥ १ ॥ इति B टिप्पणी ।
4 B प्रभावनां । 5 N चित्रायस्तत्र । 6 C ग्रंथित' | 7 N तंतुवयात्क्रान्ता । 8 CN विलोल्यो । 9 B दकोप्ल° । 10 CN सिक्थकं । 11 A समार्पिता । 12 N 'त्यतिभाषि° ।
10
15
25
30