________________
प्रभावकचरिते. ५. श्रीपादलिप्तसूरिचरितम्।
10
16
६१. जयन्ति पादलिप्तस्य प्रभोश्चरणरेणवः । श्रियः संवनने वश्यचूर्णं तत्प्रणताङ्गिनाम् ॥ १ ॥
गुणैकदेशमप्यस्य किमहं वर्णितुं क्षमः । जडस्तथापि तद्भक्तिर्लोक युग्मोपकारिणी ॥ २॥ विमृश्यैवं भणिष्यामि पूज्यैर्मस्तकहस्तितः । खण्डखण्डश्रुतं वृत्तं चित्रं शृणुत कौतुकात् ।। ३ ।। सरयू-जाह्नवीवारिसेवाहेवाकिमानवा । अस्ति विस्तारकुशला कोशला नामतः पुरी ॥ ४ ॥ तत्रासीद् हास्तिकाश्वीया पहस्तितरिपुव्रजः । विजयब्रह्म इत्याख्याविख्यातः क्षितिनायकः ॥ ५ ॥ संफुल्लमल्लिकावल्लीकुसुमप्रोल्लसद्यशाः । फुल्लाख्यः फुल्ललक्ष्मीकः श्रेष्ठी श्रेष्ठगुणावनिः ॥ ६॥ रूपेणाप्रतिमा तस्य प्रतिमाख्याऽतिवल्लभा । सुधा मुधाकृता यस्या गिरयाऽगाद् रसातलम् ॥ ७ ॥ अपत्यीयितचित्तायास्तस्या हस्तनिरीक्षणम् । होराविद्यामहामबावन्ध्यागर्भकराण्यपि ॥८॥
औषधानि प्रयुक्तानि क्षेत्रपद्रादिदेवताः। उपयाचितलःश्वाराद्धा आसंश्च निष्फलाः॥९॥-युग्मम् । तीर्थस्नानप्रयोगाश्च यथाकथनतः कृताः । अपत्यार्थमहो! मोहः स्त्रीणां सौहृत्यवजने ॥ १० ॥ अस्ति श्रीपार्श्वनाथस्य चैत्ये शासनदेवता । वैरोट्या तामटाट्या या निर्विण्णा सा समाश्रयत् ॥ ११ ॥ कर्पूरमृगनाभ्यादिभोगैः संपूज्य तामसौ । उपवासैर्व्यधादष्टाह्निकामेकाग्रमानसा ॥ १२ ॥ अष्टमेऽहनि तुष्टा सा प्रत्यक्षीभूय तां जगौ । वरं वृणु तया पुत्रो ययाचे कुलदीपकः ॥ १३ ॥ अथो फणीन्द्रकान्ताऽसावादिदेश सुते ! शृणु । पुरा नमि-विनम्याख्यविद्याधरवरान्वये ॥ १४ ॥ आसीत् कालिकसूरिः श्रीश्रुताम्भोनिधिपारगः । गच्छे विद्याधराख्यस्यायनागहस्तिसूरयः ।। १५ ॥ खेलादिलब्धिसम्पन्नाः सन्ति त्रिभुवनार्चिताः।
पुत्रमिच्छसि चेत्तेषां पादशौचजलं पिबेः ॥ १६ ॥-त्रिभिर्विशेषकम् । श्रुत्वेति चैत्यतः प्रातस्तेषामागादुपाश्रये । प्रविशन्ती च साऽपश्यत् साधुमेकं तटस्थितम् ॥ १७ ॥ करस्थप्रभुपादाब्जक्षालनोदकपात्रकम् । तत्पार्श्वे प्रार्थनापूर्व तत्पयः साऽपिबन्मुदा ॥ १८ ॥-युग्मम् । अथ तत्राग्रतो गत्वा नमश्चक्रे प्रभोः पदौ । धर्मलाभाशिषं दत्वा निमित्तं चाह सद्गुरुः ॥ १९ ॥ अस्मत्तो दशभिर्हस्तैर्दूरे पीतं त्वयोदकम् । दशभिर्योजनैरन्तरितो वर्धिष्यते सुतः ॥ २० ॥ यमुना परतीरेऽत्र मथुरायां प्रभावभूः । भविष्यन्ति तथान्ये ते नवपुत्रा महाद्युतः ॥ २१ ॥ साहाथ प्रथमः" पुत्रो भवतामर्पितो मया । अस्तु श्रीपूज्यपार्श्वस्थो दूरस्थस्यास्य को गुणः ॥ २२ ॥ श्रुत्वेत्याह प्रभुः सङ्घानन्तोद्धारादिशूकरः । स भविष्यति ते पुत्रः सुत्रामसचिवो धिया ॥ २३ ॥ इत्यादाय प्रभोर्वाक्यं शकुनग्रन्थिबन्धिनी । गृहं ययौ गृहेशस्य तुष्टा वृत्तं न्यवेदयत् ॥ २४ ॥ गर्भोऽभूत् तहिनेऽमुष्या नागेन्द्रस्वप्नसूचितः । तदौचित्यकृत श्वास्या वृद्धः साधं मनोरथैः ॥ २५ ॥ दिनेषु परिपूर्णेषु सुतो जज्ञे सुलक्षणः । रूपेणातिस्मरः श्रीमांस्तेजसा चातिभानुमान् ॥ २६ ॥
20
25
1 N तस्योति। * 'अहिलोक परलोक' इति B टि.12 N °कास्मीया 13 C विज्ञातः; A B°विख्यातक्षि°14 N°प्रतिमानस्य।
विन्ध्यो गजेन मलयो मलयोद्भवेन रत्नेन रोहणगिरिर्जगति प्रसिद्धः।
मुक्ताफलेन सरितामधिपो यथैव गोत्रं तथैव तनयेन कुलोद्भवेन ॥ १॥ इति B टिप्पणी । 5 BN सौहत्यहृजने। B सौहत्सवजने। 6 N नाम विद्याया। 7 A पिब, C पिबे। 8 BN नमित्तं । 9 B यमुनापुर। 10 N च। 11 A प्रथमपु°। 12 A °कृतेश्चा।