________________
१६
प्रभावकचरिते
10
15
तत्राद्यपुष्यमित्रस्य लब्धिरासीञ्चतुर्विधा । द्रव्यतः क्षेत्रतश्चापि कालतो भावतस्तथा ॥ २०९ ॥ द्रव्यतो घृतमेव स्यात् क्षेत्रतोऽवन्तिमण्डलम् । ज्येष्ठाषाढे कालतस्तु भावतोऽथ निगद्यते ॥ २१० ॥ दुर्गता ब्राह्मणी षड्भिर्मासैः प्रसवधर्मिणी । तद्भर्तेति विमृश्याज्यं भिक्षित्वा संचये दधौ ॥ २११ ॥ ततः सा प्रसवे चाद्यश्वीने क्षुद्वाधितं द्विजम् । तद् घृतं याचमानं तं रुणयन्यनिराशया ॥ २१२ ॥ स मुनिश्चेदर्थयेत दत्ते तदपि सा मुदा । यावद्गच्छोपयोग्यं स्यात् *तावदाप्नोति भावतः ॥ २१३ ।। वस्त्रादिपुष्यमित्रस्य प्रेक्ष्यते लक्षणं त्विदम् । द्रव्यतो लभते वस्त्रं क्षेत्रतो मथुरापुरि॥ २१४ ।। वर्षा-शिशिरहेमन्ते कालतो भावतस्त्विदम् । तस्य लब्धिविशेषोऽयं क्षयोपशमसंभवः ॥ २१५ ॥ अनाथा महिला कापि कार्पासोच्चयमूल्यतः । तूलं संपिण्ड्य' कर्तित्वा वानकर्मकृतां गृहे ॥ २१६ ॥ कर्म कृत्वा वेतनेना पटं तेभ्यः प्रवाययेत् । शाटकं विपटा तेनार्थिता तमपि यच्छति ॥ २१७ ॥ दुर्बल: पुष्यमित्रोऽपि यथालब्धं घृतं धनम् । भुनक्ति स्वेच्छयाऽभीक्ष्णं पाठाभ्यासात् तु दुर्बलः॥२१८॥ स मनीषाविशेषेण गृहीतनवपूर्वकः । समभ्यस्यत्यहोरात्रं मा विस्मार्षीन्मम श्रुतम् ॥ २१९ ॥ सनाभयो दशपुरे तस्य तिष्ठन्ति विश्रुताः । सौगतोपासकास्ते च सूरिपार्श्वे समाययुः ॥ २२० ॥ ऊचु?ष्माकधर्मेऽस्मिन् ध्यानं नास्ति स चावदत् । ध्यानमस्माकमस्तीह यत् तत् तेषां न विद्यते ॥२२१॥ भावत्कः पुष्यमित्रोऽयं ध्यानेनैवास्ति दुर्बलः । ते प्राहुर्मधुराहाराभावः कार्याय सव्रते ॥ २२२ ॥ गुरुः प्रोवाच वृद्धानां प्रसादेन घृतप्लुतम् । भुंक्ते यथेच्छं सततं गुणनेन त्वयं कृशः ॥ २२३ ॥ कुतो वः स्नेहसंपत्तिरित्युक्ते गुरुरुत्तरम् । प्रादाद् घृतं पुष्यमित्रः समानयति तद् घनम् ॥ २२४ ॥ अथ न प्रत्ययो वस्तन्नयतामुं निजे गृहे । दिनानि कतिचिच्चास्य स्निग्धाहारं प्रयच्छत ॥ २२५ ॥ स्वयं ज्ञास्यथ सद्भावं दौर्बल्यहेतुमप्यथ । तैराहूतोऽप्यनुज्ञातो गुरुभिस्तद्गृहं ययौ ॥ २२६ ॥ पोष्यमाणो वराहारैरप्यसौ कृशतां भजेत् । अहर्निशमधीयानो रसास्वादं न बुध्यते ॥ २२७ ॥ स्वजना "व्यमृशन्नस्य भुक्तं भस्मनि होमवत् । ददुर्बहुतरं ते च ततोऽप्यस्य न किंचन ॥ २२८ ॥ प्रेक्षिरे व्यतिरेकं ते प्रान्ताहारप्रदायिनः । न्यषेधयन्नध्ययने पुरावस्थाङ्गभागभूत् ॥ २२९॥
प्रतीतास्तेन संबोधि" प्राप्यन्त स्वजना निजाः । पुनरागाद् गुरूपान्ते शान्ते चेतसि सुस्थितः ॥ २३० ॥ ६११. तत्र गच्छे च चत्वारः प्राज्ञा मुनिमतल्लिकाः ।
दुर्बल पुष्यमित्रोऽथ विन्ध्याख्यः फल्गुरक्षितः ॥ २३१ ॥ 25
गोष्ठामाहिलनामा च जितौशनसचेतनः । तेषां विन्ध्योऽथ मेधावी गुरून विज्ञपयत्यदः ॥ २३२ ।। महत्यामनुयोगस्य मण्डल्यां पाठघोषतः।
स्खलति श्रुतपाठो मे पृथग्मे कथ्यतां ततः ॥ २३३॥-त्रिभिर्विशेषकम् । सूरिराह स्वयमहं व्याख्यामि भवतः पुरः। "व्याख्यानमण्डलीं तूलङ्घयामि महतीं कथम् ॥ २३४॥
तस्मात ते वाचनाचार्यो दबल: पुष्यमित्रकः। महामतिरुपाध्यायोऽधीष्व शीघ्रं तदग्रतः ॥ २३५ ॥ 30
एवं कृते “दिनैः कैश्चित्स विन्ध्याध्यापको" गुरून् । कृतांजलि "रहोऽवादीत् प्रभो! शृणुत मद्वचः॥२३६।। अहं वाचनया व्यग्रः स्वाधीतं विस्मरामि यत् । गुणने भङ्गपातेन तत् खिन्नः किं करोम्यहम् ॥ २३७ ।।
20
1N भक्षित्वा। 2 N समुदा; C सुमुदा । 3 A वत्सोपयोग्यं । * 'तृप्तपर्यंतै' इति B टि.। 4 C लवणं । 5 N पुरी। 6 B C कर्पासो । 7 A संपीड्य । 'मूल्य' इति B टि.'निष्पन्नं' इति B टि.। 8 A विटपा। 9 B भ्यस्यत्यतो बाढं।
"विक्षात्' इति B टि० । 10 B विमृशन्न । एष उत्तरार्द्धः पतितः C आदर्शे। 11 B N संबोधं। 12 B विन्ध्याक्षः। || 'भणवानी मांडलिई' इति B टि.। 13 A व्याख्यानं । 14 B दिने। 15 B विन्ध्योऽध्यापको। 16 C जलिरवो ।